श्रीदत्त ॥ श्रीवैष्णवेशगाणेशसौर्यशाक्त्यादिरुपधृक् ॥ दत्तात्रेयो स्त्वजोनन्तःसदामेह्यदिसद्वुरुः ॥१॥
योजोनन्तोगुणोरुपोनिस्तृडे कोऽक्रियोऽसृजत् ॥ विश्वंधृत्वाषोडशांशम्पुंरुपंयोगमायया॥२॥
द्दश्य तेज्ञानद्दष्टयायत्सहस्त्राक्षिशिरोन्घ्रिसत् ॥ रुपंयदंगसंस्थानैर्लोकव्यासः प्रकल्पते॥३॥
नानावतारबीजंयदनन्तंयत्कलामुखैः ॥ देवति र्यड् .मुखंसृष्टमस्वतन्त्रंजगत्पुरु॥४॥
गोभिःस्वार्थादानमीशसृष्टंने शात्परंक्कचित् ॥ देहेन्द्रियात्मजीवोत्थौरागद्वेषावियन्तुभित्॥५॥
भूतेद्सोजोऽव्ययात्मापिसंभवत्यात्ममायमा ॥ श्रेयोऽर्हसाधुगुप्त्यै स्वप्रकृतिस्थोयुगेयुगे ॥६॥
श्रुत्वातत्कर्मनिर्द्वन्द्वोमुच्यतेकर्मबन्धना त् ॥ नतथाकर्मसिद्वीप्सुर्द्वन्द्वात्माभ्रान्तहत्ररः ॥७॥३
गुणकर्म भिदासृष्टचातुर्वर्ण्यस्यसोऽव्ययः ॥ कर्ताप्यकर्तायैर्ज्ञातोबध्यन्तेकर्म भिर्नये॥८॥
भूभारभूततद्देष्यघातायविधिधास्तनूः ॥ धृत्वाकं टकवन्मत्वाकृतकार्योजहात्यसौ ॥९॥
अस्यैवापूर्णकृत्यास्युस्तन्व स्तासूत्तमोत्तमा ॥ तनुरेकास्तिदत्ताख्याकृपासूःस्मर्तूगामिनी ॥१०॥
मुक्तैर्मुमुक्षुभिश्वान्यैर्ध्येयानान्येद्दशीकलौ ॥ कामदायस्यकस्यापि स्मृतिगामिन्यनुक्षणम् ॥११॥
विश्वंततानयोव्यक्तस्तद्यत्स्थंयोन तत्स्थितः ॥ तद्यत्स्थंनैश्वराद्योगात्तद्वृत्तत्स्थोनवायुवत् ॥१२॥
माव शाद्योवशोभीक्ष्णंव्यसृजत्तदबंधनः ॥ येनाध्यक्षेणमासूतेजगद्वेदाम लंनयम् ॥१३॥
नृरुपेणावतीर्णंयत्तत्त्वाज्ञोसुरभावगः ॥ नवेत्तियोगगम्यंयंसद्वर्मत्राणकारणम् ॥१४॥
सोन्वर्थाख्यानसूयात्रिपुत्रोजज्ञे जईश्वरः ॥ अचिन्त्याव्यक्तरुपोपिदत्तोर्च्यःस्मृतितोषणः ॥१५॥
परानंदमयोविष्णुर्ह्रत्स्थोऽवेद्योप्यतीन्द्रियः ॥ सदासंपूज्यतेभक्तैर्भग वान्भक्तिभावनः ॥१६॥
अचिन्त्यस्यकुतोध्यानंकूटस्थावाहनं कुतः ॥ क्कासनंविश्वसंस्थस्यपाद्यंपूतात्मनःकुतः ॥१७॥
क्कान र्घोरुकमस्यार्ध्यंविष्णॊराचमनंकुतः ॥ निर्मस्यकुतःस्नानंक्कनिराव रणेम्बरम् ॥१८॥
स्वसूत्रस्यकुतःसूत्रंनिर्मलस्यचलेपनम् ॥ न स्तृषःसुमनोभिःकिंकिमक्लेद्यस्यधूपतः ॥१९॥
स्वप्रकाशस्पदीपैः किंकिंभक्ष्याद्यैर्जगद्वृतः ॥ किंदेयंपरितृप्तस्यविराजःक्क्प्रदक्षिणाः ॥२०॥
किमनंतस्यनतिभिःस्तौतिकोवागगोचरम् ॥ अंतर्बहिःप्रपूर्णस्यक थमुद्वासनंभवेत् ॥२१॥
सर्वतोपीत्यसंभाव्यतेभक्तिभावनः ॥ सेव्यसेवकभावेनभक्तैर्लीलानृविग्रहः ॥२२॥
तवेशातींद्रियस्यापि पारंपर्याश्रुतांतनुं ॥ प्रकल्प्याश्मादावर्चंतिप्रार्चयेर्चांमनोमयीं ॥२३॥
कलसुश्लोकगीतेनभगवन्दत्तजागृहि ॥ भक्तवत्सलसामीप्यंकुरुमे मानसार्चने ॥२४॥
श्रीदतंखेचरीमुद्रामुद्रितंयोगिसद्रुरुं ॥ सिद्वा सनस्थंध्यायेऽभीवरप्रदकरंहरिम् ॥२५॥
दत्तात्रेयाह्रयाम्यत्रपरिवा रैःसहार्चने ॥ श्रद्वाभक्त्येश्वरागच्छध्यातधाम्रांजसाविभो ॥२६॥
सौवर्णरत्नजडितंकल्पितंदेवतामयम् ॥ रम्यंसिंहाअसनंदत्ततत्रोपविशयंत्रिते ॥२७॥
पाद्यंचंदनकर्पुरसुरभिस्वादुवारिते ॥ गृहाणक ल्पितंतेनदत्तांघ्रीक्षालयामिते ॥२८॥
गंधाब्जतुलसीबिल्वशमी पत्राक्षतान्वितम् ॥ साम्बर्ध्यस्वर्णपात्रेणकल्पितंदत्तगृह्यताम् ॥२९॥
सुस्वाद्वाचमनीयांबुहैमपात्रेणकल्पितम् ॥ तुभ्यमाचम्यतांदत्तमधुंपर्कंगृहाणच ॥३०॥
पुष्पवासितसत्तैलमंगेष्वालिप्यदत्तभोः ॥ पंचामृतैश्वगांगाद्विस्त्रानंतेकल्पयाम्यहं ॥३१॥
भक्त्यादिगंबराचां तजलेदंदत्तकल्पितम् ॥ काषायपरिधानंतद्रृहाणैणेचर्मच ॥३२॥
नानासूत्रधरैतेतेब्रह्यसूत्रेप्रकल्पिते ॥ गृहाणदैवतमयेश्रीदत्तनवतं तुके ॥३३॥
भूतिमृत्स्त्रासुकस्तूरीकेशरान्वितचंदनम् ॥ रस्त्राक्षताःकल्पितास्त्वामलंकुर्वेथदत्ततैः ॥३४॥
सच्छमीबिल्वतुलसीपत्रैः सौगंधिकैःसुमैः ॥ मनसाकल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥३५॥
लाक्षासिताभ्रश्रीवासश्रीखंडागुरुगुग्गुलैः ॥ युक्तोग्नियोजितोधूपोह्र दास्वीकुरुदत्ततं ॥३६॥
स्वर्णपात्रेगोघृताक्तवर्तिप्रज्वालितंह्रदा ॥ दीपंदत्तसकर्पुरंगृहाणस्वप्रकाशक ॥३७॥
सषड्रसंषडिधात्रंनैवेद्यंगव्यसंयुतम् ॥ कल्पितंहैमपात्रेतेभुंक्ष्वदत्तांब्वदःपिव ॥३८॥
प्रक्षाल्यास्यंकरौचाद्रिर्दत्ताचम्यप्रगृह्यताम् ॥ तांबूलंदक्षिणांहैमींकल्पिता निफलानिच ॥३९॥
नीराज्यरत्नदीपैस्त्वांप्रणम्यमनसाचते ॥ परितस्त्वत्कथोद्वातैःकुर्वेदत्तप्रदक्षिणाः ॥४०॥
मंत्रवत्निहितोमूर्घ्रिदत्ततेकुसुमांजलिः ॥ कल्प्यंतेमनसागगीतवाद्यनृत्योपचारकाः ॥४१॥
प्रेर्यमाणप्रेरकेणत्वयादत्तेरितेनते ॥ कृतेयंमनसापूजाश्रीमंस्तुष्टोभवानया ॥४२॥
दत्तमानसतल्पेमेसुखनिद्रांरहःकुरु ॥ रम्येव्यायतभक्त्यामतूलिकाढयेसुवीजिते ॥४३॥
रसज्ञावशातारकंस्वा दुलभ्य़ंगृहीतंकदाचित्नतेनामदत्त ॥ क्षमस्वापराधंक्षमस्वापराधंक्षम स्वापराधंप्रभोक्लित्नचित्त ॥४४॥
वियोन्यंतरेदैवदाढर्याद्विभॊप्राग्गृ हीतंकदाचित्रतेनामदत्त ॥ क्षमस्वापराधंक्षमस्वापराधंक्षमस्वापराधं प्रभोक्लित्रचित्त ॥४५॥
मयामातृगर्भस्थितिप्राप्तकष्टाद्रृहीतंकदा चित्रतेनामदत्त ॥ क्षमस्वापराधंक्षमस्वापराधंक्षमस्वापराधंप्रभोक्लित्रचित्त ॥४६॥
क्षमस्वापराधंक्षमस्वापराधंक्षमस्वापराधंप्रभोक्लित्रचित्त ॥४७॥
मयाक्रिडनासक्ताचित्तेबाल्येगृहीतंकदाचित्रतेनामदत्त ॥ क्षमस्वापराधंक्षमस्वापराधंक्षमस्वापराधंप्रभोक्लित्रचित्त ॥४८॥
मयायौव नेऽज्ञानतोभॊगतोषाद्रृहीतंकदाचित्रतेनामदत्त ॥ क्षमस्वापराधं क्षमस्वापराधंक्षमस्वापराधंप्रभोक्लित्रचित्त ॥४९॥
मयास्थावि रेऽनिघ्रसर्वेद्रियेणगृहीतंकदाचित्रतेनामदत्त ॥ क्षमस्वापराधंक्षम स्वापराधंक्षमस्वापराधंप्रभॊक्लित्रचित्त ॥५०॥
ह्रषीकेशमेवाड् .म नःकायजातंहरेऽज्ञानतोज्ञानतोविश्वसाक्षिन् ॥ क्षमस्वापराधंक्षम स्वापराधंक्षमस्वापराधंप्रभोक्लित्रचित्त ॥५१॥
स्मृतोध्यातआ वाहितोस्यर्चितोवानगीतःस्तुतोवंदितोवानजप्तः॥ क्षमस्वापराधंक्षम स्वापराधंक्षमस्वापराधंप्रभोक्लित्रचित्त ॥५२॥
दयाब्धिर्भवाद्दड् .नसा गाश्वमाद्दग्भवत्याप्तमंतोर्भवान्मेशरण्यः॥ यथालम्बनंभूर्हिभूनिःसृ तांघ्रेरितिप्रार्थितंदत्तशिष्येणसारं ॥५३॥
॥ दत्तंवन्देदशातीतं दयाब्धिंदहनंदमं ॥ दक्षंदरघ्रंदस्युघ्रंदर्शंदर्पहरंदवम् ॥५४॥
दातारंदारुणंदान्तंदास्यादंदानतोषणम् ॥ दानंदावप्रियंदावंदासत्रं दारवर्जितम् ॥५५॥
दिक्पांदिवसपंदिक्स्थांदिव्ययोगंदिगंबरम् ॥ दिव्यंदिष्टंदिनंदिश्यंदिव्यांगंदितिजार्चितं ॥५६॥
दीनपंदीधितिंदीप्तंदीर्घदीपंचदीप्तगुं ॥ दीनसेव्यंदीनबंधुंदीक्षादंदीक्षितोत्तमं ॥५७॥
दुर्ज्ञेयंदुर्ग्रहंदुर्गंदुर्गेशंदुःखभंजनम् ॥ दुष्टघ्रंदुग्धपंदुःखंदुर्वासोग -यंदु रासदम् ॥५८॥
दूतंदूतप्रियंदूष्यंदूष्यत्रंदूरदर्शिपम् ॥ दूरंदूरतमं दूर्वाभंदूरांगंचदूरगम् ॥५९॥
देवार्च्यदेवपंदेवंदेयज्ञंदेवतोत्तमम् ॥ देहज्ञंदेहिनंदेशंदेशिकंदेहिजीवनम् ॥६०॥
दैन्यंदैन्यहरं दैवंदैत्यदंदैविकांतकम् दैत्यघ्रंदैवतंदैर्घ्यदैवज्ञंदैहिकार्तिदम् ॥६१॥
दोषघ्रंदोषदंदोषंदोषित्रंदोर्द्वयान्वितम् ॥ दोषज्ञंदोहपंदोषेट्बन्धुंदोर्ज्ञचदोहदम् ॥६२॥
दौरात्म्यघ्रंदौर्मनस्यहरंदौर्भाग्यमोचनम् ॥ दौष्टयत्रंदौष्कुल्यदोषहरंदौर्ह्रद्यभंजनम् ॥६३॥
दण्डज्ञंदण्डिनंदण्डंदंभ घ्रंदम्भिशासनम् ॥ दन्त्यास्यंदन्तुरंदंशिघ्नंदण्डयज्ञंचदण्डदम् ॥६४॥
अनन्तानन्तनामानिसन्तितेनंतविक्रम ॥ वेदोपिचकितोयत्रनुर्वागहद्दूरकाकथा ॥६५॥
नामरुपगुणातीतभेदसंगविवर्जित ॥ एकएवाद्वितीयोसिपरमात्मन्हिनाकवत् ॥६६॥
नामरुपगुणाभेदामायासक्तिरनेकता ॥ कल्पितास्थूलधीभिस्तेमहाकाशादिवद्विभो ॥६७॥
बहुरुपाप्रमेयातेमायैषाजगदीश्वर ॥ मन्यतेमेहमित्यस्यारममाणोगुणेष्वसौ ॥६८॥
कारणंत्विदमेवात्रजगद्विपरिवर्तने ॥ येषांना व्यक्तगम्योसित्वमेवपरमागतिः ॥६९॥
आसत्यलोकाक्लोकास्ते पुनरावर्तिनोऽक्षर ॥ तस्मात्तएवधन्यास्युर्गृहीतंधामयैस्तुते ॥७०॥
नानुमानेनतेधामगृहीतुंशक्यतेह्यतः ॥मृग्योसिपुरुषेणैवबुच्द्यादिगुणहेतुभिः ॥७१॥
पुंस्त्वेप्यर्कइवांधानांगोकल्पानामतींद्रिय ॥ स्वप्रेपिनैवतेवार्तापुनःप्रत्यक्षताकुतः ॥७२॥
प्रेष्ठत्वद्वक्तसंयोगवि वेकामलद्दष्टिभिः ॥ सांख्ययोगपरैर्धीरैःक्रमात्तेधामगम्यते ॥७३॥
तस्माद्दत्तंनृजन्मेदंत्वयादिष्टयाऽमृतक्षमं ॥ सद्दृष्टिदानाद्वगवंस्तत्साफल्यंकुरुप्रभो ॥७४॥
त्वत्प्रेमभक्त्यैवसदामदात्माधियादिंयंद्दष्टिमपीशद्दष्टया ॥ अंगैःसदांगानिदृढंदयाब्धेहरेनिबघ्नात्वितिमेस्तियाचूत्रा ॥७५॥
पादौत्वदीयालयतीर्थयात्राविहारिणावर्चनत्परौमे ॥ करौरसज्ञापिभवत्वजस्त्रंसत्त्व कथोद्वातरसज्ञतोत्का ॥७६॥
त्वत्पादपद्मच्युतपुष्पगंधंनासाभजत्वक्षियुगंगुणात्मन् ॥ त्वन्मूर्तिमासेचनकांश्रुतीमे श्राव्यास्त्वदीयाभगवन्कथाश्व ॥७७॥
त्वदीयभक्तांघ्यमलाब्जपू तांधूलिंमदंगानिसदावहंतु ॥ मनस्तुरंगोनिवसत्वजस्त्रंत्वय्येवदीपोंऽगयथानिवाते ॥७८॥
शिरोनमत्वीश्वरतेंघ्रिपद्मंदेहःसदालिंगयतुत्वदर्चाम् ॥ एषात्वदीयैवतनुस्त्वमेवसंबंधिनोमेनहिकेऽद्वितीय ॥७९॥
नूनंभवानृषिर्नैवनवर्णाश्रमलिंगभाक् ॥ निर्मितंभ वतैवेदंविश्वंस्वांशांशतोऽखिलम् ॥८०॥
नजानंतिभवन्मायामो हितादिव्यमुत्तमं ॥ भवद्वामातएवैतेभ्रमंत्यसुरभावगाः ॥८१॥
कर्ताभर्तासिहर्तात्वंप्रत्यक्षंतत्वमस्यपि ॥ भोसर्वंखल्विदंब्रम्हत्वमस्यात्मासिकेवलं ॥८२॥
त्वदुदेतिरमत्येतद्विश्वंत्वय्येवलीयते ॥ अष्टमूर्तिभिराभिस्त्वमांभासीवजगन्मयः ॥८३॥
दिक्यालालोक पालाश्वश्रूयतेद्दश्यतेखिलं ॥ चराचरंजगल्लोकाविष्णोतेऽवयताअमी ॥८४॥
निगूढतत्त्वतेज्ञातंयत्किंचोल्लौकदुर्ग्रहं ॥ चेष्टितंतेप्रसादोयंप्राक्पुण्यैर्मय्युपस्थितः ॥८५॥
सुखमैंद्रियकंक्कापिनकांक्षेतेपदाश्रितः ॥ नाकादीत्रप्रशंसामिनैवनिंदामिनारकान् ॥८६॥
यथेच्छंक्कापियांकर्मयोगात्स्थापयविश्वभृत् ॥ मांयत्रक्कापितेभक्तिर्नजहात्वितिकांक्षितम् ॥८७॥
स्तुवंतुनिंदंत्वपिताडयंतुमांपूजयंत्वत्रजनानवापि ॥ देहःपतत्वद्ययुगांतरेवानकिंचिदिष्टंनचमेप्यनिष्टं ॥८८॥
ह्रद्यात्मेंद्रियवाक्कायैःसदाप्रकृतिभावतः ॥ यद्यत्करोम्यर्पयामिपरात्मन्दत्तसर्वते ॥८९॥
लीलात्मनायोत्रिगृहेवतीर्णो दत्ताख्यउन्मत्तपिशाचवद्यः ॥ बालोयुवाक्कापिजरन्जटाभृत्काचिद्दषिर्व्यक्तपरीक्षितश्व ॥९०॥
त्यागीसुभोगीक्कचिदस्तिसंगीयोगीसुवासाःक्कचिदस्तिनग्नः॥
तुष्टःकृशःपुष्टइहक्कचिद्योदंडीचभिक्षुःक्कचिदस्तिवर्णी ॥९१॥
गृहीवनीवर्णविरुद्वचष्टेःक्कचिच्चवर्णाश्रमधर्मयुक्तः ॥ इत्यादयोयस्यविचित्रचेष्टादेवर्षिह्रद्वागंयनंव्यतीताः ॥९२॥
योभक्तरक्षाक्षणएवयस्यवैसेवास्मृतिर्भोज्यनिवेदनंधिया ॥ पूजाफ लंयोर्पयतीहदुर्लभंभक्तस्मृतौसंनिधिकृत्क्षणेक्षणे ॥९३॥
यस्या स्तिमाहुरेनिद्रानिवासःसह्रपर्वते ॥ भागीरथ्यांसदास्नानंध्यानंगंधर्व पत्तने ॥९४॥
कुरुक्षेत्रेचाचमनंधूतपापेश्वरेतथा ॥ विभूतिधारणंसंध्याकरहाटोश्रियःपुरे ॥९५॥
भिक्षाविठ्ठलपुर्यस्यसुगंधिद्रव्यधारणं ॥ मुक्तिःसारपुरेसायंसंध्यापश्चिमसागरे ॥९६॥
सएष भगवान्दत्तःसदावसतुमेह्रदि ॥ ह्रद्वींद्रियादिव्यापारेसदातत्स्मृतिरस्तुमे ॥९७॥
पादादिमूर्धपर्यंतमेतद्वैभौतिकंवपुः ॥ परिरक्षतु विश्वात्मासदासर्वत्रसर्वतः ॥९८॥
अपाणिपादोजवनोग्रहीताप श्यत्यद्दग्योपिशृणोत्यकर्णः ॥ योवेत्तिवेद्यंनहियस्यवेत्तासोग -यःप्रधानःपुरुषोहिदत्तः ॥९९॥
आधारभूतःस्थिरजंगमानांक्षमास्वरु पस्थितिरस्थिनित्यं ॥ आप्यायतेयोजगदप्स्वरुपीसर्वाघह्रत्स्थास्नुचरिष्णुजीवः ॥१००॥
घैश्वानरात्माखिलदेहसंस्थःपचत्यसौप्राणसखःसदात्रम् ॥ योभास्वदात्माअखिलकर्मसाक्षीविश्वंसदाचेतयतेस्वभासा ॥१॥
योब्जोरसात्मासकलौषधीर्वैपुष्णातिसंतापहरो खिलेडयः ॥ क्षेत्रेषुभूत्वादशधाखिलेषुप्राणात्मकोयःपवतेखिलात्मा ॥२॥
आकाशरुपोखिलगोपिसौक्ष्म्याद्योऽभेदसंगःकिलशब्दसंस्थः ॥ भुनक्तिचोकामतितिष्ठतेपिमुढाविद्यर्यंनसदात्मरुपम् ॥३॥
यःसर्वह्रत्स्थोस्ययतःस्मृतिर्विद्वेदांतकृद्योपिचवेदवेद्यः ॥ समौयदंशौसयुजौसुपणौवृक्षाश्रितौभुक्त्यवलोकनोत्कौ ॥४॥
सत्वंपरात्मा पुरुषोत्तमश्रुतिख्यातःसमाविश्यजगत्रसंसदा ॥ ईशाव्ययानंतबिभ र्पिंदत्ततेपादाब्जयुग्मायनमोस्तुसर्वदा ॥५॥
वज्रांकुशध्वजाब्जांकयुग्रक्ताब्जाभपत्तलः ॥ गूढगुल्फःकुर्मपृष्ठोल्लसत्पादोपरिस्थलः ॥६॥
जानुपूर्वैकजंघश्वविशालजघनस्थलः ॥ पृथुश्रोणिश्वकाकुत्स्थश्वारुनाभिर्दलोदरः ॥७॥
अररोरामांसलांसोयुगव्या यतबाहुकः ॥ सुचिह्रचिन्हितकरःकंबुकंठःस्मिताननः ॥८॥
स्नैग्ध्यधावल्ययुक्ताक्षश्वलत्पिंगजटाधरः ॥ चंद्रकांतिःप्रभुःकृष्णभ्रूरःश्मश्रुकनीनिकः ॥९॥
भावशुद्वद्विजाकीर्ण स्वास्याब्जोभीवरप्रदः ॥ दत्तात्रेयःसभगवान्सदावसतुमेह्रदि ॥१०॥
कलौद्विरा विरासीत्सदीनात्नातुंजनान्कलौ ॥ सद्वर्मगुप्तयैश्रीपादनरहर्यभिधानतः ॥११॥
उड्डीयंतेयथाशक्तियथोच्चावचपक्षिणः ॥ अनंतेनं तलीलांतंन्यायाद्वक्ष्येयथामति ॥१२॥