नामधारकउवाच ॥ कआगतश्छातजिह्रःकथंभगवोद्वृतः ॥ तत्कथामृतमास्वाद्यतृष्णामेतीववर्धते ॥१॥
सिद्वउवाच ॥ करवीरेसुधीपुत्रोजातोज्ञस्तंजगुर्बुधाः ॥ विपुच्छशृंगोगौस्त्वंगोभाग्यंनात्तंतृणंतुयत् ॥२॥
विद्यानिधिर्हर्त्रलभ्यःसशिष्यार्पितएधते ॥ श्रेष्ठेष्वर्च्यकरोत्यूनंक्कापुस्वंचधनान्वितम् ॥३॥
सुखेस्त्रीवावनेम्बेवसखेवक्कापितातवत् ॥ हितेबांधेचगुरुवद्विद्याधित्त्कामविद्यरे ॥४॥
इतिनिर्भर्त्सितस्त्रस्तोभिल्लवाटींययौसतु ॥ प्रायोपविष्टोनशनआनर्चभुवनेश्वरीम् ॥५॥
दत्वालब्धप्रसादोस्यैजिह्रांछेत्तुंकमुद्यतः ॥ स्वप्रेदेव्याहतंदण्डीकृष्णातीरेस्तितंभज ॥६॥
इतिश्रुत्वादुःखितोपिधृत्यागत्यससद्रुरुम् ॥ ननामाश्रूत्तगात्रस्तन्मूर्न्यधाच्छ्रीगुरुःकरं ॥७॥
स्पर्शेयोपियथाहेमहंसःकाकोपिमानसे ॥ यथाविद्वांस्तथाभूत्ससुजिह्रःस्पर्शनाद्विभोः ॥८॥
वज्रांकुशध्वजाब्जांकंध्यायंत्यंघ्र्यब्जमस्यये ॥ अपैतितत्प्रसादाद्वीजाडयाद्यंनात्रचित्रमित् ॥९॥
गुर्वाज्ञयागृहंगत्वासिद्विंप्रापोभयींद्विजः ॥ भगवांस्ततउत्थायदक्षिणाभिमुखोययौ ॥१०॥
कृष्णावेणीपंचनदीसंगमंसुमनोहरम् ॥ अष्टतीर्थान्वितंपुण्यंद्दष्ट्रातस्थौपरेतटे ॥११॥
सरस्वतीशिवाभद्राकुंभीभोगवतीत्यमूः ॥ कृष्णावेण्योःसंगतास्तत्संगमस्तूत्तमोत्तमः ॥१२॥
स्थलंकुरुपुराख्यंतत्कुरुक्षेत्राधिपुण्यदं ॥ साक्षात्प्रयागोयमग्रेकाश्याःश्रेष्ठंमहास्थलं ॥१३॥
तत्रोदुंबरकल्पद्रुर्विश्वेट्ल्योमरेश्वरः ॥ योगिन्योपिचतुःषष्टिर्नरोप्यत्रामरोभवेत् ॥१४॥
स्वर्यातिनातपःस्त्रायीसंगतेत्रसितासिते ॥ तीर्थान्यवाक्प्रवाहेत्रमहाघघ्रानिकोटिशः ॥१५॥
मुमुक्ष्वाश्वासनंकामिहितंसत्तमरंजनम् ॥ द्दष्ट्राश्रमंमूर्तित्स्वंपरात्मोदुंबरेव्यधात् ॥१६॥
सद्विद्याढयामरपुरंप्राड् .निरीक्ष्यैत्यतत्रसः ॥ स्वाचारंवैदिकंदीनंप्रभुर्भिक्षांस्मयाचते ॥१७॥
भिक्षावृत्तेस्तदासाध्वीसात्विकस्यकुटुंबिनी ॥ अन्नाभावाद्ददौशाकमातिथेयीतुभिक्षवे ॥१८॥
भक्त्यार्पितमपित्राश्यशाकंसंतृप्तईश्वरः ॥ तत्रशाकलतांद्दष्ट्रातामुत्पाटयश्रमंययौ ॥१९॥
तदास्त्रीर्दुःखिताप्राहयोगक्षेमकरीकुतः ॥ उन्मूलितालतानैवभिक्षाठयंमयाकृतम् ॥२०॥
तांभर्तोचेमौनमेहिनकोपिसुखदुःखदः ॥ लोकाःस्वकर्मसूत्रोतावृथाहंकारसंश्रिताः ॥२१॥
ईशाधानंजगत्सर्वंयेनाप्तव्यंतुयत्ततः ॥ कोपिनेशोन्यथाकर्तुमायुश्वात्रंसयच्छति ॥२२॥
विश्वोद्ववलयत्राणनिदानस्यास्यचैकद्दक् ॥ प्राज्ञेज्ञेराज्ञिरंकेपिमाशुचस्तारकोस्त्ययं ॥२३॥
इत्याश्वास्यवधूंविप्रोमूलमुत्खायतत्रसः ॥ अर्थपूर्णघटंलेभेसद्रुरोःसम्प्रसादतः ॥२४॥
सभार्योथद्विजोगत्वाशशंसगुरवेतुतत् ॥ सप्राहदंपतीगोप्यमिदंश्रीर्नान्यथाध्रुवा ॥२५॥
ऐश्वर्यपुत्रपौत्राढयौसंभूयात्रनिरामयौ ॥ मोक्षंगमिष्यथोनूनंगन्तव्यंसुखमालयं ॥२६॥
नामधारकउवास ॥ भिक्षावृत्तिःप्रभोःकस्मात्कल्पद्रुमउदुंबरः ॥ सतिपूज्यतमेश्वत्थेकुतोभगवाश्रितः ॥२७॥
सिद्वउवाच ॥ पक्कान्नभिक्षुकोभिक्षुरितिश्रुतमतंप्रभुः ॥ भिक्षुःसन्लीलयाभेजेशम्भुवृत्तिस्यिंपुनः ॥२८॥
नरवानृसिंहावताएविषार्तादैत्यदारणात् ॥ शान्ताऔदुंबरैःसोथप्रीत्यानेनसदाश्रितः ॥२९॥
यत्रक्काप्येषकल्पद्रुर्भूयात्तापाघदैन्यह्रत् ॥ कामदोहंश्रियात्रासमितितस्मैवरोर्पितः ॥३०॥
विश्वात्मायत्रतत्रैववेदतीर्थामराअपि ॥ संत्युदुंबरएवात्रकल्पद्रुर्भुविनापरः ॥३१॥
तस्मादुदुंबरतलेभिक्षांकुत्रापिविश्वश्रृत् ॥ अकृत्वाकामरुपाभिर्योगिनीभिःस्थितोर्चितः ॥३२॥
अज्ञानावृतविप्रास्तदज्ञात्वोचुःपरस्परम् ॥ कथंजीवत्यकृत्वायंभिक्षांमृग्यंतदद्यहि ॥३३॥
इत्थंविचार्यतस्थुस्तेमध्याह्रेयोगिमायया ॥ त्रस्ताग्रामंययुःकोपिज्ञातुंशक्योस्यचेष्टितम् ॥३४॥
श्रीगुरुंद्रष्टुमागत्यभाविकोभक्तिभावनम् ॥ गंगानुजाख्यभक्तोत्रद्दष्टवान्चित्रमेकदा ॥३५॥
जलपूर्णापिकृष्णादान्मार्गन्तेनागमत्प्रभुः ॥ ददर्शान्वेत्यभक्तोपिपुरींदिव्यामिवांतरे ॥३६॥
नीराजितोयोगिनीभीरत्नसिंहासनास्थितः ॥ स्वर्चितःप्रेक्ष्यतंदेवःप्राहकोस्यागतःकुतः ॥३७॥
गड्रा .नुजउवाच ॥ गड्रा .नुजाभिधोहंत्वामत्रत्योद्रष्टुमन्वगां ॥ भवान्परात्मासर्वेशोदैवान्मेद्यात्रगोचरः ॥३८॥
त्वन्मायामोहितात्मानस्त्वांविदुःकेवलंनरम् ॥ संसारसागरेतेतोमज्जंतिनेतरे ॥३९॥
इतिप्रेम्णास्तुतस्तस्मैह्रद्यंदत्वेश्वरोब्रवीत् ॥ मयिसत्यत्रयद्दष्टंनाख्येयंकस्यचित्त्वया ॥४०॥
इत्युक्तोगुरुणाह्रष्टोभक्तःक्षेत्रंस्वमेत्यसः ॥ लेभेऽसम्भाव्यसस्यर्धिलोकेश्रैष्ठयंचसंविदं ॥४१॥
सएत्यनित्यमानर्चगुरुंप्राहैकदागुरो ॥ काश्यांतुत्रिस्थलीयात्रावरेत्याहुर्नवेद्मितां ॥४२॥
श्रीगुरुरुवाच ॥ प्रयागःसंगमःकाशीयंगयाकरवीरपूः ॥ दर्शयामीदमेतद्वत्रिस्थलंतेद्रुतंपरं ॥४३॥
इत्युत्त्काधाययित्वास्वपादुकेत्रिस्थलींत्विमां ॥ प्रयागकाश्यौगयांचदर्शयित्वागमत्क्षणात् ॥४४॥
तमाहत्रिस्थलीत्वेषादर्शितान्यापिताद्दशी ॥ साम्यंज्ञात्वोभयोरत्रस्वाचारान्मुक्तिमेष्यसि ॥४५॥
इतियोगीशवाक्यंसश्रुत्वाज्ञात्वास्यचेष्टितं ॥ तद्यानात्कर्मबन्धंद्राक्छित्वामुक्तोबभूवह ॥४६॥
वृद्वोत्रमहिमासंतआयास्यंतीतरेऽप्यतः ॥ गंतव्यंक्कापिनस्थेयंसाक्षादत्रेत्यमंस्तसः ॥४७॥
नोहित्वाद्यक्कयासीतिविलपंतीःसयोगिनीः ॥ आश्वास्योचेत्रतिष्ठामिलोकद्दष्टयागमिष्यइत् ॥४८॥
अमरेशोंऽत्रपूर्णात्रविघ्रेशोयुष्मदादयः ॥ भक्तेष्टदामयाप्यत्रस्थयंवस्तुष्टयेसदा ॥४९॥
इतःप्रभृत्यदःक्षेत्रंसुप्रसिद्वंभविष्यति ॥ बहुलोकनिवासोत्रयास्यंत्यत्रजनाःसुखं ॥५०॥
सत्रिपाताक्षिरुद्मेहकुष्ठश्लेष्मक्षयज्वरान् ॥ वातपैत्तिकगुल्माद्यान्देशादुद्युत्थान्हरेदिदं ॥५१॥
पुत्रंवंध्याभयंत्रस्तोनिःखःस्वंरोग्यनामयं ॥ मुमुक्षुःसद्वतिंयद्यद्यस्येष्टंसलभेत्सदा ॥५२॥
सहस्त्रगोदानफलंपर्वक्रांतिग्रहापुतौ ॥ नुःकोटिफलमत्राल्पजपहोमसुरार्चनैः ॥५३॥
प्रदक्षिणाश्वमेधादिफलदानुःपदेपदे ॥ दुर्गताःपितरोप्यत्रश्राद्वाद्यांतिपरांगतिं ॥५४॥
इत्याश्वास्यसयोगिनीःपरतरःकल्पद्रुमूलेमलेसंस्थाप्यस्वसुपादुकेनरइहस्त्रात्वार्चयेदष्टसु ॥
तीर्थेष्वीश्वरयोगिनीसुरयुतेमत्पादुकेद्राग्लभेत्सोभीष्टंत्वितिताःप्रभाष्यसययौभीमातटंयोगिराट् ॥५५॥
इतिश्रीगुरुचरितेज्ञानयोगेकृष्णापंचनदीसंगमोत्कर्षकथनंनामैकादशोऽध्यायः ॥११॥