नौम्युदेतियदज्ञानाज्जगद्रज्ज्वहिवत्पुनः ॥ यत्तत्वंमीलतिज्ञानांतंचिदानंदसद्रुरुम् ॥१॥
भात्यनेकवदेकंसद्वीभेदादेकरुपया ॥ विदास्यैकुंपरंब्रह्यतत्सत्यंदत्तसंज्ञितं ॥२॥
बोद्वुंभूत्वात्रिपुत्रःस्वपदरसपरान्दिव्ययोगेनबालान्दत्ताख्यःकार्तवीर्यंयदुमपिचसमान्त्स्वाश्रितानुद्दधारा ॥
भूयोन्यान्छ्री पदाख्यःपुनरपिनृहरिःसंज्ञयास्वीयभक्तान्कृष्णाभीमातटस्थोजयतिप रगुरुःस्मर्तृगाम्येषदत्तः ॥३॥
योजोक्रियोस्पृहोप्येकोबहुस्यामिति तृष्णया ॥ प्रकृत्यागुणमय्येदंततानेशोजगत्प्रभुः ॥४॥
आब्रह्य स्तंबपर्यंतंदेहबुद्वींद्रियात्मकम् ॥ सृष्टंचराचरंतत्रसंवित्पात्रंनरोत्तमः ॥५॥
इंद्रियार्थेस्थितौरागद्वेषौयेनजितौसतु ॥ दैवीसंपल्लभेन्मोक्षंतदर्थंसंभवत्यजः ॥६॥
गाढंप्रियोस्यभगवांस्तस्यायमपिताद्दशः ॥ गुप्त्याअवतरत्यस्यलीलाधाम्नाप्यजोव्ययः ॥७॥
युगेयुगेवतीर्यापिकार्यांतेव्यसृजत्तनूः ॥ एवंब्राह्येन्हिसंप्राप्तोयुगाष्टा विंशपर्ययः ॥८॥
दारुणेस्मिन्कलौप्राप्तेज्ञात्वास्वांशांशजोतयः ॥ दयोनाइत्याविरासीद्दत्तस्तुभगवान्स्वयम् ॥९॥
सकृष्णामरजातीरविहारीलोकपावनीः ॥ भिक्ष्वात्मनात्रसल्लीलाःकृत्वाऽद्दश्योस्तितत्रहि ॥१०॥
ओंकारोच्चारणंजातमात्रेणनयनंतथा ॥ स्वर्णतामयसोभ्यासमृतेपिब्रह्यपाठनम् ॥११॥
तत्त्वोपदेशनंपित्रोर्बाल्ये तीर्थाटनंतथा ॥ योगाख्यापनसंन्यासवर्त्मसंस्थापनेन्यथा ॥१२॥
कथंभाव्यंद्राग्घरणंप्रतिपाचरणैरुजः ॥ तथाऽवाचोपिविद्वत्तादानंस्त्रारिवप्रदुर्गतेः ॥१३॥
हरणंत्रिस्थलीयात्राचरणंमृतजीवनम् ॥ वशोगोदोहनंविश्वरुपाविष्करणंयतौ ॥१४॥
विद्वद्वर्वापहरणंनिंद्यास्याद्वेदवाचनम् ॥ विश्वस्तायाअवैधव्यदानंकर्मप्रकाशनम् ॥१५॥
जरदेधःपल्लवतांनयनंनिष्कलस्त्रियै ॥ सुप्रजस्त्वार्पणंकुष्ठहरणंद्दष्टिमात्रतः ॥१६॥
श्रणेष्टग्रामगमनंछिन्नसस्यविवर्धनम् ॥ इत्यादिकंकृतंदिव्यंकरोतिचकरिष्यति ॥१७॥
भपार्थिवरजोंब्वंशगणकाःसंतुकुत्रचित् ॥ भूयोगणेयोरुगुणगुणान्गुणायितुंह्यलं ॥१८॥
लीलाप्रादुष्कृतगुणरुपोऽरुपोऽगुणोप्यरम् ॥ श्रवःसृत्याप्रविश्यांतर्भक्तस्याघंधुनोत्यजः ॥१९॥
तदेकनिष्ठःपूतात्माजीवन्मुक्तोभवेत्ततः ॥ निर्द्वंद्वस्यारब्धभुजोदेहःपततुवानवा ॥२०॥
क्षेपकः ॥ तत्राज्ञानसमुप्तत्नद्वंदाभावःप्रवर्तते ॥ ॥ अयंहिब्रम्हभूयाप्तिसत्पथोनाक्षिगोचरः ॥ मोहांधानामसत्संगविवेकानांकुसंपदां ॥२१॥
कृत स्ववर्णाश्रमद्दष्टकर्माविद्वान्त्सादिष्टोगुरुदेवभक्तः ॥ इहैवभुक्तिंचलभेतमुक्तिंसंन्यास्यनेनैवपथासयोगी ॥२२॥
एवंसुवृत्तंमहिमानमी शितःश्रुत्वास्यभीमाअमरजागमेययौ ॥ कश्विद्ववभ्रष्टनमास्तुवन्गुरुं तप्तःशरण्यंश्रितकल्पशाखिनम् ॥२३॥
गणेशंशारदांनत्वाश्रीगुरुं नामधारकः ॥ द्विजस्तुष्टावघोरेत्रनृधाम्राविश्रुतंहरिम् ॥२४॥
सर्वज्ञमांनजानीषेविश्वसाक्षित्नचेक्षसे ॥ विलापोनश्रुतोविष्णोममश्रुत्वाप्युपेक्षसे ॥२५॥
चेज्ज्ञातेत्रक्कवैक्लव्यंकथंदैन्यंत्वयेक्षिते ॥ श्रुतेचेच्छुक्कुतोप्यर्हात्वय्युपेक्षादयानिधे ॥२६॥
सर्वदेवेश्वरोपित्वं त्वंनोपिकुलदैवतं ॥ त्वांहित्वाकतमंयाचेवेद्मीशन्त्वापिवेत्सिमां ॥२७॥
सर्वोपिवेत्तिभूपंनभूपःसर्वन्तथोचितं ॥ अज्ञेतुत्वयिसर्वज्ञेकथंश्लाघ्यमिदंप्रभो ॥२८॥
नासेवकायादात्रेपिचेद्दास्यस्युचितंनतत् ॥ सेवेच्छुःश्रीशकिन्दातातद्वत्प्रत्युपकार्यपि ॥२९॥
ज्योतिर्द्योतमिहाद्वोंबुसेवोनेर्पयतिध्रवे ॥ पदंबिभीषणेदात्रोर्दत्तंमेदेह्यतःप्रियम् ॥३०॥
निधयस्तेनुगादास्यःसिद्वयःश्रीस्तुकिंकरी ॥ तत्तेकिंभगवन्देयंकिंकार्यपरिपूर्णते ॥३१॥
स्वसेवककुलंभूमौ पालयन्तिनृपाअपि ॥ कुतोमोपेक्षसेदीनंमत्पूर्वार्चितविश्वभृत् ॥३२॥
देवेशमेपराधैश्वैदायास्यन्तत्विषादतां ॥ पत्ताडितार्भकैःकिंनुप्रसूरुष्यतिमानुषी ॥३३॥
जीवनंपितरौयत्रभिंनावन्यतराच्छिशोः ॥ त्वंतूभयंमेकिंकार्यंनिर्घृणेविश्वभृत्वंयि ॥३४॥
साहसंकुरुमेत्युत्त्कायथादारुभिनत्तिविः ॥ तथासाहजिकैर्दोषैर्निन्दाम्यंहःकरोम्यहम् ॥३५॥
आघेपुण्यवतःप्रोक्तंप्रायश्वित्तमवेक्ष्यमां ॥ आरात्पलायतेभीत्याशार्दूलमिवशृंगिणी ॥३६॥
मालिन्यदोषभी त्यातुमाषराशेःपृथक्किमु ॥ कार्यंजपोमदंगाघात्किंकरोतिपृथग्घरे ॥३७॥
माद्दक्पापोहरेनास्तिभवाद्दड् .नास्तिपापहा ॥ पाह्यनन्याश्रयंदीनंत्यत्त्कौदासिन्यमीशमां ॥३८॥
द्रन्त्यपिशिलाःश्रुत्वामद्विलापंदयानिधे ॥ कारुण्यन्तेकुतोयातंम्रियमाणंनवेत्सियत् ॥३९॥
एवंविलाप्यमार्गेसौगुरुध्यानैकतानह्रत ॥ तस्थौप्रायोपवेशेनदैवात्स्वप्रस्तदाभवत् ॥४०॥
धेनुर्वत्संयथौपैतिभगवान्भक्तवत्सलः ॥ प्राप्यावधूतवेषेणस्वप्रेमुंपर्यतोषयत् ॥४१॥