नामधारकउवाच ॥ श्रुतोगुणानुवादोपिहरेस्तृप्तिर्नमेगुरोः ॥ अतीववर्धतेतृष्णाशश्वच्छ्रवणपानतः ॥१॥
भवाननलसोनूनमुदारतमएवमे ॥ पूर्वःश्रेयःप्रभावेनसंगतोस्तिकृपाकरः ॥२॥
सिद्वउवाच ॥ गुणानुवादक्षीराब्धेःकतिपासिकथामृतं ॥ सच्चित्सुखस्यलीलानुरनन्तस्यपरात्मनः ॥३॥
गुणान्कार्त्स्न्येनवक्तुंनक्षमःकोपीशितुस्त्वहं ॥ उच्चावचखगोड्दानन्यायाद्वक्ष्येयथामति ॥४॥
सभीमामरजातीरविहारीभक्तवत्सलः ॥ भक्ताधीनत्वमाश्रित्यसदाभूतन्मतानुगः ॥५॥
निराकारोनिरिहोपिशुद्वसत्वस्वरुप्यजः ॥ बुद्यासंगत्यलीलार्थंस्वयंविश्वात्मकोभवत् ॥६॥
सर्वत्रस्थितिमांस्त्वेषपश्येयुर्मुनयोहिमां ॥ इतिमत्वात्रधाभूत्वात्रिषुलोकेषुसंस्थितः ॥७॥
तत्रापिभुविमेभक्ताभूयांसोमन्मयास्त्वहं ॥ तेषामगोचरोस्म्यस्मात्स्थेयंतत्रेत्यमंस्तसः ॥८॥
ततोत्रभगवान्भूमौलीलाधाम्नायुगेयुगे ॥ भजतोनुभजत्येषश्रद्वाभक्तिप्रियःप्रभुः ॥९॥
किंवर्ण्यतेभगवतोभक्तवात्सल्यमद्रुतं ॥ परिपूर्णोपिसंतृप्तोभोक्तुंभ्रमतितद्रृहे ॥१०॥
अन्याअपितुतल्लीलास्ताद्दश्यःसंत्यनंतशः ॥ स्वकृतेतुनताविद्विभक्तानुग्रहलक्षणाः ॥११॥
कलौघोरेत्रनोभाग्यमुदितंहियुगेयुगे ॥ दुर्लभस्तपसापीशःस्मृत्यैवसुलभोत्रनुः ॥१२॥
सएशभगवांस्तत्रभक्ताधीनतयान्वहं ॥ निमंत्रितोभक्तगेहेभिक्षात्रंबुभुजेप्रभुः ॥१३॥
दीपावल्युत्सवेसप्तप्रियाभक्ताजगद्रुरुं ॥ स्वेस्वेगृहेनेतुकामाभिन्नवासाःसमाययुः ॥१४॥
भवंतंनेतुकामोद्यदीपाल्यांपंचवासरं ॥ प्राप्तोस्म्यद्यैवगंतव्यकित्येकैकोब्रवीदुरुं ॥१५॥
श्रीगुरुरुवाच ॥ यूयंसप्तैकएवाहमेककालीनऊत्सवे ॥ सप्तग्रामेष्वेकदैवकथंमेगमनंभवेत् ॥१६॥
एकत्रैकेकघस्त्रेवागतिरेकैकसद्मनि ॥ संभवेच्चेत्कृतंद्वद्ववद्रिर्मेवरंद्विजाः ॥१७॥
भक्ताधीनोस्मिमांयोयोनयेद्यास्यामितत्रच ॥ तच्छुत्वान्योन्यंकलहंचक्रुर्नेष्याम्यहंत्विति ॥१८॥
निःस्रोधनीतिद्वैतान्मांमापाहिह्यसिभोसमः ॥ भूतमात्रेतएहीतिप्रोत्त्कातेपतिताःपुरः ॥१९॥
निवार्यतान्त्सर्वगृहानेष्यामीत्युदितेपिते ॥ कैर्विश्वस्तव्यमित्यूचुर्भ्राताःश्रीगुरुरीश्वरं ॥२०॥
भगवानपितद्वावंज्ञात्वैकैकंरहोद्विजं ॥ सस्मितास्यःसमाहूयप्राहोदारगिरामुदा ॥२१॥
नवाच्यंक्कापितेद्यैवगृहमेष्येचरेत्यथ ॥ तेपिसप्तैवमन्योन्यमशंसंतोययुर्गृहान् ॥२२॥
तत्रत्यैःक्कभवान्यातिनोहित्वेत्युदितेत्रतु ॥ तिष्ठामीतिप्रभुःप्रोत्त्काष्टौग्रामानेकदाभ्यगात् ॥२३॥
स्थलेषूवासपंचाहमष्टस्वपिजगन्मयः ॥ लौकिकैकस्वरुपेणततोस्थात्संगमेप्रभुः ॥२४॥
स्वाद्वत्रशाटीकंत्राणपादुकार्पणसेवनैः ॥ संतोषितःसभगवान्भक्तैरापमुहुर्मठं ॥२५॥
पुनःसर्वेपितेप्राप्ताःकार्तिक्यांतुपरस्परं ॥ ऊचिर्मेधान्मिपंचाहंदीपाल्यांसंस्थितोगुरुः ॥२६॥
तत्रत्याअपितंप्राहुःपंचाहंक्कापिनोगतः ॥ अत्रैवप्रभुरस्माभिर्दीपावल्युत्सवंव्यधात् ॥२७॥
मृषामृषेतिचान्योन्तंतदाप्रलोपतोविभुः ॥ तान्प्राहतूष्णींस्थेयंभोःसर्वत्राहंगतःखलु ॥२८॥
तदातेचकिताःसर्वेतुष्टुवुर्नतकंधराः ॥ भगवंस्तेपरंपारंमहिम्नोऽजानतांहिनः ॥२९॥
कथंलौकिकवाचस्त्वंस्तोत्रपात्रोभविष्यसि ॥ श्रुतवाचामपिब्रह्यत्रगुहाशयसंस्थित ॥३०॥
विश्वव्यापकतेनंतदिव्यंजन्मक्रीयाप्यज ॥ नान्यार्थनोमृतत्वार्थमवतारप्रयोजनं ॥३१॥
श्रूयतेद्दश्यतेदोयत्त्वन्मायेयंदुरत्यया ॥ मावृणोत्वितिभोश्रीमन्देहिनोदक्षिणांवरां ॥३२॥
इत्युत्त्काप्रणतिंचक्रुस्तान्त्संतोष्यजगत्प्रभुः ॥ सर्वान्प्रस्थापयामासस्वंस्वंधामापितेययुः ॥३३॥
एवंसभगवात्रूनंपूर्णःसच्चित्सुखात्मकः ॥ भक्ताधीनतयाचेष्टादुर्विभाव्याव्यधादिहा ॥३४॥
जात्याचारवयोरुपविद्यार्थगुणपौरुषं ॥ नापेक्षतेहिभगवान्श्रद्वाभक्तिप्रियःप्रभुः ॥३५॥
श्रृणुचित्रंप्रवक्ष्यामिकश्चिच्छूद्रोगुरुप्रियः ॥ दास्येनैवैहिकान्भोगान्भृत्त्कांतेमुक्तिभागभूत् ॥३६॥
कृषीवलःसतुसदास्वकर्मासक्तएवतं ॥ स्वक्षेत्रादामठंयांतंननामप्रत्यहंगुरुं ॥३७॥
तद्वमागमसौख्यार्थप्रत्यहंसंगमायनं ॥ अपास्यंकंटकाश्मादीन्सुगमंविशदंव्यधात् ॥३८॥
नत्वापूर्ववदायांतंमुदातद्वतमानसः ॥ कृर्षिचकारतंदासंपृच्छतिस्मैकदागुरुः ॥३९॥
सदामेग्रेकुतःशूद्रपतस्येतेनकिंवद ॥ साध्यंकिंतेस्तिमनसितदद्योद्वाटयाखिलं ॥४०॥
शूद्रउवाच ॥ भजामिसुखकामस्त्वांक्षेत्रंतेकृपयाखिलं ॥ मनोज्ञंभातितत्प्रेक्षनोपेक्ष्यःपादजोप्यहं ॥४१॥
तदासस्मितमीशोपिसर्वक्षेत्रंविलोक्यतत् ॥ आप्रादुर्भूतसस्यंतंप्राहद्राक्छिंध्यदोखिलं ॥४२॥
विश्वासोमेस्तिवाक्येचेच्छिंधिमेयावदागमः ॥ इत्युत्त्कासंगमंगत्वाप्रभुःकर्मान्हिकंव्यधात् ॥४३॥
गत्वाशूद्रोपिपत्येतुप्राहनिश्वित्यतेकरं ॥ क्षेत्रंदेहीतिसप्राहनेदंसाध्वद्यकर्षक ॥४४॥
शश्वत्प्रार्थ्यपरुद्दत्तद्विगुणंभागमंघ्रिजः ॥ दातुंनिश्वित्यजग्राहप्रमापत्रमतोपिसः ॥४५॥
आहूयाथार्थलुब्धान्सलोकान्यावच्छिनत्तितत् ॥ सापत्याक्षेत्रमेत्यद्राग्वारयामासतंवधूः ॥४६॥
निधाःस्तोत्रांइमाछिंधीतिवदंत्याःसकैशिके ॥ चूर्णप्रतिनिधीकृत्यपद्वूलिंपुनराच्छिनत् ॥४७॥
सनोन्मत्तस्तुभरतप्र -हादकबिभीषणैः ॥ मातापित्रग्रजास्त्यक्तागुर्वर्थेकाकथान्यतः ॥४८॥
सागन्वेशंरुदत्यूचेमुंडिवाक्यानुवर्त्यहो ॥ क्षेत्रंछिनत्तितेऽपक्कंप्रमत्तस्तंनिवारय ॥४९॥
निवारणायसोप्येकंदूतंप्रेरयदेत्यसः ॥ तस्मैगंभीरयावाचास्वामिवाक्यंशशंसह ॥५०॥
तंप्राहशूद्रोपिपत्येशंसारब्धोद्यमस्यतु ॥ पारंयास्येनोबिभेमितत्प्रमालिपिरस्त्यसौ ॥५१॥
दूतोप्यागत्पपत्येतुतत्स्माचष्टेब्रवीत्सतां ॥ शूद्यन्यथाकथंवाक्यंकार्यंसोप्यर्थधान्यवान् ॥५२॥
तच्छुत्वासारुदत्यापक्षेत्रसीमांसुतान्विता ॥ तच्छूद्रोप्यखिलंछित्वागुर्वागममचिंतयत् ॥५३॥
कृत्वाप्यान्हिकमागच्छन्छातंसर्वमवेक्ष्यतं ॥ प्रणतंप्राहकिमिदंकृतंसाहजकोक्तितः ॥५४॥
यदन्येनह्रदापीद्दक्कर्तुंशक्यंनभुव्यदः ॥ कर्माद्यदुष्करंनिंद्यंत्वयाकृतमतःपरं ॥५५॥
कुतस्तेभवितावृत्तिर्दास्यसीशायकिंवद ॥ अपक्कंहरितंसर्वंसस्यमेतद्रृथागतं ॥५६॥
सप्राहोक्तंकथमपिश्रुतवत्सद्रुरोर्वचः ॥ तन्मेपिफलदंजन्मदत्तंयेनसवृत्तिदः ॥५७॥
भक्तिश्वेदुक्तवद्रूयात्तइत्युत्त्काययौगुरुः ॥ सोप्यापस्वगृहंधीरोध्यायन्हरिपदांबुजं ॥५८॥
कालेनाल्पीयसासूर्यइतेमूलर्क्षमंबुदः ॥ ववर्षच्छित्रमपितद्यावनालाद्यवर्धत ॥५९॥
प्रादुर्भूतानसंभाव्यानंकुरानभितोमितान् ॥ द्दष्ट्राजल्हादिरेसर्वेशूद्यपुत्यंतहर्षिता ॥६०॥
पत्युःपादौसकारुण्यंगृहीत्वागद्वदाक्षरा ॥ बभाषेगुरुभक्तोसिमममंतून्क्षमस्वभोः ॥६१॥
तथेत्युत्त्कातयाशूद्र ;प्रपूज्यक्षेत्रपंगुरुं ॥ यांतंक्षेत्रंदर्शयित्वाप्रणतोवाक्यमब्रवीत् ॥६२॥
अंघ्रीचिंतामणीर्वाक्यंसुधास्पर्धिदयानिधे ॥ ज्योतिर्मयंनवेत्यंधोधूकोर्कमिवधामते ॥६३॥
द्दष्टंसमूढपुण्येनधामतेदिव्यमद्रुतं ॥ कृतकृत्योस्म्यतोदेवमांमाधोक्षजविस्मर ॥६४॥
तमाहश्रीगुरुःशूद्रधन्योस्यवरवर्णते ॥ परितुष्टोस्मिदास्येननूनंसद्रतिभाग्भव ॥६५॥
दुराचारोपियदिचेत्सेवतेमामनन्यधीः ॥ सतुसाधुर्हितस्मात्त्वंस्वाचारोभक्तिमान्मयि ॥६६॥
अतस्तेदत्तमेत्तत्तुनिवसेत्त्वत्कुलेमले ॥ अचलाकमलादास्यंमदीयंचाप्यसंशयं ॥६७॥
इत्युत्त्कागाद्रुरुःसोपिगत्वेशंप्राहनिश्वितात् ॥ अधिभागंप्रदास्येतेयतोधान्यर्धिरद्रुता ॥६८॥
सप्राहनान्यथोक्तिर्मेप्रसादात्सद्रुरोस्त्वियं ॥ लब्धाधान्यर्धिरनयंनस्पृशाम्यर्पयोक्तवत् ॥६९॥
परिपक्कंततोद्दष्ट्रासस्यंछित्वानयद्रृहम् ॥ कामंशेषंजनेभ्योदादमितंधान्यमुत्तमं ॥७०॥
बहवोलेभिरेधान्यंप्रकामंसोपिसद्रुरोः ॥ कृपयापरयाभूत्वाश्रीमान्सेवेतिनीचवत् ॥७१॥
तत्रेद्दश्यःप्रभोर्लीलाःकतिवृत्तास्तुकृत्स्त्रशः ॥ नज्ञाताःकैरपिपुरंमन्येधन्यतमंतुतत् ॥७२॥
सिद्वउवाच ॥ तत्रतीर्थान्यनेकानिदेवाअप्यखिलाःखलु ॥ जगत्रिवासउद्वीक्ष्यतस्थौध्रुवमधोक्षजः ॥७४॥
मंदधीभिस्तुतीर्थानितिष्येऽज्ञातानितान्यतः ॥ गुरुःप्राहैकदालोकंपावनानिप्रदर्शयन् ॥७५॥
काशींजिगमिषोलोकसर्वतीर्थानिचात्रतु ॥ दर्शयामीतितान्प्रोत्त्कातीर्थान्याहसदर्शयन् ॥७६॥
संगमोयंप्रयागोष्टौतीर्थान्यत्रतुषट्कुले ॥ त्रिवेणीसंगमोयंतुपापयघ्न्यमरजेष्टदा ॥७७॥
जीवनायेशदत्तेंद्रनीयमानसुधाघटात् ॥ युद्वेजालंधरहतदेवानाममृतंच्युतं ॥७८॥
किंचिच्युतादपिमहाप्रवाहोत्रामरत्वदः ॥ कालमृत्युभयाघघ्रीजातैषामरजाततः ॥७९॥
मनोरथाख्यंतीर्थतुकल्पद्रश्वत्थसन्निधौ ॥ संतोषतीर्थमग्रेत्ररुद्रोविश्वेश्वरःस्वयं ॥८०॥
वामहस्तेननंद्यंडंधृत्वांगुष्ठंचतर्जनीं ॥ संस्थाप्यश्रृंगयोर्मध्यात्कृतशैवीप्रदक्षिणः ॥८१॥
पश्येद्यदीशंमर्त्योपिदेववच्छ्रीष्टयुग्भवेत् ॥ साक्षात्काशीयमीशेनविहिताभक्ततुष्टये ॥८२॥
जीवन्मुक्तोत्रशैवःप्राग्लोकेजडइतीरितः ॥ येनाहिवज्जनोभोगाविषंस्त्रीःशववन्मताः ॥८३॥
कदाचित्ससदायुक्तःप्रमाथींद्रियसंयमी ॥ बंधूनाहात्रकाशीयंतऊचुर्दर्शयाद्यनः ॥८४॥
सदध्यावीशमीशोपितदैत्याहेप्सितंवद ॥ सप्राहाद्यत्वयासार्धंकाशींसंस्थापयध्रुवां ॥८५॥
तथेत्युत्त्केश्वरोगात्तज्जलांतःकुण्डमुत्तमं ॥ उद्वूतंतत्रविश्वेमूर्तिराविरभूत्क्षणात् ॥८६॥
काश्यांचिह्रानियान्यत्रजातान्यालोक्यतानिसः ॥ स्वजनांदर्शयित्वोचेकाशीयंक्कापियातनो ॥८७॥
प्रत्यब्दंपूजयित्वानोविठठलंकुलदैवतं ॥ काशीयात्रात्रकर्तव्यासर्वाघघ्रीप्सितार्थदा ॥८८॥
तस्मात्काशीयमित्यस्मिन्गुरौब्रुवतितत्क्षणं ॥ पूर्वाश्रमस्वसारत्नानाम्रीप्राप्यननामतं ॥८९॥
तमाहश्रीगुरुःप्रोक्तस्मृतिस्तेस्तिनवावद ॥ सापिस्मृत्वातदास्वांगंकुष्ठीभूतंददर्शह ॥९०॥
तांखित्रांप्रणतांप्राहप्रभुःपापंभवांतरे ॥ चेद्वोक्ष्यसेत्रकुष्ठंद्रागपैत्यंहःप्रयत्नतः ॥९१॥
साप्राहमातृकुक्षौमेयथोतेनभवेत्स्थितिः ॥ तथैवभवताकार्यांनान्यज्जानेपरात्पर ॥९२॥
गुरुःप्राहाघह्रत्तीर्थेत्र्यहंस्त्रानाच्छिवांतिके ॥ सप्तजन्मार्जिताहोपिनश्येत्कुष्ठस्यकाकथा ॥९३॥
सापितत्रत्र्यहस्त्रानाद्रूत्वाकुष्ठोनितामला ॥ मठंनिर्मायतत्रैवस्थितामुक्ताबभूवह ॥९४॥
गुरुस्त्वग्रेघह्रज्जंबुद्वीपस्थाखिलतीर्थवत् ॥ कोटितीर्थंदर्शयित्वाप्राहेदंसकलाघह्रत् ॥९५॥
क्रांतिपर्वग्रहेष्वत्रस्त्नानदानजपादयः ॥ अक्षय्यानंतफलदाअकुत्सितह्रदांनृणां ॥९६॥
गयावद्रुद्रपादाख्यंतीर्थंत्वग्रेगयोक्तवत् ॥ कृध्वंकर्मात्रकृष्णाग्रेचक्राख्य़ंद्वार्वतीसमं ॥९७॥
द्वारकोत्तवदाचीर्णात्फलंतस्याश्वतुर्गुणं ॥ स्त्नानाज्ञ्ज्ञानीभवत्यत्रपतितोप्यस्थिचक्रवत् ॥९८॥
गोकर्णवद्वामपूर्वभागःकल्लेश्वरोत्रतु ॥ महाबलेश्ववत्तीर्थमन्मताख्य़ंसुसिद्विदं ॥९९॥
नभस्यखंडाभिषेकादूर्जेदीपोत्सवात्सतु ॥ अक्षय्यफलदोदद्यात्सर्वसिद्वियुतामृतं ॥१००॥
एवंशशंसाखिलतीर्थयात्रांतेपिप्रह्रष्टाश्वतथैवचैरुः ॥ एताद्दशंक्षेत्रमिदंवरीयोविज्ञायविज्ञानमयात्मकोस्थात् ॥१०१॥
म्लेच्छंसमुद्रृत्यततोखिलात्मातत्रस्थितोभाविककामधेनुः ॥ प्रत्यक्षईशोपिनद्दश्यतेसाववित्तमोंधैररुणोयथांधैः ॥१०२॥
इतिश्रीगुरुचारतेभक्तियोगेक्षेत्रमाहात्म्यवर्णनंनामचतुर्थोऽध्यायः ॥४॥ आदितःद्वाविंशोऽध्यायः ॥२२॥