नामधारकउवाच ॥ ॥ त्रय्यात्मासौकृतोजातोभुमौनरइवेश्वरः ॥ यंब्रवीषिपरंब्रह्यतन्मेशुश्रूषवेवद ॥१॥
सिद्वउवाच ॥ ॥ धन्योस्यनुगृहीतोस्ययत्तेभक्तिरधोक्षजे ॥ संजाताभवबंधघ्रीहर्षोमेतीववर्धते ॥२॥
कोपिगांपर्यटंतंमांनपृच्छतिगुरोःकथां ॥ त्वयाद्यभक्तचंद्रेणबोधाब्धिर्मेप्रपूरितः ॥३॥
अनंताःसंत्यनंतस्यलीलाःप्रश्रमृतेपिताः ॥ नवक्तुर्यांतिनिजधीपरिणामावधिस्मृतिं ॥४॥
कलौतुनस्तिकामर्त्यास्तत्कथाश्रवणात्मकं ॥ प्लवंतर्तुंभवाब्धिंनोविदुर्मज्जंत्यतोत्रते ॥५॥
यत्रांव्ववित्तुतृष्णोर्मिर्ग्रहाःकामादयोध्वनिः ॥ भोगोपरिऽत्रनौस्त्वेषागुरुर्नेताकृपामरुत् ॥६॥
तस्माद्दिष्टयासाधनानिप्राप्तान्यत्रापुयत्नतः ॥ तरिष्यसिभवाब्धिंस्त्रागतोवक्ष्येकथाःश्रृणु ॥७॥
इत्युत्त्कामरजाभीमासंगमेह्युपविश्यसः ॥ गुर्वधिष्ठितकल्पद्रुमुलेस्मैप्राहसत्कथाः ॥८॥
मुमुक्षुभेषजंमुक्तजीवनंविषयष्टिदं ॥ श्रीगुरोश्वरितंवागह्रद्दूरत्वाद्वच्मितेल्पकम् ॥९॥
जगत्येकार्णवीभूतेशेषतल्पश्रितोस्पृहः ॥ नारायणोजगत्स्त्रष्टुंमायामुद्वाव्यसोंडजम् ॥१०॥
स्त्रष्टारंव्यसृजत्सृष्टयैसप्तर्षीन्सोपिमानसान् ॥ तत्रैकोत्रिस्तपस्वीशोयस्याभूद्वगवान्सुतः ॥११॥
ऋषेरत्रेस्तपोर्थस्यपातिव्रत्यविभूषिता ॥ आसीद्वार्यानसूयाख्यात्रिलोक्यांविश्रुतासती ॥१२॥
जातोर्वीमृदुलार्काग्रीशीतौमंदोमरुद्विया ॥ तस्यादेवाःपदापायभ्रांत्याऽऽपुःशरणंहरिं ॥१३॥
एकदानारदोप्येत्यतद्वर्मान्ब्रम्हविष्ण्वजान् ॥ प्राब्रवीत्रेद्दशीसाध्वीस्रर्वदाभ्यागतप्रिया ॥१४॥
इत्यृषेर्वाक्यमाकर्ण्यविषीदंत्यउपस्थिताः ॥ तद्देब्योसहमानाद्रारबभूवुर्मूर्छीताभृशं ॥१५॥
पतिव्रतामानिनीस्ताःसावित्रीश्रीश्वरीस्त्रयः ॥ आश्वास्यातिथिवद्रुत्वारोषाच्छुप्तंसतींययुः ॥१६॥
पतिव्रतापितान्द्दष्ट्रास्वाश्रमाभ्यागतान्सुरान् ॥ प्रत्त्युद्रत्वासमानीयस्वासनेसंन्यवेशयत् ॥१७॥
वीजितान्कृतपच्छौचान्सूपविष्टान्जगौसती ॥ स्वागतंवोद्यकिंकार्यंमुनिस्तुतपसेगतः ॥१८॥
तऊचुःसाध्विनोविद्मस्तपःसक्तमनामुनिः ॥ कदाऽऽयातीत्यतोदेहिक्षुधितेभ्योत्रमाश्वलम् ॥१९॥
इतिश्रुत्वागिरस्तेषांतथेत्युत्त्कागृहंगता ॥ पात्राण्यासाद्यतेभ्योऽत्रंपरिविष्टंन्यवेदयत् ॥२०॥
तआहुःसाध्विनोदेहिनग्राभूत्वेत्यपेक्षितं ॥ नेदंचेद्रोचतेन्यत्रगच्छामः क्षुधिताइतः ॥२१॥
तछुत्वापिप्रहस्यैषाऋषेःसंगात्तपस्विनः ॥ पूतायाममकामेनकिंभवेच्चेत्तथाऽकृते ॥२२॥
शप्त्वागच्छंतिविमुखामहांतोमीममात्मजाः ॥ इतिस्वगतमुद्राव्यतथेत्युत्त्कांशुकंजहौ ॥२३॥
तदैवतेभवन्बालानिर्विकाराअपीश्वराः ॥ जगत्सृडीश्वरहराःपातिव्रत्यप्रभावतः ॥२४॥
तान्सातथाविधान्प्रेक्ष्यसचित्नाभूद्वृतांशुका ॥ पयःप्रसूत्याइवास्यास्तदालंस्तनतोस्त्रवत् ॥२५॥
सपद्येवाद्रुताविष्टाप्रेम्णाह्रष्ठतनूरुहा ॥ प्रत्त्येकंपाययामासक्षीरन्तेपिपपुर्मुदा ॥२६॥
जगदुत्पत्तिकरणसुश्रांतइवविश्वसृट् ॥ पीत्वापतिव्रतास्तन्यंपरमांशांतिमाययौ ॥२७॥
विश्वंभरोविश्वरक्षाकियात्रस्तइवामलं ॥ पतिव्रतापयःप्राश्यपीनांविश्रांतिमाविशत् ॥२८॥
हरस्तुविश्वसंहारकर्मतष्टइवक्षणात् ॥ सत्यौधस्याशनात्तृत्तःपुष्टिवर्धनतांययौ ॥२९॥
स्वधर्मज्ञाततत्सत्वापाययित्वापितान्पयः ॥ साजगौतत्कथोद्वातंप्रेम्णाविन्यस्यपालके ॥३०॥
अत्रांतरेवनादेत्यश्रुतगीतःसतीमुखात् ॥ सर्वंश्रुत्वेश्वरान्ज्ञात्वाध्यानात्रत्वाऽस्तुवन्मुनिः ॥३१॥
विश्वसर्गस्थितिप्रांतनिदानंविश्वसाक्षिणं ॥ विष्णुंविश्वमयंवंदेविश्वाद्यंविश्वसंग्रहम् ॥३२॥
तपस्तप्तंयदर्थंसत्वमेकोपीशलीलया ॥ त्रिधाभूत्वात्मनात्मानंस्वैर्गुणैरमयस्युत ॥३३॥
अध्यारोपापवादाभ्यांसमुद्रूतंजगत्ततः ॥ अहंममाभिमानेनपार्थक्यंत्वस्यनापरम् ॥३४॥
इतिस्तुवतितस्मिंस्तेपालकेबालरुपतः ॥ स्थिताअप्याद्यरुपैःस्वैःस्थित्वोचुस्तंवरंवृणु ॥३५॥
सप्राहसाध्वींसुभगेब्रह्यविष्णुमहेश्वराः ॥ त्वद्रक्त्याप्तामनोदूराअतोणीष्टंवरंवृणु ॥३६॥
साप्याहसुतपःसृष्टयैत्रिधाभूतेनवैभवान् ॥ सृष्टोमुनामुमेवातःपुत्रत्वेनवृणोत्वजम् ॥३७॥
ऋषिःसोपिदमेवेष्टंमत्वावव्रेतदेवहि ॥ विष्णुःसर्वात्मनाहंतेमयादत्तःकिलाब्रवीत् ॥३८॥
पतिव्रताप्रभावोयंबालाभूत्वेश्वराःस्थिताः ॥ स्वस्वप्राग्रपतोप्येतेस्वंस्वंस्थानंययुस्त्रयः ॥३९॥
पृथड् .नामानिबालेभ्योददौतेभ्योर्थविन्मुनिः ॥ पूर्णत्वेनमयाहंतेदत्तइत्युक्तवान्स्वयम् ॥४०॥
भगवानितिनाम्रैनंमुनिर्दत्तंचकारसः ॥ ब्रह्यांशंचंदनाच्चंद्रमौग्रंदुर्वाससन्तथा ॥४१॥
त्रयाणामपुयंसाक्षाद्दत्तस्तुभगवान्स्वयम् श्रुत्यन्विष्टांध्यब्जरेणुःसच्चिदानंदविग्रहः ॥४२॥
सदेष्टयोगसंविद्दःस्मृतिगामीक्षणेक्षणे ॥ चंडोप्यन्योनुग्रहाशीश्वंद्रोजननवर्धनः ॥४३॥
दुर्वासःशापमाश्रुत्यभूदेवार्थमनंतशः ॥ धृत्वावतारान्कार्यांतेलीलाकायान्जहात्यजः ॥४४॥
परानुग्रहकार्यार्थमवतीर्णःस्वयंकिल ॥ दत्तरुपेणकार्यस्यनित्यत्वात्रामुमत्यजत् ॥४५॥
नामधारकउवाच ॥ ॥कुतोदुर्वाससाशप्तःशापोव्यक्तेकथंवद ॥ लग्नःपरावरेमुंमेसंशयंछेत्तुमर्हसि ॥४६॥
सिद्वउवाच ॥ भक्ताधीनतयात्वेषभगवान्भक्तिभावनः ॥ अव्यक्तोप्यस्तिसुव्यक्तःपूर्णातोत्रसहिष्णुता ॥४७॥
पुरांबरीषनामैकोभक्तोभागवतोत्तमः ॥ एकादशीव्रतपरआसीदभ्यागतार्चकः ॥४८॥
एकदाव्रतभंगायपारणाहेतदालयं ॥ चंड ;प्राप्याहदुर्वासाभोजनंमेर्पयेतिच ॥४९॥
दास्यामीत्युक्तवत्तस्मिन्गत्वास्त्रातुंनदीमरं ॥ छिद्रान्वेषीतत्रस्थौतरितुंपारणाक्षणं ॥५०॥
सोप्यभुक्तेमुनौभोज्यंनान्यथाब्रतभंगमीः ॥ तीर्थात्तभयसिद्विर्मइतिमत्वापपौजलम् ॥५१॥
तदैत्याहमुनिःपीतंहित्वामांक्षुधितंयतः ॥ दुर्भगानेनदोषेणभ्रमिष्यसिभवेभवे ॥५२॥
इत्युक्तःसोप्यजंभीतोदध्यौस्वकुलदैवतम् ॥ स्वदासजीवनंविष्णुसोप्यागत्याहतंमुनिं ॥५३॥
मुनेमोघंनतेवाक्यंशापन्देहितमेवमे ॥ नायंसोढुंप्रभुर्भक्तवात्सल्यान्मेसहिष्णुता ॥५४॥
इत्याकर्ण्यमुनिर्मत्वाभुव्ययंदुर्लभोनृणाम् ॥ अंबरीषप्रभावेनशापसंबंधकारणात् ॥५५॥
भविष्यत्यत्रसुलभस्तच्छपाम्येनमित्यसौ ॥ तंशशापांप्यजःशापाद्वहुधावतरत्यजः ॥५६॥
अस्यावतारामत्स्याद्याःपुराणोक्ताहिविश्रुताः ॥ द्विवारमाविरासीत्सदीनान्त्रातुंजनान्कलौ ॥५७॥
अद्यापितौकामदौस्तःपामरागोचरौकलौ ॥ यतकालकलौद्राक्शंसिद्येत्रान्यदतोवितः ॥५८॥
इतिश्रीगुरु० दत्तावतारकथनंनामतृतीयोऽध्यायः ॥३॥