नामधारकउवाच ॥ शिष्यांस्तुतीर्थयात्रायैप्रेरयित्वास्वयंकुह ॥ उवासभगवान्बूहिश्रोतुमिच्छामिसादरम् ॥१॥
सिद्वउवाच ॥ संवत्सरंवैद्यनाथसमीपमकरोद्विभुः ॥ निवासमहमप्येतत्पादाब्जभ्रमरोभवम् ॥२॥
तत्रैत्यैकोद्विजोमन्दोनमस्कृत्याब्रवीद्रुरुम् ॥ प्रपद्येभगवंस्त्वांमेमोक्षोपायमुपादिश ॥३॥
मयातुसिद्वयेकष्टंभूर्यकारितथापिमे ॥ नाप्तासिद्वीर्नोपलब्धःसन्मार्गप्रापकोगुरुः ॥४॥
श्रीगुरुरुवाच ॥ कथंगुरुंविनावत्ससिद्वयेकेनयोजितः ॥ कस्याज्ञयाकृतंकष्टमित्याकर्ण्यद्विजोब्रवीत् ॥५॥
सिद्यैमयागुरुःकश्विछ्रितश्वण्डःसतुप्रभो ॥ सेवार्थीपीडयामासततस्त्यत्कःसवैमया ॥६॥
श्रीगुरुरुवाच ॥ हन्तासाधुकृतंधिक्त्वांगच्छेतःसत्वरंयतः ॥ गुरुद्रोह्यस्यावलोकोनभद्रायकथंचन ॥७॥
प्रणिपातपरिप्रश्रसेवाधर्मपराडुःखे ॥ कुतोगुरुकृपालेशस्तद्वत्येवप्रसन्नता ॥८॥
सिद्वउवाच ॥ कथंज्ञेयःकथंसेव्योगुरुस्तन्मेवदाखिलम् ॥ अजानतागुरुद्रोहःकृतोतोमोद्वरप्रभो ॥९॥
श्रीगुरुरुवाच ॥ गुरुर्निरुपमःसाक्षाद्रह्यविष्णुशिवात्मकः ॥ सोज्ञेयस्त्वाद्दशैरंधैस्तद्वत्सेवापिसद्रुरोः ॥१०॥
एतदर्शंपुरावृत्तंशृणुधौम्याभिधोमुनिः ॥ द्वापरेभूत्रयाश्छात्राआसन्तस्यांगतत्पराः ॥११॥
बैदारुणोपमन्य्वाख्याःसेवाधर्मसुशिक्षिताः ॥ तेषांपरीक्षितुंभावंगुरुःप्राह्रदयार्द्रधीः ॥१२॥
मच्छालेयेंब्वभावोस्तिजीवेत्सस्यमतःकुतः ॥ गत्वावःकोपिनत्नेनक्षेत्रमंब्वानयत्वरं ॥१३॥
श्रुत्वैवमरुणोह्रायगत्वाक्षेत्रसमीपतः ॥ जलमानीययत्नेनपल्वलात्क्षेत्रमुत्नतं ॥१४॥
द्दष्ट्राकरोत्क्षेत्रतुल्यंवारिवारणमाशुतत् ॥ जलप्रवाहःसहसाक्षेत्रादन्यत्रनिर्ययौ ॥१५॥
न्यस्तोपिपाषाणचयःस्थातुंतुत्रशाकनो ॥ मन्येक्षेत्रेजलाभावाद्रुरुर्मांधिक्करिष्यति ॥१६॥
गुर्वर्थमत्रमर्तव्यमितिमत्वोभयत्रसःस्वांगंनिधायोपरिष्टाज्जलैःक्षेत्रमपूरयत् ॥१७॥
धौम्योपिक्षेत्रमेत्यांबुपूर्णंशालेयमीक्ष्यसः ॥ खिन्नःशिष्यमद्दष्टैहिवत्सेत्यावाहयन्मुदा ॥१८॥
प्रत्युत्तरंजलाक्तान्तरंगोदातुंसनक्षमः ॥ किंचिध्वनिंचकारासौतच्छुत्वैत्यददर्शतम् ॥१९॥
कृपयापरयोत्थाप्यभक्तिंज्ञात्वास्यतत्क्षणं ॥ तस्मिन्प्रसन्नःसम्भूयस्वीयंसाम्यंव्यधान्मुनिः ॥२०॥
विद्याविनयसम्पन्नोभूत्त्वासन्तोष्यसद्रुरुम् ॥ तदाज्ञयाययौधामस्वमर्च्योभवदत्रसः ॥२१॥
ततोवैदंगुरुःप्राहसस्यंमैशिष्यसर्वतः ॥ रक्षयित्त्वानुधान्यंतद्यत्नात्सर्वंसमानय ॥२२॥
आज्ञाप्रमाणमित्युत्त्कापशुपक्षिनिवारणैः ॥ सस्यंररक्षपश्वात्तच्छित्त्वाधान्यंसनिर्ममे ॥२३॥
शशंसगुरवेन्यस्तोधान्यराशिर्मयागुरो ॥ क्षेत्रेत्रानेतुमेकंमेशकउंदेहिसर्षभम् ॥२४॥
तच्छुत्त्वाशकटंतस्मैसलुलायेनयोजितम् ॥ प्रददौसतमादायनीत्वाविन्यस्यचाखिलान् ॥२५॥
शालीनाहरदर्धाध्वंतत्रपंकेसकासरः ॥ संलग्नोभूत्स्वसंसोथस्वकंठेयोजयद्युगम् ॥२६॥
सलुलायःसशिष्यस्तुतत्रभारातिरेकतः ॥ पपाततत्रसहसाधौम्यःप्रापयद्दच्छया ॥२७॥
तत्कर्मप्रेक्ष्यघोरन्तंमोचयित्वाप्रसन्नधीः ॥ वरंतस्मदैदौयेनसपरत्रात्रचोत्तमः ॥२८॥
अथोपमन्युमाहैषगाश्वारयसदेत्यथ ॥ कतिकालंतथाचक्रेस्वल्पभुक्ष्क्षुधितोभवत् ॥२९॥
वनेविप्रालयान्प्रेक्ष्यस्वंपुपोषात्नयाश्वया ॥ पुष्टोसिकथमित्युक्तोगुरुणातंन्यवेदयत् ॥३०॥
तन्मेदेहीतिगुरुणाभाषितःसतथाकरोत् ॥ सपश्वाद्याश्वयारक्षत्स्वंतद्वेदापिवैमुनिः ॥३१॥
द्विवारमर्पयेत्यूचेसच्छिष्योपितथाकरोत् ॥ पीत्वाररक्षगादुग्धंवत्सपीतावशेषकं ॥३२॥
तज्ञ्ज्ञात्वाधीभ्रंशभियावारितोगुरुणावने ॥ अर्कक्षीरंदधौपातुंतत्तस्याक्ष्णोःपपातह ॥३३॥
सपपातांधवद्रावोययुर्गेहंगुरुस्तदा ॥ अन्वेष्यतंतथाद्दष्ट्रातंप्राहस्तुहिरेश्विनौ ॥३४॥
सोश्विस्तवाद्दृष्टिमापगुरुणातदुपर्यपि ॥ कृपाकृतातेनसोपिकृतकृत्योभवद्दतम् ॥३५॥
तच्छिष्याअपितत्तुल्यावभुवुःश्रृणुसादरम् ॥ उद्दालकोस्यशिष्यःसन्सत्रेहीनदहद्वहून् ॥३६॥
जनमेजयतोषार्थस्वर्वाच्छकंसमानयत् ॥ अयंगुरुप्रसादस्तत्तोषात्प्राप्योनचान्यथा ॥३७॥
अतस्तमेवशरणंसर्वभावेनगच्छभोः ॥ तत्प्रसादात्परांशान्तिंमोक्षंप्राप्स्यसिदुर्लभम् ॥३८॥
विप्रउवाच॥ युज्यतेभिन्नधात्वैक्यंनमुक्तायास्तथाह्रदः ॥ तद्वद्वित्रंनयास्येतःप्राणांस्त्यक्ष्यामितेग्रतः ॥३९॥
इतितत्रिश्वयंज्ञात्वाकेविन्यस्यकरंगुरुः ॥ तापदग्धाशुभस्यास्यप्राहांगस्वगुरुंस्मर ॥४०॥
द्विजोपिस्वगुरुंस्मृत्वातत्स्वरुपमिवप्रभुम् ॥ ददर्शश्रीगुरुंप्रेम्णातुष्टावसमुदश्रुयुक् ॥४१॥
तमाहप्रांजलिंविप्रंश्रीगुरुस्त्वंयथाक्रमम् ॥ लघुनिस्तीर्यकर्मौघंपरांसंसिद्विमाप्स्यसि ॥४२॥
त्वयाव्यालोकिरुपंमेयत्तद्वक्त्यास्मरक्रियाः ॥ मदर्थइत्सदासक्तःकुर्वन्त्सिद्विमुपैष्यसि ॥४३॥
इतिद्विजन्तनिजरुपदर्शनात्सुदुर्लभस्वात्मसुखान्वितंप्रभुः ॥ विधायचैकंद्विजपुत्रमागतंसमुद्दधारच्छितजिह्रमप्यरं ॥४४॥
क्षेपकः ॥ येकेनचश्रीगुरुमीशबुद्यासन्तापदग्धैनसआव्रजन्ति ॥ प्रच्छिद्यतेमोहसमूहमाशुस्वानन्दसौख्यंद्विजवत्प्रयान्ति ॥१॥
इतिश्रीगुरु० गुरुभक्त्यनुशासनंनामदशमोऽध्यायः ॥१०॥