श्रीगुरूचरित्र - द्वितीय रहस्य

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


संतप्तधन्यसन्यासिन्गुरुभक्तगतागतात् ॥ मुक्त्याअत्माप्तयेतत्वजडचैतन्यविद्वव ॥१॥

स्वान्याज्ञंजडमन्याचित्रामरुपात्मकंजडं ॥ रोमत्वद्मांसनाडयस्थिभुवोद्योमूत्ररेतसी ॥२॥

स्वेदोस्त्रलालेग्रेःक्षुत्तृण्निद्रातंद्रारतिर्गतिः ॥ लौल्यंनिरोधःप्रसाराकुंचनेमरुतोथखात् ॥३॥

कामक्रुड्लोभमोहाभीस्तदाढयेयंजडातनुः ॥ वर्णाश्रमादिद्वंद्वादिसंबंधादिपरोभवान् ॥४॥

यत्रिर्विकल्पंस्फुरतितदंतःकरणंमनः तत्संकल्पविकल्पाभ्यांतत्तुधीर्निश्वयात्मकं ॥५॥

अनुसंधानकंचित्तमहंकारस्त्वहंकृतिः ॥ व्यानाधार्याद्यंश्रुतेस्तुशब्दभुग्वक्तिवाक्यखं ॥६॥

समानाधरित्वचान्यत्स्पर्श्याश्यादातृदातृच ॥ उदानाधाराधीर्नेत्राद्रूपभुक्त्सगमागमा ॥७॥

जिव्हयाप्राणवच्चित्तंरसभुग्रतिमूत्रकृत् ॥ सापानाहंकृतिर्घ्रानाद्वंभुग्विड्विर्गकृत् ॥८॥

कर्मज्ञानेंद्रियैःपुण्यपापयोःसुखदुःखयोः ॥ भौतिकेपंचकेकर्तृभोक्तृत्वेद्वंद्वतापिच ॥९॥

तल्लिंगदेहतादात्म्यात्कर्तृत्वादिवृथार्जितं ॥ हेतुदेहपरःस्वात्मज्ञानान्मुक्तिर्ध्रुवाचिरात् ॥१०॥

स्वदिद्दक्ष्वरराज्ञानहेतुसाक्षीपरोभवान् ॥ निराकारस्वात्मबुद्विमहाकारणसाक्ष्यपि ॥११॥

स्थाणुरंतर्बहिर्भास्वानात्मारामोनिराकृतिः ॥ चतुर्देहपरःसाक्षीप्रत्यगीशोसिविध्यदः ॥१२॥

अत्नासुह्रद्यहंकारमयतादात्म्यतेभ्रमः ॥ स्थूलःपंचीकृतैर्भृतैःसूक्ष्मःकर्मेद्रियासुभिः ॥१३॥

धींद्रियैर्हेतुर्महांश्वतद्विदात्मन्यथोद्वृते ॥ अन्वयव्यतिरेकाभ्यांपरंब्रह्यैवशिष्यते ॥१४॥

भानंस्वप्रेस्येर्वभानेन्वयःप्राग्विस्मृतिःपरः ॥ लिंगभानेन्वयःस्वापभानंप्राक्विस्मृतिःपरः ॥१५॥

तद्विदोसुमनोध्याख्यागुणावस्थाभिदःपृथक् ॥ सुप्त्यभानेन्वयोभानंसमाधौप्राग्वदन्यकः ॥१६॥

त्यक्तत्रिदेहसंगस्यनिष्कल्पस्यसुषुप्तिवत् ॥ स्थितिःपरात्परंवस्तुसच्चिच्छर्मनिराकृति ॥१७॥

क्ष्माप्कालैर्बीजलीनद्रुर्यथेक्ष्योजागृतेस्तथा ॥ सुप्त्यवित्स्थजगद्देहौतत्परत्वाविदःपुनः ॥१८॥

देहांतेज्ञस्याहंतास्थविश्वाकारेनुजन्मदः ॥ अवस्थाजागृतिःस्वप्नोनिद्रातुर्याचतुष्टये ॥१९॥

विश्वेतेजःप्राज्ञःप्रत्यगभिमानिनईरिताः ॥ द्दक्कंठह्रन्मूर्धसंस्थाःस्थूलसूक्ष्ममुदुन्मुदः ॥२०॥

भोगारजःसत्वतमःशुद्वसत्वगुणाःक्रमात् ॥ वाचोत्रवैखरीमध्यापश्यंतीचपरास्त्रिषु ॥२१॥

त्रिमात्राॐकृतेस्त्वर्धातुर्येज्ञात्वैवमादितः ॥ स्थूलःसूक्ष्मेकारणेतत्तन्महाकारणेक्रमात् ॥ प्रविलाप्यानन्दमयःस्वस्थोभवतिनान्यथा ॥२२॥

तस्माद्देहत्रयेलीनेधीलयःससमाघीकः ॥ तत्तेपरात्परंरुपंनिर्विकल्पमवेहिसत् ॥२३॥

घटादिवद्योर्जीवस्याविद्योपाधिस्तुतत्क्षये ॥ स्वस्थद्योवत्परात्मत्वंजीवत्वंलीयतेचिरात् ॥२४॥

ज्ञातेक्षराक्षराहंतापरेतत्वेसतन्मयः ॥ सृष्टेःप्राड् .निर्विकल्पैकाचिद्रत्द्यास्मीत्यभूत्विह ॥२५॥

स्फूर्तिःखेवायुवत्साद्यामायाद्यस्तज्ञईश्वरः ॥ तत्रविश्वोद्वमेहाभूत्सान्यामायाथतत्रतु ॥२६॥

जगत्स्यामितिसंकल्पोभून्महत्तत्वनामकः ॥ विद्याविद्येउभेमायेतज्ञ्ज्ञौसर्वेशजीवकौ ॥२७॥

जीवोऽविद्याऽऽवृतःस्वाज्ञोमहतोहंकृतिस्त्रिधा ॥ क्रियाज्ञानद्वव्यशक्तिरजःसत्वतमोगुणैः ॥२८॥

प्राणेंद्रियांतःकरणभूतान्यासन्क्रमात्ततः ॥ ततोलोकाविराट्तैश्विदंशात्कार्यक्षमोभवत् ॥२९॥

लोकांगस्यरदास्तारामायाहास्यंनिशादिने ॥ निमेषोन्मेषौकटाक्षःसृष्टिःकुक्षिरपांपतिः ॥३०॥

नाडयोनद्योद्रुपाःकेशावृष्टिरेतोऽस्थिपर्वतः ॥ विराजःस्थूलदेहोयंचराचरजगन्मयः ॥३१॥

दिग्वाय्वर्कप्रचेतोश्विवन्हींद्रोपेंद्रमृत्युकाः ॥ ज्ञानकर्मेंद्रियाण्य़ंतःकरणानिहरिःशशी ॥३२॥

ब्रह्यनारायणेशाश्वसूक्ष्मदेहोथकारणं ॥ अविद्याद्यामहत्प्रत्यगीशोदेहनिरासतः ॥ तत्पदंव्यतिरेकात्वंपदंतत्वमसिह्रतः ॥३३॥

भूरप्स्वग्रौताःसवायौसखेतत्प्रविलापयेत् ॥ द्वव्येतमसितत्सत्वेरजःसत्वंतमस्यथ ॥३४॥

अहंकृतौतन्महतिसाविद्यायांलयोद्वयोः ॥ साद्यायांसाब्रह्यणीत्थंत्वंपदंव्यतिरेकतः ॥३५॥

व्याख्यारुपैकसद्वस्तुसृष्टेःप्राक्चाधुनापितत् ॥ त्वंश्रोत्रात्मेंद्रियातीतमस्यैक्यमनुभूयतां ॥३६॥

सृष्टेःप्राक्सच्चिदानंदरुपोद्याहंकृतेर्लयात् ॥ प्राग्वदूर्ध्वमपीद्दक्त्वंयासृष्टयस्तित्वकल्पना ॥३७॥

गवाधाराहंकृतेःप्राक्स्थानाभावात्रसाद्यश्वेत् ॥ तद्वत्क्कास्तित्वमेकोतोऽद्वितीयोब्रह्यचिन्मयः ॥३८॥

ब्रह्यबुद्याद्वयाभावाद्देह्यहंकृतिसंक्षयात् ॥ शिष्यतेत्रनिराकारःक्काख्यारुपात्मकंजगत् ॥३९॥

स्त्रग्भोगितद्दृष्टमपिज्ञानदीपात्रतेभ्रमः ॥ ज्ञानंत्यत्त्काद्दढाभ्यासीभ्रमेणापिनयुज्यते ॥४०॥

स्त्रज्यह्यभावःप्रागूर्ध्वतद्वद्रह्यणिचास्यतु ॥ अभावाच्छून्यतामैहितज्ञ्ज्ञसच्चित्सुखात्मक ॥४१॥

भास्वानित्यःप्रबोधोयंवेदाभ्रांतहितैषिणः ॥ साधकान्यद्यकार्याणिसाध्याभावात्रकुर्वतः ॥४२॥

भगवद्वाक्यतोसक्तःकुरुवातैर्नलिप्यसे ॥ मनोविनापिज्ञातासिध्यानादेःकिंप्रयोजनं ॥४३॥

अदेहप्राणह्रद्वर्मःप्रारब्धाशीःसुखंवस ॥ इदंरहस्यंबोधाख्यंतज्ञ्ज्ञोब्रह्यमयोभवेत् ॥४४॥

इतिबोधाख्यंद्वितीयंरहस्यं ॥ समाप्तोयंग्रंथःप्रीयतामनेनश्रीदत्तः ॥

॥इति श्रीगुरुचरितं समाप्तं ॥

N/A

References : N/A
Last Updated : August 02, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP