नामधारकउवाच ॥ भगवानपिसंन्यासंप्रगृह्यस्वजनुस्थलम् ॥ कुतोयातोस्यशिष्याःस्युःकेकेकिमकरोत्ततः ॥१॥
सिद्वउवाच ॥ महींप्रदक्षिणीकृत्यप्रतिज्ञातानुसार्यजः ॥ मातरंद्दष्टुमाप्तोहिमातावंद्यायतेरपि ॥२॥
शिष्याहिबहवोजाताबालःकृष्णउपेंद्रकः ॥ ज्ञानज्योतिःसदानन्दोमाधवोहंचसप्तमः ॥३॥
सरस्वत्यंतसंज्ञाःस्युरेतेमुख्यास्तुभूरिशः ॥ आसन्नन्येसतैःसाकमाययौस्वजनुस्थलम् ॥४॥
पितरौप्रेक्ष्यबंधूंश्वभगिनीमितरानपि ॥ तत्राददेविश्वरुपःपूजांप्रत्यालयंक्षणात् ॥५॥
पित्रार्चितममुंद्दष्ट्राप्राक्स्मृत्यांबाब्रवीत्प्रिय ॥ मृत्यून्मुखींकुपुत्रांमांयोरक्षछ्रीपदस्त्वयं ॥६॥
माद्दग्भवेत्सुतइतिप्रतिज्ञातसुसिद्वये ॥ खद्दगन्यसुताभावात्स्वयमेवाभवत्सुतः ॥७॥
श्रीपादमेत्वंनसुतोसिदेवभवार्णवादुत्धरमांहरेज ॥ लोकानुसारीखलुवर्तसेचेत्संबंधमेनंस्मरपुत्रमातुः ॥८॥
कालदैवक्रियेशात्मद्रव्यांगास्वात्मवैकृताः ॥ तत्संघातःप्रवाहोसौत्वन्मायैतांनिवारय ॥९॥
॥श्रीगुरुरुवाच ॥ ॥संन्यासीयत्कुलेजातस्तरत्यपितरिष्यति ॥ कुलैकविंशतिःपितौर्दुर्गताप्यमृतंलभेत् ॥१०॥
जातोत्रायंहिसंन्यासीभोमातस्तेथकिंवद ॥ संपत्प्रजान्वितानांवःकाश्यांमुक्तिर्भविष्यति ॥११॥
भगिन्युवाच ॥ ॥ गतिर्मेकाग्रतःस्वामिन्भवसिंधोर्बिभेम्यहं ॥ पापिष्ठांमोद्वरहरेसद्रुरुस्त्वंहिमेप्रभो ॥१२॥
श्रीगुरुरुवाच ॥ ॥ पतिसेवनमेवैकंतारकत्रापरंस्त्रियाः ॥ पातिव्रत्यंभजततोभवाब्धेःपारमेष्यसि ॥१३॥
दंपत्योःप्राक्कृतंवरैंत्वयागोर्लत्तयाहता ॥ अतःपत्युर्यतित्वंतेकुष्टंचांगेभविष्यतः ॥१४॥
इतिश्रुत्वातिखिन्नाभूत्तामाश्वास्याहसद्रुरुः ॥ वार्धक्येतूभयंतेस्तुनश्येन्मेदर्शनात्कुरुक् ॥१५॥
इत्युत्त्कातदनुज्ञातःसशिष्योगौतमींययौ ॥ याऽऽनीतागौतमेनेशाद्रोहत्याव्यपनुत्तये ॥१६॥
तामेत्याप्लुत्यभगवान्मुनिंमाधवसंज्ञकम् ॥ भक्तगतागतान्मुत्त्कास्तुतस्तेनाग्रतोगमत् ॥१७॥
सशिष्योग्रेव्रजन्द्दष्टागंगायांमर्तुमुत्सुकं ॥ विप्रंगलशिकलंचिदादिष्टैस्तंकृपानिधिः ॥१८॥
छात्रैरुद्वारितंदीनंशूलरोगाकुलंप्रभुः ॥ दयनीयतमंप्राहविधत्सेसाहसंकृतः ॥१९॥
वित्रउवाच ॥ ॥किंकरिष्यसिमांपृष्टामरिष्येशूलकातरःकथंजीवामिरोगोत्रवैर्ययंदुःसहःसदा ॥२०॥
प्राणोत्रंजीवनंचात्रंलयोत्रंजीवमत्रमुत् ॥ उद्ववोत्रंकथंस्थेयमृतेत्रात्तन्मृतिर्वरम् ॥२१॥
भवांतरेत्रवानात्रंदत्तंपुण्यंनवाकृतं ॥ गोवित्रग्रासोपहतोनिंदिताःपितरौगुरुः ॥२२॥
नेशोर्चितोवातिथयोहापिताधिक्कताद्विजाः ॥ मिष्टात्रंपितरौत्यत्त्कासाकंभुक्तंस्त्रियामया ॥२३॥
इतिभात्यन्यथादेद्दक्कष्टंभोमय्युपस्थितं ॥ कृतोनान्योपकारोभूभारोमोघभवोऽभवं ॥२४॥
श्रीगुरुरुवाच ॥ माभीर्दास्येत्रपथ्यंतेदिव्यौषधमहंभिषक् ॥ इत्युक्ताविरतेतस्मिन्दिजएकःसमाययौ ॥२५॥
सायंदेवाभिधःकांचीवासीकौंडिण्यगोत्रजः ॥ सुदीनोयवनाधीनस्तमाहप्रणतंगुरुः ॥२६॥
मर्तुमिच्छतिरुग्णोयंव्यथितोदिव्यमौषधं ॥ दद्मस्मैत्वमपिब्रह्यन्पथ्यंस्वाद्वत्रमर्पय ॥२७॥
सायंदेवउवाच ॥ ॥ मासापक्षेणवाल्पानंभुंक्तआत्यंतिकींव्यथाम् ॥ सतदाप्रोत्यत्रदानाद्ववेद्वत्येतिभातिमे ॥२८॥
श्रीगुरुरुवाच ॥ भिषक्तमोस्मिनाशंक्यंसापूपंदेहिमाषयुक् ॥ परमात्रंचपथ्यंमाभीर्जानेरुक्प्रतिक्रियाम् ॥२९॥
सायंदेवउवाच ॥ तथाकुर्यामपिभवान्सशिष्योंगीकरोतुमे ॥ भिक्षांगृहेऽस्मितेशिष्यःप्रपत्रंशाधिमांगुरो ॥३०॥
इत्युक्तिंसौष्टवौदार्यरम्यांश्रुत्वातथेतितं ॥ उचेततःसशिष्यंतंद्विजोनिन्येनिजालयं ॥३१॥
चित्रितेलंकृतेहेहेरंगवल्यादिरंजिते ॥ स्वासनेषूपवेश्यैतानुपतर्स्थेगनान्वितः ॥३२॥
सूपचारैःप्रपूज्येशंरौद्रैर्मंत्रैश्वपौरुषैः ॥ नीराज्यश्रद्वयागीतस्तोत्रादिभिरतोषयत् ॥३३॥
गुरुपादोदकंतीर्थभक्त्यासंपूज्यमुक्तिदं ॥ पीत्वैनोहारिसस्त्रीकःशिष्यान्सर्वानपूजयत् ॥३४॥
अत्रंचतुर्विधंस्वादुसुरसंगव्यसंयुतम् ॥ प्रादात्प्रकामंसर्वेभ्योमधुरोक्त्यादरेणसः ॥३५॥
भुत्त्कात्रंगुरुपंक्त्यांसभेजेरुग्णोप्यनामयं ॥ नेदंचित्रंहियद्वक्ताघ्रंत्युद्ववमहारुजं ॥३६॥
सततोसारसंसारनिर्विण्णोगुरुदर्शनात् ॥ भूत्वाक्षणादुदासीनःसर्वतोभजदच्युतम् ॥३७॥
द्विजोपिभुक्तानाचांतान्सूपविष्टान्सुगंधिभिः ॥ पत्सेवनैश्वास्यवासैस्तोषयित्वाव्रवीद्रुरुं ॥३८॥
अंदयब्जवंदनात्तेद्यसफलंजन्मकर्ममे ॥ पितरोनुग्रहान्मुक्तास्तत्कृतार्थोस्मिनिर्मलः ॥३९॥
गंगापापंविधुस्तापंदैन्यंकल्पतरुर्हरेत् ॥ वायुस्तूलमिवैतत्तेदर्शनंहरतित्रयम् ॥४०॥
साक्षीसर्वांतस्थस्त्वंपरात्माऽधोक्षजोमलः ॥ नृरुपेणाक्तीणोंसिसाधूस्त्रातुमजोव्ययः ॥४१॥
देहिमेतेमलंदास्यंश्रद्वोपेतंकुलायच ॥ याचेदोभगवत्रेकोममाधिस्तंनिशामय ॥४२॥
यत्रिघ्रोस्मिसवैहिंस्त्रोयवनोहन्तिभूसुरम् ॥ प्रत्यब्दमाह्रयत्यद्यतदर्थमितिशुश्रुम ॥४३॥
श्रीगुरुरुवाच ॥ माभीःक्रूरमपीदानीय्यवनंयाह्यसंशयम् ॥ मुदैष्यस्यर्चितस्तेनतावत्तिष्ठाभिमाशुचः ॥४४॥
इत्याकर्ण्यापशंकंसययौयवनमंजसा ॥ शस्त्रैर्विप्रश्छिनत्तीतिभ्रांतोऽरयवनस्तदा ॥४५॥
तंतुष्टावस्त्रभूषार्थैःप्राहगछसुखंद्विज ॥ सायंदेवोपिवीताधिर्ह्रष्टःश्रीगुरुमाययौ ॥४६॥
सर्पोप्यद्याद्विराजोर्भहरेर्वेनोगुरुप्रियम् ॥ नक्षमोप्यंतकोद्रष्टुंयवनःकिमुताल्पकः ॥४७॥
दासोसीष्टंलभेत्तेमेद्यष्टाद्वैर्दर्शनंभवेत् ॥ द्विजेत्युत्त्कावैद्यनाथंगत्वांतर्दधईश्वरः ॥४८॥
ईद्दश्योलौकिकालीलाःकृताभक्तिविधित्सया ॥ भजेयुर्माकथमपिलोकाइत्याशयोस्यस्तु ॥४९॥
लोकेप्रत्युपकारित्वंसमीक्ष्यभगवान्विभुः ॥ लौकिकानन्दजनकांचमत्कृतिउमिहाकरोत् ॥५०॥
हेतुनानेनतल्लोकाभजंतिभगवत्पदम् ॥ भजनादेवनिर्धूतमलायान्तिंमुमुक्षुताम् ॥५१॥
ततोभ्यासाच्चवैराग्यात्तंध्यायन्तउपासते ॥ महाप्रसादोनेनैवलभंतेसद्रुरोर्नताः ॥५२॥
ऐक्यज्ञानन्तदालब्ध्वामहावाक्येनचात्मनोः ॥ शान्तिंविनिहताविद्यास्तत्संस्थांयांतितेध्रुवां ॥५३॥
प्रसन्नात्मानःप्रशान्तानिर्बन्धादैतवर्जिताः ॥ स्वात्मारामाश्वरंत्यत्रडान्मत्तपिशाचवत् ॥५४॥
स्पर्शेक्षाकीर्तनादीनांसद्रुरोर्महिमात्वियान् ॥ स्नेहाद्देषाद्रयाद्वापिधत्तेयत्रमनोचलम् ॥५५॥
तत्सारुप्यंसपेशकृद्यानात्कीटइवैत्यरम् ॥ इत्याद्यामार्गणोपायाहरेःस्युःसुलभानृणां ॥५६॥
मृग्योसौपुरुषेणैवबुद्यादिगुणहेतुभिः ॥ नानुमानैरतोयुक्तआत्मैवात्मगुरुःकिल ॥५७॥
नामधारकउवाच ॥ भूतेशोन्तर्दधेकस्मात्तेजस्वीभक्तवत्सलः ॥ शिष्यास्तस्थुस्तदाकुत्रतच्छ्रोतुंसादरोस्म्यहम् ॥५८॥
सिद्वउवाच ॥ सर्वेशिष्याभविष्यामइतिमत्वात्रयान्त्यतः ॥ मत्वास्थेयंरहइतिछात्रान्त्सद्रुरुरब्रवीत् ॥५९॥
लब्ध्वाद्विजत्वंसंस्कारैर्ब्रह्यचारीपठन्त्रयीं ॥ द्वादशाद्वंकृतीसूत्रमेखलाजिनदण्डधृक् ॥६०॥
सायंप्रातःसकर्माग्निकार्यंभिक्षांचरन्गुरुं ॥ भदन्भक्त्याऽस्वपत्रह्रियाचितांगुरवेऽर्पयन् ॥६१॥
तद्दत्तभुग्लब्धविद्यःस्त्रायाद्दत्वावरंव्रती ॥ अनाश्रमीनतिष्ठेतभवेत्सप्रत्यवाय्यतः ॥६२॥
स्त्रातकस्तूद्वहेद्वार्यांगृह्यंपरिचरेद्वृही ॥ पोष्यभृद्यज्ञकृद्वेदशास्त्रधर्मपरोभवेत् ॥६३॥
पुत्रार्पितश्रीर्भार्यायुगग्राम्यविषयोवने ॥ यतात्माऽकृष्टपच्याशीयावच्छुद्यंतरंवसेत् ॥६४॥
स्वारोपिताग्रिःसवानप्रस्थोभार्याज्ञयाममः ॥ प्रव्रजेद्यतिधर्मज्ञोविरक्तस्तुकुतोपिहि ॥६५॥
त्रिकालस्त्रायीसंन्यासीन्यस्तसूत्रशिखैषणः ॥ जपभिक्षाटनध्यानशौचार्चनरतोवशी ॥६६॥
स्त्रीकथालौल्ययानाहःस्वापखटास्पृगात्मद्दक् ॥ सद्वेणुमृद्दार्वलाबुमयभाजनदण्डधृक् ॥६७॥
सकृदन्ह्याप्तसद्विक्षाभुक्शान्तस्तत्वचिन्तकः ॥ तीर्थान्यटत्रृतेवर्षाख्यहमेकस्थलेवसन् ॥६८॥
स्थिरीकृतमनाःक्कापिततस्तिष्ठन्सुखीभवेत् ॥ अशक्तस्तुमहाक्षेत्रेहरिंध्यायन्वसेत्सदा ॥६९॥
तस्मात्कृध्वंस्वाश्रमार्हकृत्यंपातोन्यथाभवेत् ॥ इत्युत्त्कान्यान्प्रेरियित्वागृहेभ्योजोब्रवीद्यतीन् ॥७०॥
काशीप्रयागोगयाचश्रीरंगःपुरुषोत्तमः ॥ श्रीशैलोनैमिषारण्य़ंकुरुक्षेत्रंबदर्यपि ॥७१॥
गोकर्णःशडःकर्णश्वकांच्ययोध्याचगोकुलम् ॥ मथुराद्वार्वतीमायावंतिकाकरवीरपूः ॥७२॥
गन्धर्वपूर्हरिहरक्षेत्रसद्देवकन्यका ॥ गुहाश्रमःसेतुबन्धइत्यादिक्षेत्रविस्तरः ॥७३॥
गड्रा .सरस्वत्यर्कोत्थाविपाट्पौष्णीमरुद्दृधा ॥ वितस्तासिक्न्यनेकास्याचन्द्रभागापयस्विनी ॥७४॥
शरावतीमधुमतीरेवागोदामरोद्ववा ॥ सरयूकौशिकीपूर्णाभीमाकृष्णामलापहा ॥७५॥
कावेरीप्रवरातुंगाक्षिप्रातापीचवेदिका ॥ चर्मण्वतीगण्डकीतिपूर्वानद्योनदाअपि ॥७६॥
तत्संगमाअप्यघघ्रास्तीर्थान्यन्यान्यनेकशः ॥ तीर्थानिगुरुसंचाराच्छश्वद्वादशसिन्धुषु ॥७७॥
प्रचरंतितदातास्तुस्वर्णदीस्त्रानपुण्यदाः ॥ कृध्वंस्नानादिविधिवत्सर्वत्रात्रसरःस्वपि ॥७८॥
ग्रीष्मेरजस्वलानद्योयद्दिनेंऽबुनवंतदा ॥ दशाहंनर्तेतीरस्थैःस्नानंमुख्यासुतुत्र्यहम् ॥७९॥
द्युरात्रमपिकूपादौचरित्वैवंततोखिलाः ॥ श्रीशैलंबहुधान्येऽद्वेयातयास्याम्यहंह्यापि ॥८०॥
इत्युत्त्काप्रेरयामासयात्रायाअपितेययुः ॥ तत्रैवसद्रुरुपदपद्मालिरभवंत्वहम् ॥८१॥
॥ क्षेपकौ ॥ यद्वर्जुनाभ्यांविद्योगौप्राहैषप्राग्यथातथा ॥ गुह्यौमेप्राहतेशिष्यविनीतकथयामिते ॥८२॥
इत्युत्त्काप्रणतायोचेसिद्वःशिष्यायसत्तमाः ॥ याभ्यांपरंपुमान्यातिस्वानंदोवैष्णवंपदम् ॥८३॥
इतिश्रीगुरुचरिते० तीर्थयात्रोद्देशोनामनवमोऽध्यायः ॥९॥