मध्यम भागः - अध्यायः १
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
श्रीगणेशाय नमः
अथ ब्रह्माण्डमहापुराणमध्यभागप्रारम्भः ।
शांशपायन उवाच
पादः शेक्तो द्वितीयस्तु अनुषङ्गेन नस्त्वया ।
तृतीयं विस्तरात्पादं सोपोद्धातं प्रवर्त्तय ॥१॥
सूत उवाच
कीर्त्तयिष्ये तृतीयं वः सोपोद्धातं सविस्तरम् ।
पादं समुच्चयाद्विप्रा गदतो मे निबोधत ॥२॥
मनोर्वैवस्वतस्येमं सांप्रतं तु महात्मनः ।
विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः ॥३॥
चतुर्युगैकस प्तत्या संख्यातं पूर्वमेव तु ।
मह देवगणैश्चैव ऋषिभिर्दानवैस्सह ॥४॥
पितृगन्धर्वयक्षैश्च रक्षोभूतमहोरगैः ।
मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ॥५॥
मन्वादिकं भविष्यान्तमाख्यानैर्बहुभिर्युतम् ।
वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ॥६॥
आद्ये मन्वन्तरेऽतीताः सर्गप्रावर्त्तकास्तु ये ।
स्वायंभुवेंऽतरे पूर्वं सप्तासन्ये महर्षयः ॥७॥
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ।
दक्षस्य च ऋषीणां च भृग्वादीनां महौजसाम् ॥८॥
शापान्महेश्वरस्यासीत्प्रादुर्भावो महात्मनाम् ।
भूयः सप्तर्षयस्त्वेवमुत्पन्नाः सप्त मानसाः ॥९॥
पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयंभुवा ।
प्रजासंतानकृद्भिस्तैरुत्पदद्भिर्महात्मभिः ॥१०॥
पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ।
तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम् ॥११॥
समासव्यासयोगाभ्यां यथावदनुपूर्वशः ।
येषामन्वयसंभूतैलरेकोऽयं सचराचरः ।
पुनरापूरितः सर्वो ग्रहनक्षत्रमण्डितः ॥१२॥
ऋषय ऊचुः
कथं सप्तर्षयः पूर्वमुत्पन्नाः सप्त मनसाः ।
पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम ॥१३॥
सूत उवाच
पूर्वं सप्तर्षयः प्रोक्ता ये वै स्वायंभुवेंऽतरे ।
मनोरन्तरमासाद्य पुनर्वैवस्वतं किल ॥१४॥
भवाभिशाप संविद्धा अप्राप्तास्ते तदा तपः ।
उपपन्ना जने लोके सकृदागमनास्तु त ॥१५॥
ऊचुः सर्वे सदान्योन्यं जनलोके महार्षयः ।
एत एव महाभागा वरुणे विततेऽध्वरे ॥१६॥
सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः ।
पितामहात्मजाः सर्वे तन्नः श्रेयो भविष्यति ॥१७॥
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
स्वायंभुवेन्तरे प्राप्ताः सृष्ट्यर्थं ते भवेन तु ॥१८॥
जज्ञिरे ह पुनस्ते वै जनलोकादिहागताः ।
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥१९॥
ब्रह्मणो जुह्वतः शुक्रमग्रौ पूर्वं प्रजेप्सया ।
ऋषयो जज्ञिरे दीर्घे द्वितीयमिति नः श्रुतम् ॥२०॥
भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।
अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः ॥२१॥
तथास्य वितते यज्ञे देवाः सर्वे समागताः ।
यज्ञाङ्गानि च सर्वाणि वषठ्कारश्च मूर्त्तिमान् ॥२२॥
मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः ।
ऋग्वेदश्चाभवत्तत्र यश्च क्रमविभूषितः ॥२३॥
यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः ।
स्थितो यज्ञार्थसंपृक्तः सूक्तब्राह्मणमन्त्रवान् ॥२४॥
सामवेदश्च वृत्ताढ्यः सर्वगेयपुरः सरः ।
विश्वावस्वादिभिः सार्द्धं गन्धर्वैः संभृतोऽभवत् ॥२५॥
ब्रह्मवेदस्तथा घोरैः कृत्वा विधिभिरन्वितः ।
प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ॥२६॥
लक्षणा विस्तराः स्तोभा निरुक्तस्वर भक्तयः ।
आश्रयस्तु वषट्कारो निग्रहप्रग्रहावपि ॥२७॥
दीप्तिमूर्त्तिरिलादेवी दिशश्चसदिगीश्वराः ।
देवकन्याश्च पत्न्यश्च तथा मातर एव च ॥२८॥
आययुः सर्व एवैते देवस्य यजतो मखे ।
मूर्तिमन्तः सुरूपाख्या वरुणस्य वपुर्भृतः ॥२९॥
स्वयंभु वस्तु ता दृष्ट्वा रेतः समपतद्भुवि ।
ब्रह्मर्षिभाविनोर्ऽथस्य विधानाच्च न संशयः ॥३०॥
धृत्वा जुहाव हस्ताभ्यां स्रुवेण परिगृह्य च ।
आस्रवज्जुहुयां चक्रे मन्त्रवच्च पितामहः ॥३१॥
ततः स जनयामास भूतग्रामं प्रजापतिः ।
तस्यार्वाक्तेजसश्चैव जज्ञे लोकेषु तैजसम् ॥३२॥
तमसा भावि याप्यत्वं यथा सत्त्वं तथा रजः ।
आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ॥३३॥
शुक्रे हु तेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः ।
ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः ॥३४॥
हुते चाग्नौ सकृच्छुक्रे ज्वालाया निसृतः कविः ।
हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिर्गतम् ॥३५॥
भृगुस्त्वमिति चोवाच यस्मात्तस्मात्स वै भृगुः ।
महादेवस्तथोद्भूतो दृष्ट्वा ब्रह्माणमब्रवीत् ॥३६॥
ममैष पुत्रकामस्य दीक्षितस्य त्वया प्रभो ।
विजज्ञे प्रथमं देव मम पुत्रो भवत्वयम् ॥३७॥
तथेति समनुज्ञातो महादेवः स्वयंभुवा ।
पुत्रत्वे कल्पयामास महादेव स्तदा भृगुम् ॥३८॥
वारुणा भृगवस्तस्मात्तदपत्यं च स प्रभुः ।
द्वितीयं च ततः शुक्रमङ्गारेष्वजुहोत्प्रभुः ॥३९॥
अङ्गारेष्वङ्गिरोऽङ्गानि संहतानि ततोङ्गिराः ।
संभूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत् ॥४०॥
रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति ।
एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः ॥४१॥
जग्रा हाग्निस्त्वङ्गिरस आग्नेया इति नः श्रुतम् ।
षट्कृत्वा तु पुनः शुक्रे ब्रह्मणा लोककारिणा ॥४२॥
हुते समभवंस्तस्मिन्यद्ब्रह्माण इति श्रुतिः ।
मरीचिः प्रथमं तत्र मरीचिभ्यः समुत्थितः ॥४३॥
क्रतौ तस्मिन्क्रतुर्जज्ञे यतस्तस्मात्स वै क्रतुः ।
अहं तृतीय इत्यत्रिस्तस्मादत्रिः स कीर्त्यते ॥४४॥
केशैस्तु निचितैर्भूतः पुलस्त्यस्तेन स स्मृतः ।
केशैर्लंबैः समुद्भूतस्तस्मात्स पुलहः स्मृतः ॥४५॥
वसुमध्यात्समुत्पन्नो वशी च वसुमान् स्वयम् ।
वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते ब्रह्मवादिभिः ॥४६॥
इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ।
लोकस्य सन्तानकरा यैरिमा वर्द्धिताः प्रजाः ॥४७॥
प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणःसुताः ।
अपरे पितरो नाम एतैरेव महर्षिभिः ॥४८॥
उत्पादिता देवगणाः सप्त लोकेषु विश्रुताः ।
अजेयाश्च गणाः सप्त सप्तलोकेषु विश्रुताः ॥४९॥
मारीया भार्गवाश्चैव तथैवाङ्गिरसोऽपरे ।
पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः ॥५०॥
आत्रेयाश्च गणाः प्रोक्ता पितॄणां लोकवर्द्धनाः ।
एते समासतः ख्याताः पुनरन्ये गणास्त्रयः ॥५१॥
अमर्त्ताश्चाप्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः ।
तेषां राजायमो देवो यमैर्विहतकल्मषः ॥५२॥
अपरं प्रजानां यतयस्ताञ्छृमुध्वमतन्द्रिताः ।
कश्यपः कर्दमः शेषो विक्रान्तः सुश्रवास्तथा ॥५३॥
बहुपुत्रः कुमारश्च विवस्वान्स शुचिव्रतः ।
प्रचेतसोरिष्टनेमिर्बहुलश्च प्रजापतिः ॥५४॥
इत्येवमादयोऽन्येऽपि बहवो वै प्रजेश्वराः ।
कुशोच्चया वालखिल्याः सभूताः परमर्षयः ॥५५॥
मनोजवाः सर्वगताः सर्वभोगाश्च तेऽभवन् ।
जाताश्च भस्मनो ह्यन्ये ब्रह्मर्षिगणसंमताः ॥५६॥
वैखानसा मुनिगणास्तपः श्रुतपरायणाः ।
नस्तो द्वावस्य चोत्पन्नावश्विनौ रूपसंमतौ ॥५७॥
विदुर्जन्मर्क्षरजसो तथा तन्नेत्रसंचरात् ।
अन्ये प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे ॥५८॥
ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः ।
अयने ऋतवो मासर्द्धमासाः पक्षसंधयः ॥५९॥
वत्सरा ये त्वहोरात्राः पित्तं ज्योतिश्च दारुणम् ।
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम् ॥६०॥
तत्तैजसमिति प्रोक्तं धूमाश्च पशवः स्मृताः ।
येऽर्चिषस्तस्य ते रुद्रास्तथादित्याः समृद्गताः ॥६१॥
अङ्गारेभ्यः समुत्पन्ना अर्चिषो दिव्यमानुषाः ।
आदिभूतोऽस्य लोकस्य ब्रह्मा त्वं ब्रह्मसंभवः ॥६२॥
सर्वकामदमित्याहुस्तथा वाक्यमुदाहरन् ।
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसादितः ॥६३॥
इमेवै जनयिष्यन्ति प्रजाः सर्वाः प्रचेश्वराः ।
सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः ॥६४॥
त्वत्प्रसादादिमांल्लोकान्धारयेयुरिमाः क्रियाः ।
त्वद्वंशवर्द्धनाः शश्वत्तव तेजोविवर्द्धनाः ॥६५॥
भवेयुर्वेदविद्वांसः सर्वे वाक्पतयस्तथा ।
वेदमन्त्रधराः सर्वे प्रजापतिसमुद्भवाः ॥६६॥
श्रयन्तु ब्रह्मसत्यं तु तपश्च परमं भुवि ।
सर्वे हि वयमेते च तवैव प्रसवः प्रभो ॥६७॥
ब्रह्म च ब्रह्माणाश्चैव लोकश्चैव चराचराः ।
मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह ॥६८॥
अपत्यानीति संचिन्त्य तेऽपत्ये कामयामहे ।
तस्मिन् यज्ञे महाभागा देवाश्च ऋषयश्च ये ॥६९॥
एते त्वद्वंशसंभूताः स्थानकालाभिमानिनः ।
तव तेनैव रूपेण स्थापयेयुरिमाः प्रजाः ॥७०॥
युगादिनिधनाश्चापि स्थापयन्तु इति द्विजाः ।
ततोऽब्रवील्लोकगुरुः परमित्यभिधार यन् ॥७१॥
एतदेव विनिश्चित्य मया सृष्टा न संशयः ।
भवतां वंशसंभूताः पुनरेते महर्षयः ॥७२॥
तेषां भृगोः कीर्त्तयिष्ये वंशं पूर्वं महात्मनः ।
विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः ॥७३॥
भार्ये भृगोरप्रतिमे उत्तमाभिजने शुभे ।
हिरण्यकशिपो कन्या दिव्या नाम परिश्रुता ॥७४॥
पुलोम्नश्चव पौलोमी दुहिता वरवर्णिनी ।
भृगोस्त्वजनयद्दिव्या पुत्रं ब्रह्मविदां वरम् ॥७५॥
देवासुराणामाचार्यं शुक्रं कविवरं ग्रहम् ।
शुक्र एवोशना नित्यमतः काव्योऽपि नामतः ॥७६॥
पितॄणां मानसी कन्या सोमपानां यशस्विनी ।
शुक्रस्य भार्या गौर्नाम विजज्ञे चतुरः सुतान् ॥७७॥
त्वष्टा चैव वरत्री च शण्डामकारै च तावुभौ ।
तेजसादित्यसंकाशा ब्रह्मकल्पाः प्रभावतः ॥७८॥
रजतः पृथुरश्मिश्च विद्वान्यश्च बृहङ्गिराः ।
वरत्रिणः सुता ह्येते ब्रह्मिष्ठा दैत्ययाजकाः ॥७९॥
इज्याधर्मविनाशार्थं मनुमेत्याभ्ययाजयन् ।
निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमाब्रवीत् ॥८०॥
एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् ।
श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमन् ॥८१॥
तिरोभूतेषु तेष्विन्द्रो मनुपत्नीमचेतनाम् ।
ग्रहेण मोचयित्वा च ततश्चानुससार ताम् ॥८२॥
तत इन्द्रविनाशाय यतमानान्मुनींस्तु तान् ।
तानागतान्पुनर्दृष्ट्वा दुष्टानिन्द्रो विहस्य तु ॥८३॥
ततस्ता नदहत्क्रुद्धो वेद्यर्द्धे दक्षिणे ततः ।
तेषां तु धृष्यमाणानां तत्र शालावृकैः सह ॥८४॥
शीर्षाणि न्यपतंस्तानि खर्जूरा ह्यभवंस्ततः ।
एवं वरत्रिणः पुत्रा इन्द्रेण निहताः पुरा ॥८५॥
जयन्त्यां देवयानी तु शुक्रस्य दुहिताभवत् ।
त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान् ॥८६॥
यशोधरायामुत्पन्नो वैरोचन्यां महायशाः ।
विश्वरूपानुजश्चैव विश्वकर्मा च यः स्मृतः ॥८७॥
भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः ।
दिव्यानुसुषुवे कन्या काव्यस्यैवानुजा प्रभोः ॥८८॥
भुवनोभावनश्चैव अन्त्यश्चान्त्यायनस्तथा ।
क्रतुः शुचिः स्वमूर्द्धा च व्याजश्च वसुदश्च यः ॥८९॥
प्रभवश्चाव्ययश्चैव द्वादशोऽधिपतिः स्मृतः ।
इत्येते भृगवो देवाः स्मृता द्वादश यज्ञियाः ॥९०॥
पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं द्विजम् ।
व्यादितः सोऽष्टमे मासिगर्भः क्रूरेण रक्षसा ॥९१॥
च्यवनाच्च्यवनः सोऽथ चेतनात्तु प्रचेतनः ।
प्रचेताः श्च्यवनः क्रोधाद्दग्धवान्पुरुषादकान् ॥९२॥
जनयामास पुत्रौ द्वौ सुकन्यायां सभार्गवः ।
आप्रवानं दधीचं च तावुभौ साधुसंमतौ ॥९३॥
सारस्वतः सरस्वत्यां दधीचस्योदपद्यत ।
ऋची पत्नी महाभागा अप्रवानस्य नाहुषी ॥९४॥
तस्यामौर्व ऋषिर्जज्ञे ऊरुं भित्तवा महायशाः ।
और्वस्यासीदृचीकस्तु दीप्तोऽग्निसमतेजसा ॥९५॥
जमदग्निरृचीकस्य सत्यवत्यामजायत ।
भृगोश्चरुविपर्यासे रौद्रवैष्णवयौः पुरा ॥९६॥
जमनाद्वैष्मवस्याग्नेर्जमदग्निरजायत ।
रेणुकाजमदग्नेश्च शक्रतुल्यपराक्रमम् ॥९७॥
ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ।
ओर्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ॥९८॥
तेषां पुत्र सहस्राणि भार्गवाणां परस्परात् ।
ऋष्यतरेषु वै बाह्या बहवो भार्गवाः स्मृताः ॥९९॥
वत्सा विदा आर्ष्टिषेणा यस्का वैन्याश्च शौनकाः ।
मित्रेयुः सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ॥१००॥
शृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः ।
यस्यान्ववाये संभूता भारद्वाजाः सगौतमाः ॥१०१॥
देवाश्चाङ्गिरसो मुख्यास्त्त्विषिमन्तो महौजसः ।
सुरूपा चैव मारीची कार्दमी च तथा स्वराट् ॥१०२॥
पथ्या च मानवी कन्या तिस्रो भार्या ह्यथर्वणः ।
अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः ॥१०३॥
उत्पन्ना महता चैव तपसा भावितात्मनः ।
बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट् ॥१०४॥
अयास्यं वामदेवं च उतथ्यमुशितिं तथा ।
धृष्णिः पुत्रस्तु पथ्यायाः संवर्त्तश्चैव मानसः ॥१०५॥
कितवश्चाप्ययास्यस्य शरद्वांश्चप्युतथ्यजः ।
अथोशिजो दीर्घतमा बृहदुक्थो वामदेवजः ॥१०६॥
धृष्णेः पुत्रः सुधन्वा तु ऋषभश्च सुधन्वनः ।
रथकाराः स्मृता देवा ऋभवो ये परिश्रुताः ॥१०७॥
बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः ।
बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट् ॥१०८॥
औरसांगिरसः पुत्राः सुरूपायां विजज्ञिरे ।
आधार्यायुर्द्दनुर्दक्षो दमः प्राणस्त थैव च ॥१०९॥
हविष्यांश्च हविष्णुश्च ऋतः सत्यश्च ते दश ।
अयास्याश्चप्युतथ्याश्च वामदेवास्तथौशिजाः ॥११०॥
भारद्वाजाः सांकृतयो गर्गाः कण्वरथीतराः ।
मुद्गला विष्णुवृद्धाश्च हरिताः कपयस्तथा ॥१११॥
तथा रूक्षभरद्वाजा आर्षभाः कितवस्तथा ।
एते चाङ्गिरसां पक्षा विज्ञेया दश पञ्च च ॥११२॥
ऋष्यन्तरेषु वै बाह्या बहवोङ्गिरसः स्मृताः ।
मरीचेरपि वक्ष्यामि भेद मुत्तमपूरुषम् ॥११३॥
यस्यान्ववाये संभूतं जगत्स्थावरजङ्गमम् ।
मरीचिरापश्चकमे नाभिध्यायन्प्रजेप्सया ॥११४॥
पुत्रः सर्वगुणोपेतः प्रजावान्प्रभवेदिति ।
संयुज्यात्मानमेवन्तु तपसा भावितः प्रभुः ॥११५॥
आहताश्च ततः सर्वा आपः समभवंस्तदा ।
तासु प्रणिहितात्मानमेकं सोऽजनयत्प्रभुः ॥११६॥
पुत्रमप्रतिमं नाम्नारिष्टनेमिं प्रजापतिम् ।
पुत्रं मरीचिस्तपसि निरतः सोऽप्स्वतीतपत् ॥११७॥
प्रध्याय हि सतीं वाचं पुत्रार्थी सरिरे स्थितः ।
सप्तवर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ॥११८॥
कश्यपः सवितुर्विद्वांस्तेजसा ब्रह्मणा समः ।
मन्वन्तरेषु सर्वेषु ब्रह्मणोंऽशेन जायते ॥११९॥
कन्यानिमित्तमत्युक्तो दक्षेण कुपितः प्रभुः ।
अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ॥१२०॥
हास्ये कशिर्हि विज्ञेयो वाङ्मनः कश्यमुच्यते ।
कश्यं मद्यं स्मृतं विप्रैः कश्यपानां तु कश्यपः ॥१२१॥
कशेति नाम यद्वाचो वाचा क्रूरमुदात्दृतम् ।
दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत् ॥१२२॥
तस्माच्च कश्यपायोक्तो ब्रह्मणा परमेष्ठिना ।
तस्मै प्राचेतसो दक्षः कन्यास्ताः प्रत्यपादयत् ॥१२३॥
सर्वाश्च ब्रह्मवादिन्यः सर्वा वै लोकमातरः ।
इत्येतमृषिसर्गं तु पुण्यं यो वेद वारुणम् ॥१२४॥
आयुष्मान्पुण्यवाञ्छुद्धः सुखमाप्नोति शाश्वतम् ।
धारणाच्छ्रवणाद्वापि सर्वपापैः प्रमुच्यते ॥१२५॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे ऋषिसर्गवर्णनं नाम प्रथमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP