मध्यम भागः - अध्यायः २१
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
समाप्तश्चायं श्राद्धकल्पः ।
वसिष्ठ उवाच
इत्थं प्रवर्त्तमानस्य जमदग्नेर्महात्मनः ।
वर्षाणि कतिचिद्राजन्व्यतीयुरमितौजसः ॥१॥
रामोऽपि नृपशार्दूल सर्वधर्मभृतां वरः ।
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥२॥
पित्रोश्चकार शुश्रूषां विनीतात्मा महामतिः ।
प्रीतिं च निजचेष्टाभिरन्वहं पर्यवर्त्तयत् ॥३॥
इत्थं प्रवर्त्तमानस्य वर्षाणि कतिचिन्नृप ।
पित्रोः शुश्रूषयानैषीद्रामो मतिमतां वरः ॥४॥
स कदाचिन्महातेजाः पितामह गुहं प्रति ।
गन्तुं व्यवसितो राजन्दैवेन च नियोजितः ॥५॥
निपीड्य शिरसा पित्रोश्चरणौ भृगुपुङ्गवः ।
उवाच प्राञ्जलिर्भूतवा सप्रश्रयमिदं वचः ॥६॥
कञ्चिदर्थमहं तात मातरं त्वां च साम्प्रतम् ।
विज्ञापयितुमिच्छामि मम तच्छ्रोतुमर्हथः ॥७॥
पितामहमहं द्रष्टुमुत्कण्ठितमनाश्चिरम् ।
तस्मात्तत्पार्श्वमधुना गमिष्ये वामनुज्ञया ॥८॥
आहूतश्चासकृत्तात सोत्कण्ठं प्रीयमाणया ।
पितामह्या बहुमुखैरिच्छन्त्या मम दर्शनम् ॥९॥
पितॄन्पितामहस्यापि प्रियमेव प्रदर्शनम् ।
सदीयं तेन तत्पार्श्वं गन्तुं मामनुजानत ॥१०॥
वसिष्ठ उवाच
इति तस्य वचः श्रुत्वा संभ्रान्तं समुदीरितम् ।
हर्षेण महता युक्तौ साश्रुनेत्रौ बभूवतुः ॥११॥
तमालिङ्ग्य महाभागं मूर्ध्न्युपाघ्राय सादरम् ।
अभिनन्द्याशिषा तात ह्युभौ ताविदमाहतुः ॥१२॥
पितामहगृहं तात प्रयाहि त्वं यथासुखम् ।
पितामहपितामह्योः प्रीतये दर्शनाय च ॥१३॥
तत्र गत्वा यथान्यायं तं शुश्रूषा परायणः ।
कञ्चित्कालं तयोर्वत्स प्रीतये वस तद्गृहे ॥१४॥
स्थित्वा नातिचिरं कालं तयोर्भूयोऽप्यनुशय ।
अत्रागच्छ महाभाग क्षेमेणास्मद्दिदृक्षया ॥१५॥
क्षणार्द्धमपि शक्ताः स्थो न विना पुत्रदर्शनम् ।
तस्मात्पितामह गृहे न चिरात्स्थातुमर्हसि ॥१६॥
तदाज्ञयाथ वा पुत्र प्रपितामहसन्निधिम् ।
गतोऽपि शीघ्रमागच्छ क्रमेण तदनुज्ञया ॥१७॥
वसिष्ठ उवाच
इत्युक्तस्तौ परिक्रम्य प्रणम्य च महामतिः ।
पितरावप्यनुज्ञाप्य पितामहगृहं ततः ॥१८॥
स गत्वा भृगुवर्यस्य ऋचीकस्य महात्मनः ।
प्रविवेशाश्रमं रामो मुनिशिष्योपशोभितम् ॥१९॥
स्वाध्यायघोषैर्विपुलैः सर्वतः प्रतिनादितम् ।
प्रशान्तवैर सत्त्वाढ्यं सर्वसत्त्वमनोहरम् ॥२०॥
स प्रविश्यश्रमं रम्यमृचीकं स्थितमासने ।
ददर्श रामो राजेन्द्र स पितामहमग्रतः ॥२१॥
जाज्वल्यमानं तपसा धिष्ण्यस्थमिव पावकम् ।
उपासितं सत्यवत्या यथा दक्षिणायऽध्वरम् ॥२२॥
स्वसमीपमुपायान्तं राममालोक्य तौ नृप ।
सुचिरं तं विमर्शेतां समाज्ञापूर्वदर्शनौ ॥२३॥
कोऽयमेष तपोराशिः सर्वलत्रणपूजितः ।
बालोऽयं बलवान्भातिगांभीर्यात्प्रश्रयेण च ॥२४॥
एवं तयोश्चिन्तयतोः सहर्षं हृदि कौतुकात् ।
आससाद शनै रामः समीपे विनयान्वितः ॥२५॥
स्वनामगोत्रे मतिमानुक्त्वा पित्रोर्मुदान्वितः ।
संस्पृशंश्चरणौ मूर्ध्ना हस्ताभ्यां चाभ्यवादयत् ॥२६॥
ततस्तौ प्रीतमनसौ समुथाप्य च सत्तमम् ।
आशीर्भिरभिनन्देतां पृथक्पृथगुभावपि ॥२७॥
तमाश्लिष्याङ्कमारोप्य हर्णाश्रुप्लुतलोचनौ ।
वीक्षन्तौ तन्मुखांभोजं परं हर्षमवापतुः ॥२८॥
ततः सुखोपविष्टं तमात्मवंशसमुद्वहम् ।
अनामयमपृच्छेतां तावुभौ दंपती तदा ॥२९॥
पितरौ ते कुशलिनो वत्स किंभ्रातरस्तथा ।
अनायासेन ते वृत्तिर्वर्तते चाथ कर्हिचित् ॥३०॥
समस्ताभ्यां ततो राजन्नाचचक्षे यथोदितः ।
तथा स्वानुगतं पित्रोर्भ्रातॄणां चैव चेष्टितम् ॥३१॥
एवं तयोर्महाराज सत्प्रीतिजनितैगुणैः ।
प्रीयमाणोऽवसद्रामः पितुः पित्रोर्न्निवेशने ॥३२॥
स तस्मिन्सर्वभूतानां मनोनयननन्दनः ।
उवास कतिचिन्मासांस्तच्छुश्रूषापरायणः ॥३३॥
अथानुज्ञाप्य तौ राजन्भृगुवर्यो महामनाः ।
पितामहगुरोर्गन्तुमियेषाश्रयमाश्रमम् ॥३४॥
स ताभ्यां प्रीतियुक्ताभ्यामाशीर्भिरभिनन्दितः ।
यथा चाभ्यां प्रदिष्टेन यया वौर्वाश्रमं प्रति ॥३५॥
तं नमस्कृत्य विधिवच्च्यवनं च महातपाः ।
सप्रहर्षं तदाज्ञातः प्रययावाश्रमं भृगोः ॥३६॥
स गत्वामुनिमुख्यस्य भृगोराश्रममण्डलम् ।
ददर्श शान्तचेतोभिर्मुनिभिः सर्वतो वृतम् ॥३७॥
सुस्निग्धशीतलच्छायैः सर्वर्तुकगुणान्वितैः ।
तरुभिः संवृतं प्रीतः फलपुष्पोत्तरान्वितैः ॥३८॥
नानाखगकुलारावैर्मनःश्रोत्रसुखावहैः ।
ब्रह्मघोषैश्च विविधैः सर्वतः प्रतिनादितम् ॥३९॥
समन्त्राहुतिहोमोत्थधूमगन्धेन सर्वतः ।
निरस्तनिखिलाघौघं वनान्तरविसर्पिणा ॥४०॥
समित्कुशाहरैर्दण्डमेखलाजिनमण्डितैः ।
अभितः शोभितं राजन्रम्यैर्मुनिकुमारकैः ॥४१॥
प्रसूनजलसंपूर्मपात्रहस्ताभिरन्तरा ।
शोभितं मुनिकल्याभिश्चरन्तीभिरितस्ततः ॥४२॥
सपोतहरिणीयूथैर्विस्रंभादविशङ्किभिः ।
उटजाङ्गणपर्यन्ततरुच्छायास्वधिष्ठितम् ॥४३॥
रोमन्थतः परामृष्टियूथ साक्षिकमुत्प्रदैः ।
प्रारब्धताण्डवं केकीमयूरैर्मधुरस्वरैः ॥४४॥
प्रविकीर्णकणोद्देशं मृगशब्दैः समीपगैः ।
अनालीढातपच्छायाशुष्यन्नीवारराशिभिः ॥४५॥
हूयमानानलं काले पूज्यमानातिथिव्रजम् ।
अभ्यस्यमानच्छन्दौघं चिन्त्यमानगमोदितम् ॥४६॥
पठ्यमानाखिलस्मार्त्तं श्रौतार्थप्रविचारणम् ।
प्रारब्धपितृदेवेज्यं सर्वभूतमनोहरम् ॥४७॥
तपस्विजनभूयिष्ठमाकापुरुषसेवितम् ।
तपोवृद्धिकरं पुण्यं सर्वसत्त्वसुखास्पदम् ॥४८॥
तपोधनानन्दकरं ब्रह्मलोकमिवापरम् ।
प्रसूनसौरभभ्राम्यन्मधुपारावनादितम् ॥४९॥
सर्वतो वीज्यमानेन विविधेन नभस्वता ।
एवंविधगुणोपेतं पश्यन्नाश्रममुत्तमम् ॥५०॥
प्रविवेश विनीतात्मा सुकृतीवामरालयम् ।
संप्रविश्यश्रमोपान्तं रामः स्वप्रपितामहम् ॥५१॥
ददर्श परितो राजन्मुनिशिष्यशतावृतम् ।
व्याख्यानवेदिकामध्ये निविष्टं कुशविष्टरे ।
सितश्मश्रुजटाकूर्चब्रह्मसूत्रोपशोभितम् ॥५२॥
वामेतरोरुमध्यास्त वामजङ्घेन जानुना ॥५३॥
योगपट्टेन संवीतस्वदेहमृषिपुङ्गवम् ।
व्याख्यानमुद्राविलसत्सव्यपाणितलांबुजम् ॥५४॥
योगपट्टोपरिन्यस्तविभ्राजद्वामपाणिकम् ।
सम्यगारण्यवाक्यानां सूक्ष्मतत्त्वार्थसंहतिम् ॥५५॥
विवृत्य मुनिमुख्येभ्यः श्रावयन्तं तपोनिधिम् ।
पितुः पितामहं द्दष्ट्वा रामस्तस्य महात्मनः ॥५६॥
शनैरिवमहाराज समीपं समुपागमत् ।
तमागतमुपालक्ष्य तत्प्रभावप्रधर्षिताः ॥५७॥
शङ्कामवापुर्मुनयो दूरादेवाखिला नृप ।
तावदूभृगुरमेयात्मा तदागमनतोषितः ॥५८॥
निवृत्तान्यकथालापस्तं पश्यन्नास पार्थिव ।
रामोऽपि तमुपागम्य विनयावनताननः ॥५९॥
अवन्दत यथान्ययमुपेन्द्र इव वेधसम् ।
अभिवाद्य यथान्यायं ख्यातिं च विनयान्वितः ॥६०॥
तांश्च संभावयामास मुनीन्रामोयथावयः ।
तैश्च सर्वैर्मुदोपेतैराशीर्भिरभिवर्द्धितः ॥६१॥
उपाविवेश मेधावी भूमौ तेषामनुज्ञया ।
उपविष्टं ततो राममाशीर्भिरभिनन्दितम् ॥६२॥
पप्रच्छकुशलप्रश्नं तमालोक्य भृगुस्तदा ।
कुशलं खलु ते वत्स पित्रोश्च किमनामयम् ॥६३॥
भ्रातॄणां चैव भवतःपितुः पित्रोस्तथैव च ।
किमर्थमागतोऽत्र त्वमधुनामम सन्निधिम् ॥६४॥
केनापि वा त्वमादिष्टः स्वयमेवाथवागतः ।
ततोरामो यथान्यायं तस्मै सर्वमशेषतः ॥६५॥
कथयामास यत्पृष्टं तदा तेन महात्मना ।
पितुर्मातुश्च वृत्तान्त भ्रातॄणां च महात्मनाम् ॥६६॥
पितुः प्रित्रोश्चकौशल्य दर्शनं च तयोर्नृप ।
एतदन्यच्च सकलं भृगोः सप्रश्रयं मुदा ॥६७॥
न्यवेदयद्यथान्यायमात्मनश्च समीहितम् ।
श्रुत्वैतदखिलं राजन्रामेण समुदीरितम् ॥६८॥
तं च दृष्ट्वा विशेषेण भृगुः प्रीतोऽभ्यनन्दत ।
एवं तस्य प्रियं कुर्वन्नुत्कृष्टैरात्मकर्मभिः ॥६९॥
तत्राश्रमेऽवसद्रामो दिनानि कतिचिन्नृप ।
ततः कदाचिदेकान्ते रामं मुनिवरोत्तमः ॥७०॥
वत्सागच्छेति तं राजन्नुपाह्वयदुपह्वरे ।
सोऽभिगम्य तमासीनमभिवाद्य कृताञ्जलिः ॥७१॥
तस्थौ तत्पुरतो रामः सुप्रीतेनान्तरात्मना ।
आशीर्भिरभिनन्द्याथ भृगुस्तं प्रीत मानसः ॥७२॥
प्राह नाधिगताशङ्कं राममालोक्य सादरम् ।
श्रुणु वत्स वचो मह्य यत्त्वां वक्ष्यामि सांप्रतम् ॥७३॥
हितार्थं सर्वलोकानां तव चास्माकमेव च ।
गच्छ पुत्र ममादेशाद्धिमवन्तं महागिरिम् ॥७४॥
अधुनैवाश्रमादस्मात्तपसे धृतमानसः ।
तत्रगत्वा महाभाग कृत्वाश्रमापदं शुभम् ॥७५॥
आराधय महादेवं तपसा नियमेन च ।
प्रीतिमुत्पाद्य तस्य त्वं भक्त्यानन्यगया चिरात् ॥७६॥
श्रेयो महदवाप्नोषि नात्र कार्या विजारणा ।
तरसा तव भक्त्या च प्रीतो भवति शङ्करः ॥७७॥
करिष्यति च ते सर्वं मनसा यद्यदिच्छसि ।
तुष्टे तस्मिञ्जगन्नाथे शङ्करे भक्तवत्सले ॥७८॥
अस्त्रग्राममशेषं त्वं वणु पुत्र यथेप्सितम् ।
त्वया हितार्थं देवानां करणीयं सुदुष्करम् ॥७९॥
विद्यतेऽभ्यधिकं कर्म शस्त्रसाध्यमनेकशः ।
तस्मात्त्वं देवदेवेशं समाराधय शङ्करम् ॥८०॥
भक्त्या परमया युक्तस्ततोऽभीष्टमवाप्स्यसि ॥८१॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे एकविंशति तमौध्यायः॥ २१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP