मध्यम भागः - अध्यायः ४६
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
वसिष्ठ उवाच
सगच्छन्पथि शुश्राव मुनिभ्यस्त त्त्वमादितः ।
राजपुत्रव्यवसितं पित्रौः स्वर्गतिमेव च ॥१॥
पितुस्तु जीवहरणं शिरोहरणमेव च ।
तन्मृतेरेव मरणं श्रुत्वा मातुश्च केवलम् ॥२॥
विललाप महाबाहुर्दुःखशोकसमन्वितः ।
तमथाश्वासयामास तुल्यदुःखोऽकृतव्रणः ॥३॥
हेतुभिः शास्त्रनिर्दिष्टैर्वीर्यसामर्थ्यसूचकैः ।
युक्तिलौकिकदृष्टान्तैस्तच्छोकं संव्यशामयत् ॥४॥
सांत्वितस्तेन मैधावी धृतिमालंब्य भार्गवः ।
प्रययौ सहितः सख्या भ्रातॄणां तु दिदृक्षया ॥५॥
स तान्दृष्ट्वाभिवाद्यैतान्दुःखितान्दुःखकर्शितः ।
शोकामषयुतस्तैश्च सह त्स्थौ दिनत्रयम् ॥६॥
ततोऽस्य सुमाहान्क्रोधः स्मरतो निधनं पितुः ।
बभूव सहसा सर्वलोकसंहरणक्षमः ॥७॥
मातुरर्थे कृतां पूर्वं प्रतिज्ञां सत्यसंगरः ।
दृढीचकार हृदये सर्वक्षत्रवधोद्यतः ॥८॥
क्षत्रवंश्यानशेषेण हत्वा तद्देहलोहितैः ।
करिष्ये तर्पणं पित्रोरिति निश्चित्य भार्गवः ॥९॥
भ्रातॄणां चैव सर्वेषामाख्यायात्मसमीहितम् ।
प्रययौ तदनुज्ञातः कृत्वा संस्थांपितुः क्रियाम् ॥१०॥
अकृतव्रणसंयुक्तः प्राप्य माहिष्मतीं ततः ।
तद्बाह्योपवने स्थित्वा सस्मार स महोदरम् ॥११॥
स तस्मै रथचापाद्यं सहसाश्वसमन्वितम् ।
प्रेषयामास रामाय सर्वसंहननानि च ॥१२॥
रामोऽपि रथमारुह्य सन्नद्धः सशरं धनुः ।
गृहीत्वापूरयच्छङ्खं रुद्रदत्तममित्रजित् ॥१३॥
ज्याघोषं च चकारोच्चै रोदसी कंपयन्निव ।
सहसाहोथ सारथ्यं चक्रे सारथिनां वरः ॥१४॥
रथज्याशङ्खनादैस्तु वधात्पित्रोरमर्षिणः ।
तस्याभून्नगरी सर्वा संक्षुब्धाश्च नरद्विपाः ॥१५॥
रामं त्वागतमाज्ञाय सर्वक्षत्रकुलान्तकम् ।
संक्षुब्धाश्चक्रुरुद्योगं संग्रामाय नृपात्मजाः ॥१६॥
अथ पञ्चरथाः शुराः शूरसेनादयो नृप ।
रामेण योद्धुं सहिता राजभिश्च क्रुरुद्यमम् ॥१७॥
चतुरङ्गवलोपेतास्ततस्ते क्षत्रियर्षभाः ।
राममासादयामासुः पतङ्गा इव पावकम् ॥१८॥
निवार्य तानापततो रथेनैकेन भार्गवः ।
युयुधे पार्थिवैः सर्वैः समरेऽमितविक्रमः ॥१९॥
ततः पुनरभूद्युद्धं रामस्य सह राजभिः ।
जघान यत्र संक्रुद्धो राज्ञां शतमुदारधीः ॥२०॥
ततः स शूरसेनादीन्हत्वा सबलवाहनान् ।
त्रणेन पातयामास क्षितौ क्षत्रियमण्डलम् ॥२१॥
ततस्ते भग्नसंकल्पा हतस्वबलवाहनाः ।
हतशिष्टा नृपतयो दुद्रुवुः सर्वतोदिशम् ॥२२॥
एवं विद्राव्य सैन्यानि हत्वा जित्वाथ संयुगे ।
जघान शतशो राज्ञः शूराञ्छरवराग्निना ॥२३॥
ततः क्रोधपरीतात्मा दग्धुकामोऽखिलां पुरीम् ।
उदैरयद्भार्गवोऽस्त्रं कालाग्निसदृशप्रभम् ॥२४॥
ज्वालाकवलिताशेषपुरप्राकारमालिनीम् ।
पुरीं सहस्त्यश्वनरां स ददाहास्त्रपावकः ॥२५॥
दह्यमानां पुरीं दृष्ट्वा प्राणत्राणपरायणः ।
जीवनाय जगामाशु वीतिहोत्रो भयातुरः ॥२६॥
अस्त्राग्निना पुरीं सर्वां दग्ध्वा हत्वा च शात्रवान् ।
प्राशयानोऽखिलान् लोकान् साक्षात्काल इवान्तकः ॥२७॥
अकृतव्रणसंयुक्तः सहसाहेन चान्वितः ।
जगामरथघोषेण कंपयन्निव मेदिनीम् ॥२८॥
विनिघ्नन् क्षत्रियान्सर्वान् संशाम्य पृथिवीतले ।
महेन्द्राद्रिं ययौ रामस्तपसे धतमानसः ॥२९॥
तस्मिन्नष्टचतुष्कं च यावत्क्षत्रसमुद्गमम् ।
प्रत्येत्य भूयस्तद्धत्यै बद्धदीक्षो धृतव्रतः ॥३०॥
क्षत्रक्षेत्रेषु भूयश्च क्षत्रमुत्पादितं द्विजैः ।
निजघान पुनर्भूमौ राज्ञ शतसहस्रशः ॥३१॥
वर्षद्वयेन भूयोऽपि कृत्वा निःक्षत्रियां महीम् ।
षट्चतुष्टयवर्षान्तं तपस्तेपे पुनश्च सः ॥३२॥
भूयोऽपि राजन् संबुद्धं क्षत्रमुत्पादितं द्विजैः ।
जघान भूमौ निःशेषं साक्षात्काल इवान्तकः ॥३३॥
कालेन तावता भूयः समुत्पन्नं नृपात्त्वयम् ।
निघ्नंश्चचार पृथिवीं वर्षद्वयमनारतम् ॥३४॥
अलं रामेण राजेन्द्र स्मरता निधनं पितुः ।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥३५॥
त्रिःसप्तकृत्वस्तन्माता यदुरः स्वमताडयत् ।
तावद्रामेण तस्मात्तु क्षत्रमुत्सादितं भुवि ॥३६॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्चत्वारिंशत्त मोऽध्यायः॥४६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP