संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ८

मध्यम भागः - अध्यायः ८

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

सूत उवाच
एवं प्रजासु सृष्टासु कश्यपेन महात्मना ।
प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च ॥१॥

अभिषिच्याधिपत्येषु तेषां मुख्यान्प्रजापतिः ।
ततः क्रमेण राज्यानि आदेष्टुमुपचक्रमे ॥२॥

द्विजानां वीरुधां चैव नक्षत्राणां ग्रहैः सह ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥३॥

बृहस्पतिं तु विश्वेषां ददावङ्गिरसां पतिम् ।
भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ॥४॥

आदित्यानां पुनर्विष्णुं वसूनामथ पावकम् ।
प्रजापतीनां दक्षं च मरुतामथ वासवम् ॥५॥

दैत्यानामथ राजानं प्रह्रादं दितिनन्दनम् ।
नारायणं तु साध्यानां रुद्रणां च वृषध्वजम् ॥६॥

विप्रचित्तिं च राजानं दानवानामथादिशत् ।
अपां च वरुणं राज्ये राज्ञां वैश्रवणं तथा ॥७॥

यक्षाणां राक्षसानां च पार्थिवानां धनस्य च ।
वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ॥८॥

सर्वभूतपिशाचाना गिरिशं शूलपाणिनम् ।
शैलानां हिमवन्तं च नदीनामथ सागरम् ॥९॥

गन्धर्वाणामधिपतिं चक्रे चित्ररथं तथा ।
उच्चैःश्रवसमश्वानां राजानं चाभ्यषेचयत् ॥१०॥

मृगाणामथ शार्दूलं गोवृषं च ककुद्मिनाम् ।
पक्षिणामथ सर्वेषां गरुडं पततां वरम् ॥११॥

गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।
समकालबलानां च वायुं बलवतां वरम् ॥१२॥

सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् ।
सरीसृपाणां सर्पाणां पन्नगानां च तक्षकम् ॥१३॥

सागराणां नदीनां च मेघानां वर्षितस्य च ।
आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ॥१४॥

सर्वाप्सरोगणानां च कामदेवं तथा प्रभुम् ।
ऋतूनामथ मासानामार्त्तवानां तथैव च ॥१५॥

यक्षाणां च विपक्षाणां मुहूर्त्तानां च पर्वणाम् ।
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥१६॥

गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
प्रजापतेर्विरजसः पूर्वस्यां दिशि विश्रुतम् ॥१७॥

पुत्रं नाम्ना सुधन्वानं राजानं सोऽभ्यषेचयत् ।
दक्षिणास्यां दिशि तथा कर्दमस्य प्रजापतेः ॥१८॥

पुत्रां शङ्खपदं नाम राजानं सोभ्यषेचयत् ।
पस्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ॥१९॥

केतुमन्तं महात्मानं राजानं चाभ्यषेचयत् ।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥२०॥

उदीच्यां दिशि दुर्द्धर्षपुत्रं राज्येऽभ्यषेचयत् ।
मनुष्याणामधिपतिं चक्रे वैवस्वतं मनुम् ॥२१॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ॥२२॥

स्वायंभुवेन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः ।
नृपाश्चैतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ॥२३॥

मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः ।
एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः ॥२४॥

अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः ।
राजसूयेऽभिषिक्तश्च पृथु रेभिर्नरोत्तमः ॥२५॥

वेददृष्टेन विधिना ह्यधिराजः प्रतापवान् ।
एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् ॥२६॥

पुनरेव महा भागः प्रजानां पतिरीश्वरः ।
कश्यपो गोत्रकामस्तु चचार परमं तपः ॥२७॥

पुत्रौ गोत्रकरौ मह्यं भवेतामिति चिन्तयन् ।
तस्यप्रध्यायमानस्य कश्यपस्य महात्मनः ॥२८॥

ब्रह्मणोंऽशौ सुतौ पश्चात्प्रादुर्भूतौ महौजसौ ।
वत्सारश्चासितश्चैव तावुभौ ब्रह्म वादना ॥२९॥

वत्सारान्निध्रुवो जज्ञे रेभ्यश्च सुहमायशाः ।
रेभ्यस्य रैभ्यो विज्ञेयो निध्रुवस्य निबोधत ॥३०॥

च्यवनस्य सुकन्याया सुमेधाः समपद्यत ।
निध्रुवस्य तु या पत्नी माता वै कुण्डपायिराम् ॥३१॥

असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहायशाः ॥३२॥

निध्रुवाः शाण्डिला रैभ्यास्त्रयः पक्षास्तु काश्यपाः ।
वज्रिप्रभृतयो देवा देवास्तस्य प्रजा स्विमाः ॥३३॥

चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रभोः ।
अथावशिष्टे तस्मिंस्तु द्वापरे संप्रर्त्तिते ॥३४॥

मरुत्तस्य नरिष्यं तस्तस्य पुत्रो दमः किल ।
राज्यवर्द्धनकस्तस्य सुधृतिस्तत्सुतो नरः ॥३५॥

केवलश्च ततस्तस्य बन्धुमान्वेगवांस्ततः ।
बुधस्तस्या भवद्यस्या तृणबिन्दुर्महीपतिः ॥३६॥

त्रेतायुगमुखे राजा तृतीये स बभूव ह ।
तस्य चेलविला कन्यालंबुषागर्भसंभवा ॥३७॥

तस्यां जातो विश्रवास्तु वौलस्त्यकुलवर्द्धनः ।
बृहस्पतिबृर्हत्कीर्तिर्देवाचार्यस्तु कीर्त्तितः ॥३८॥

कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् ।
पुष्पोत्कटां च वाकां च सुते माल्यवतस्तथा ॥३९॥

कैकसीं मालिनः कन्यां तासां तु शृणुत प्रजाः ।
ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी ॥४०॥

दिव्येन विधिना युक्तमार्षेण च श्रुतेन च ।
राक्षसेन च रूपेण आसुरेण बलेन च ॥४१॥

त्रिपादं सुमहा कायं स्थूलशीर्षं महाहनुम् ।
अष्टदंष्ट्रं हरिछ्मश्रुं शङ्कुकर्णं विलोहितम् ॥४२॥

ह्रस्वबाहुं प्रबाहुं च पिगलं सुद्विभीषणम् ।
वैवर्त्तज्ञानसंपन्नं संबुद्धं चैव संभवात् ॥४३॥

पिता दृष्ट्वाब्रवीत्तं तु कुबेरोऽयमिति स्वयम् ।
कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते ॥४४॥

कुबेरः कुशरीरत्वान्नाम्ना वै तेन सोंऽकितः ।
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ॥४५॥

तस्माद्वैश्रवणो नाम नाम्ना तेन भविष्यति ।
ऋद्रयां कुबेरोऽजनयद्विश्रुतं नलकूबरम् ॥४६॥

रावणं कुम्भकर्णं च कन्यां शूर्पणखीं तथा ।
विभीषणचतुर्थांस्तु कैकस्यजनयत्सुतान् ॥४७॥

शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः ।
चतुष्पाद्विंशतिभुजो महाकायो महाबलः ॥४८॥

जात्यञ्ज ननिभो दंष्ट्री लोहितग्रीव एव च ।
राक्षसेनौजसा युक्तो रूपेण च बलेन च ॥४९॥

सत्त्वबुद्धिजितैर्चङ्क्षरा असैरेव रावणः ।
विसर्गदारुणः क्रूरो रावणो द्रावणस्तु सः ॥५०॥

हिरण्यकशिपुर्ह्यासीद्रावणः पूर्वजन्मनि ।
चतुर्युगानि राजाभूत्त्रयोदश स राक्षसः ॥५१॥

ताः पञ्चकोट्यो वर्षाणां संख्याताः संख्यया द्विजाः ।
नियुतान्येकषष्टिं च शरदां गणितानि वै ॥५२॥

षष्टिं चैव सहस्राणि वर्षाणां वै स रावणः ।
देवतानामृषीणां च घोरं कृत्वा प्रजागरम् ॥५३॥

त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् ।
रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥५४॥

महोदरः प्रहस्तश्च महापार्श्वः खरस्तथा ।
पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ॥५५॥

त्रिशिरा दूषणश्चैव विद्युज्जिह्वः सराक्षसः ।
कन्यानुपालिका चैव वाकायाः प्रसवः स्मृतः ॥५६॥

इत्येते क्रूर कर्माणः पौलस्त्या राक्षसा दश ।
दारुणाभिजनाः सर्वे देवैरपि दुरासदाः ॥५७॥

सर्वे लब्धवराः शूराः पुत्रपौत्रैः समन्विताः ।
यक्षाणां चैव सर्वेषां पौलस्त्या चे च राक्षसाः ॥५८॥

आगस्त्यवैश्वामित्राणां क्रूराणां ब्रह्मरक्षसाम् ।
वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥५९॥

तेषामैडविडो राजा पौलस्त्यः सव्यपिङ्गलः ।
इतरे ये यज्ञजुषस्ते वै रक्षोगणास्त्रयः ॥६०॥

यातुधाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः ।
निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥६१॥

पौलस्त्या नैरृताश्चैव आगस्त्याः कौशिकास्तथा ।
इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥६२॥

तेषां रुपं प्रवक्ष्यामि स्वाभाव्येन व्यवस्थितम् ।
वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥६३॥

अष्टदंष्ट्राः शङ्कुकार्णा ऊर्द्ध्वरोमाण एव च ।
आकर्णा हारितस्याश्च मुञ्जधूम्रोर्ध्वमूर्धजाः ॥६४॥

स्थूलशीर्षाः सिताभाश्च ह्रस्वसक्थिप्रबाहवः ।
ताम्रास्या लंबजिह्वोष्ठा लंबभ्रूस्थूलनासिकाः ॥६५॥

नीलाङ्गा लोहितग्रीवा गंभीराक्षा विभीषणाः ।
महाघोरस्वराश्चैव विकटोद्बद्धपिण्डिकाः ॥६६॥

स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः ।
दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः ॥६७॥

सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः ।
विचित्राभरणाश्चित्रमाल्यगन्धानुलेपनाः ॥६८॥

अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः ।
इत्येतद्रूपसाधर्म्यं राक्षसानां स्मृतं बुधैः ॥६९॥

न समास्ते बले बुद्धौ युद्धे माया कृते तदा ।
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ॥७०॥

भूताः सर्प्पाः पिशाचाश्च सृमरा हस्तिनस्तथा ।
वानराः किन्नराश्चेव मायुः किंपुरुषास्तथा ॥७१॥

प्रागप्येते परिक्रान्ता मया क्रोधवशान्वयाः ।
अनपत्यः क्रतुर्ह्यस्मिन्स्मृतो वैवस्वतेंऽतरे ॥७२॥

न तस्य पत्न्यः पुत्रा वा तेजः संक्षिव्य च स्थितः ।
अत्रेर्वशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः ॥७३॥

तस्य पत्न्यस्तु सुन्दर्यों दशैवासन्पतिव्रताः ।
बद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥७४॥

भद्रा शूद्रा च मद्रा च शालभा मलदा तथा ।
बला हला च सप्तैता या च गोचपलाः स्मृताः ॥७५॥

तथा तामरसा चैव रत्नकूटा च तादृशः ।
तत्र यो वंशकृच्चासौ तस्य नाम प्रभाकरः ॥७६॥

मद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥७७॥

तमोऽभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्त्तिता ।
स्वस्ति तेस्त्विति चौक्तो वै पतन्निह दिवाकरः ॥७८॥

ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥७९॥

यज्ञेष्वनिधनं चैव सुरैर्यस्य प्रवर्तितम् ।
स तासु जनयामास पुत्रानात्मसमानकान् ॥८०॥

दश तान्वै सुमहता तपसा भावितः प्रभुः ।
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ॥८१॥

तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ।
दत्तो ह्यनुमतो ज्येष्ठो दुर्वासास्तस्य चानुजः ॥८२॥

यवीयसी सुता तेषामबला ब्रह्मवादिनी ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥८३॥

अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् ।
दत्तात्रेयं तनुं विषणोः पुराणज्ञाः प्रजक्षते ॥८४॥

तस्य गोत्रान्वयज्जाताश्चत्वारः प्रथिता भुवि ।
श्यावाश्वा मुद्गलाश्चैव वाग्भूतकगवि स्थिराः ॥८५॥

एतेऽत्रीणां तु चत्वारः स्मृताः पक्षा महौजसः ।
काश्यपो नारदश्चैव पर्वतोऽरुन्धती तथा ॥८६॥

जज्ञिरे मानसा ह्येतेऽरुधत्यास्तन्निबोधत ।
नारदस्तु वसिष्ठायारुन्धती प्रत्यपादयत् ॥८७॥

ऊर्द्ध्वरेता महातेजा दक्षशापात्तु नारदः ।
पुरा देवासुरे तस्मिन्संग्रामे तारकामये ॥८८॥

अनावृष्ट्या हते लोके व्यग्रे शस्ते सुरैः सह ।
वसिष्ठस्तपसा धीमाञ्जीवयामास वै प्रजाः ॥८९॥

अनेकफलमूलिन्य औषधीश्च प्रवर्तयन् ।
तास्तेन जीवयामास कारुण्यादौषधेन सः ॥९०॥

अरुन्धत्यां वसिष्टस्तु शक्तिमुत्पादय त्सुतम् ।
स्वाङ्गज जनयच्छक्तिरदृश्यन्त्यां पराशरम् ॥९१॥

काल्यां पराशराज्जज्ञे कृष्णद्वैपायनः प्रभुः ।
द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ॥९२॥

उदपद्यन्त षडिमे पीवर्यां शुकसूनवः ।
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥९३॥

कन्या कीर्तिमती चैव योगमाता धृतव्रता ।
जननी ब्रह्मदत्तस्य पत्नी सा त्वणुहस्य च ॥९४॥

श्वेताः कृष्णाश्च पौराश्च श्यामधूम्राश्च चण्डिनः ।
ऊष्मादा दारिकाश्चैव नीलाश्चैव पराशराः ॥९५॥

पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ।
अत ऊर्द्ध्व निबोध त्वमिन्द्रप्रमति संभवम् ॥९६॥

वसिष्ठस्य कपिञ्जल्यां घृताच्यामुदपद्यत ।
कुणीति यः समाख्यात इन्द्रप्रमतिरुच्यते ॥९७॥

पृथोः सुतायां संभूतः पुत्रस्तस्याभवद्वसुः ।
उपमन्युः सुतस्तस्य यस्येमे ह्यौपमन्यवः ॥९८॥

मित्रावरुणयोश्चैव कुण्डिनेयाः परिश्रुताः ।
एकार्षेयास्तथा चान्ये वसिष्ठा नाम विश्रुताः ॥९९॥

एते पक्षा वसिष्ठानां स्मृता ह्येकादशैव तु ।
इत्येते ब्रह्मणः पुत्रा मानसा अष्ट विश्रुताः ॥१००॥

भ्रातरः सुमहाभागा येषां वंशाः प्रतिष्ठिताः ।
त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसंकुलान् ॥१०१॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
व्याप्ता येस्तु त्रयो लोकाः सूर्यस्येव गभस्तिभिः ॥१०२॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे ऋषिवंशवर्णनं नामाष्टमोऽध्यायः॥ ८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP