मध्यम भागः - अध्यायः ६७
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
आयोः पुत्रा महात्मानः पञ्चैवासन्महाबलाः ।
स्वर्भानुत नयायां ते प्रभायां जज्ञिरे नृपाः ॥१॥
नहुषः प्रथमस्तेषां क्षत्रवृद्धस्ततः स्मृतः ।
रंभो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥२॥
क्षत्रवृद्धात्मजश्चैव सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥३॥
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥४॥
ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।
एतस्य वंशेसंभूता विचित्रैः कर्मभिर्द्विजाः ॥५॥
शलात्मजो ह्यार्ष्टिषेणः शिशिरस्तस्य जात्मजः ।
शौनकाश्चार्ष्टिषेणाश्च क्षत्रोपेता द्विजातयः ॥६॥
काश्यस्य काशिपो राजा पुत्रो दीर्घतपास्तथा ।
धन्वश्च दीर्घतपसो विद्वान्धन्वन्तरीस्ततः ॥७॥
तपसोंऽते महातेजा जातो वृद्धस्य धीमतः ।
अथैनमृषयः प्रोचुः सूतं वाक्यमिद पुनः ॥८॥
ऋषय ऊचुः
कश्च धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।
एतद्वेदितुमिच्छामस्तन्नोब्रूहि परन्तप ॥९॥
सूत उवाच
धन्वन्तरेः संभवोऽयं श्रूयतामिह वै द्विजाः ।
स संभूतः समुद्रान्ते मथ्यमानेऽमृते पुरा ॥१०॥
उत्पन्नः कलशात्पूर्वं सर्वतश्च श्रिया वृतः ।
सद्यःसंसिद्धकार्यं तं दृष्ट्वा विष्णुखस्थितः ॥११॥
अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः ।
अब्जः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो ॥१२॥
विधत्स्व भागं स्थानं च मम लोके सुरोत्तम ।
एवमुक्तः स दृष्ट्वा तु तथ्यं प्रोवाच स प्रभुः ॥१३॥
कृतो यज्ञविभागस्तु दैतेयैर्हि सुरैस्तथा ।
वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः ॥१४॥
न सक्यमिह होमं वै तुभ्यं कर्तुं कदायन ।
अर्वाक्सूतोऽसि हे देव तव मन्त्रो न वै प्रभो ॥१५॥
द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि ।
अणिमादियुतां सिद्धिं गतस्तत्र भविष्यसि ॥१६॥
एतेनैव शरीरेण देवत्वं प्राप्स्यसि प्रभो ।
चा (च) तुर्मन्त्रैर्घृतैर्गव्यैर्यक्ष्यन्ते त्वां द्विजातयः ॥१७॥
अथ वा त्वं पुनश्चैव ह्यायुर्वेदं विधास्यसि ।
अवश्यभावीह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ॥१८॥
द्वितीयं द्वापर प्राप्य भविता त्वं न संशयः ।
तस्मात्तस्मै वरं दत्त्वा विष्णुरन्तर्दधे ततः ॥१९॥
द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट् ।
पुत्रकामस्तपस्तेपे नृपो दीर्घतपास्तथा ॥२०॥
अब्जं देवं तु पुत्रार्थे ह्यारिराधयिषुर्नृपः ।
वरेण च्छन्दयामास ततो धन्वन्तरिर्नृपम् ॥२१॥
नृप उवाच
भगवन्यदि तुष्टस्त्वं पुत्रो मे गतिमान्भवेः ।
तथेति समनुज्ञाय तत्रैवान्तरधात्प्रभुः ॥२२॥
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
काशिराजो महाराजः सर्व रोगप्रणाशनः ॥२३॥
आयुर्वेदं भरद्वाजात्प्राप्येह सभिषक्क्रियम् ।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥२४॥
धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो जज्ञे भीमरथो नृपः ॥२५॥
पुत्रो भीमरथस्यापि जातो धीमान्प्रजेश्वरः ।
दिवोदास इति ख्यातो वाराणस्यधिपोऽभवत् ॥२६॥
एतस्मिन्नेव काले तु पुरीं वारामसीं पुरा ।
शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥२७॥
शप्ता हि सा पुरी पूर्वं निकुंभेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ॥२८॥
तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥२९॥
ऋषय ऊचुः
वाराणसीं किमर्थं तां निकुंभः शप्तवान्पुरा ।
निकुंभश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः ॥३०॥
सूत उवाच
दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः ।
वसते स महातेजाः स्फीतायां वै नराधिपः ॥३१॥
एतस्मिन्नेव काले तु कृतदारो महेश्वरः ।
देव्याः स प्रियकामस्तु वसन्वै श्वशुरान्तिके ॥३२॥
देवाज्ञया पारिषदा विश्वरुपास्तपोधनाः ।
पूर्वोक्तरूपसंवेषैस्तोषयन्ति महेश्वरीम् ॥३३॥
हृष्यते तैर्महादेवो मेना नैव तु तुष्यति ।
जुगुप्सते सा नित्यं वै देवं देवीं तथैव च ॥३४॥
मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः ।
दरिद्रः सर्वथैवेह हा कष्टं लज्जते न वै ॥३५॥
मात्रा तथोक्ता वचसा स्त्रीस्वभावान्न चक्षमे ।
स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत् ॥३६॥
विषण्णवदना देवी महादेवमभाषत ।
नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ॥३७॥
तथोक्तस्तु महादेवः सर्वांल्लोकान्निरीक्ष्य ह ।
वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः ॥३८॥
वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ।
दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ॥३९॥
पार्श्वस्थं स समाहूय गणेशं क्षेममब्रवीत् ।
गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ॥४०॥
मृदुना चाभ्युपायेन अतिवीर्यः स पार्थिवः ।
ततो गत्वा निकुंभस्तु पुरीं वाराणसीं पुरा ॥४१॥
स्वप्ने संदर्शयामास मङ्कनं नामतो द्विजम् ।
श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ॥४२॥
मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय ।
तथा स्वप्ने यथा दृष्टं सर्वं कारितवान्द्विजः ॥४३॥
नगरीद्वार्यनुज्ञाप्य राजानं तु यथाविधि ।
पूजा तुमहती चैव नित्यमेव प्रयुज्यते ॥४४॥
गन्धैर्धूपैश्च वाल्यैश्च प्रेक्षणीयेस्तथैव च ।
अन्नप्रदानयुक्तैश्च ह्यत्यद्भुतमिवाभवत् ॥४५॥
एवं संपूज्यते तत्र नित्यमेव गणेश्वरः ।
ततो वरसहस्राणि नागराणां प्रयच्छति ॥४६॥
पुत्रान्हिरण्यमायूंषि सर्वकामांस्तथैव च ।
राज्ञस्तु महिषी श्रेष्टा सुयशा नाम विश्रुता ॥४७॥
पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ।
पूजां तु विपुलां कृत्वा देवी पुत्रानयाचत ॥४८॥
पुनः पुनरथागत्य बहुशः पुत्रकारणात् ।
न प्रयच्छति पुत्रांस्तु निकुंभः कारणेन तु ॥४९॥
क्रुध्यते यदि राजा तु तत किञ्चित्प्रवर्त्तते ।
अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ॥५०॥
भूतं त्विदं मंहद्द्वारि नागराणां प्रयच्छति ।
प्रीत्या वरांश्च शतशो न किञ्चिन्नः प्रयच्छति ॥५१॥
मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ।
स याचितश्च बहुशो देव्या मे पुत्रकारणात् ॥५२॥
न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ।
अतो नार्हति पूजा तु मत्सकाशात्कथञ्चन ॥५३॥
तस्मात्तु नाशयिष्यामितस्य स्थानं दुरात्मनः ।
एवं तु स विनिश्चित्य दुरात्मा राजकिल्बिषी ॥५४॥
स्थानं गणपतेश्तस्य नाशयामास दुर्मतिः ।
भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः ॥५५॥
यस्माद्विनापराधं मे त्वया स्थानं विनाशितम् ।
अकस्मात्तु पुरी शून्या भवित्रीते नराधिप ॥५६॥
ततस्तेन तु शापेन शून्या वाराणसी तदा ।
शप्त्वा पुरीं निकुंभस्तु महादेवमथानयत् ॥५७॥
शून्यां पुरीं महा देवो निर्ममे पदमात्मनः ।
तुल्यां देवविभूत्या तु देव्याश्चैव महामनाः ॥५८॥
रमते तत्र वै देवी ह्यैश्वर्यात्सा तु विस्मिता ।
देव्या क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ॥५९॥
नाहं वेश्म विमोक्ष्यामि ह्यविमुक्तं हि मे गृहम् ।
प्रहस्यैनामथोवाच ह्यविमुक्तं हि मे गृहम् ।
नाहं देवि गमिष्यामि त्वन्यत्रेदं विहाय वै ॥६०॥
मया सह रमस्वेह क्षेत्रे भामिन्यनुत्तमे ।
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥६१॥
एवं वाराणसी शप्ता ह्यविमुक्तं च कीर्त्तिता ।
यस्मिन्वसेद्भवो देवः सर्वदेवनमस्कृतः ॥६२॥
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ।
अन्तर्द्धानं कलौ याति तत्पुरं तु महात्मनः ॥६३॥
अन्तर्हिते पुरे तस्मिन्पुरी सा वसते पुनः ।
एवं वाराणसी शप्ता निवेशं पुनरागता ॥६४॥
भद्रसेनस्य पुत्राणां शतमुत्तमधन्विनाम् ।
हत्वा निवेशयामास दिवोदासो नराधिपः ॥६५॥
भद्रसेनस्य राज्यं तु हतं तेन बलीयसा ।
भद्रसेनस्य पुत्रस्तु दुर्मदो नाम नामतः ॥६६॥
दिवोदासेन बालेति घृणया स विसर्जितः ।
दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्द्दनः ॥६७॥
तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ।
वैरस्यान्त महाराज तदा तेन विधित्सता ॥६८॥
प्रतर्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतौ ।
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥६९॥
अलर्कं प्रति राजर्षिं श्रोकों गीतः पुरातनैः ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥७०॥
युवा रूपेण संपन्नो ह्यलर्कः काशिसत्तमः ।
लोपामुद्राप्रसादेन परमायुरवाप्तवान् ॥७१॥
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
रम्यामावासयामास पुरीं वाराणसीं नृपः ॥७२॥
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः क्षैमाख्यो नाम धार्मिकः ॥७३॥
क्षेमस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः ।
सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतः ॥७४॥
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥७५॥
सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ।
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥७६॥
धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।
वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः ॥७७॥
गार्ग्यस्य गर्गभूमिस्तु वंशो वत्सस्य धीमतः ।
ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्मिकाः ॥७८॥
विक्रान्ता बलवन्तश्च सिहतुल्यपराक्रमाः ।
इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत ॥७९॥
रजेः पुत्रशतान्यासन्पञ्च वीर्यवतो भुवि ।
राजेयमिति विख्यातं क्षत्र सिंद्रभयावहम् ॥८०॥
तदा देवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥८१॥
आवयोर्भगवन्युद्धे विजेता को भविष्यति ।
ब्रूहि नः सर्वलोकेश श्रोतुमिच्छामहे वयम् ॥८२॥
ब्रह्मोवाच ।
येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते विजष्यन्ते त्रींल्लोकान्नात्र संशयः ॥८३॥
रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः ।
यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ॥८४॥
ते देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम् ।
अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ॥८५॥
ते हृष्टमनसः सर्वे राजानं देवदानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाम वरकार्मुकम् ॥८६॥
रजिरुवाच
अहं जेष्यामि भो दैत्या देवाञ्च्छ क्रपुरोगमान् ।
इन्द्रो भवामि धर्मात्मा ततो योत्स्ये रणाजिरे ॥८७॥
दानवा ऊचुः
अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे ।
अस्मिन्तु समये राजंस्तिष्ठेथा देवनोदिते ॥८८॥
स तथेति ब्रुवन्नेव देवैरप्यभिनोदितः ।
भविष्यसींद्रो जित्वेति देवैरपि निमन्त्रितः ॥८९॥
जघान दानवान्सर्वान्येऽवध्या वज्रपाणयः ।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥९०॥
निहत्य दानवान्सर्वा नाजहार रजिः प्रभुः ।
तं तथाह रजिं तत्र देवैः सह शतक्रतुः ॥९१॥
रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रहवीद्वचः ।
इन्द्रोऽसि राजन्देवानां सर्वेषां नात्र संशयः ॥९२॥
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ।
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥९३॥
तथेत्येवाह वै राजा प्रीयमाणः शतक्रतुम् ।
तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ ॥९४॥
दायाद्यमिन्द्रादा जह्नुराचार्यतनया रजेः ।
तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः ॥९५॥
समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।
ततः काले बहुतिथे समतीते महाबलः ॥९६॥
हतराज्योऽब्रवीच्छक्रो हतभागो बृहस्पतिम् ।
बदरी फलमात्रं वै पुरोडाशं विधत्स्व मे ॥९७॥
ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः ।
ब्रह्मन्कृशोऽहं विमना त्दृतराज्यो हृतासनः ॥९८॥
हतौजा दुर्बलो युद्धे रजिपुत्रेः प्रसीद मे ।
बृहस्पतिरुवाच
यद्येवं चोदितःशक्र त्वयास्यां पूर्वमेव हि ॥९९॥
नाभविष्यत्त्वत्प्रियार्थमकर्त्तव्यं ममानघ ।
प्रयतिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते ॥१००॥
यज्ञभागं च राज्यं च अचिरात्प्रतिपत्स्यसे ।
तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः ॥१०१॥
ततः कर्म चकारास्य तेजःसंवर्द्धनं महत् ।
तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः ॥१०२॥
ते यदा तु सुसंमूडा रागान्मत्तो विधर्मिणः ।
ब्रह्मद्विषश्च संबृत्ता हतवीर्यपराक्रमाः ॥१०३॥
ततो लेभेऽसुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ।
हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् ॥१०४॥
य इदं च्यवनं स्थानात्प्रतिष्ठां च शतक्रतोः ।
शृणुयाच्छ्रावयेद्वापि न स दौरात्म्यमाप्नुयात् ॥१०५॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे धन्वन्तरिसंभवादिवर्णनं नाम सप्तषष्टितमोऽध्यायः॥६७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP