मध्यम भागः - अध्यायः ३१
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
सगर उवाच
ब्रह्मपुत्र महाभाग वद भार्गवचेष्टितम् ।
यच्चकार महावीर्य्यो राज्ञः क्रुद्धो हि कर्मणा ॥१॥
वसिष्ठ उवाच
गते तस्मिन्महाभागे भृगो पितृपरायणः ।
रामः प्रोवाच संक्रुद्धो मुञ्चञ्छ्वासान्मुहर्मुहुः ॥२॥
परशुराम उवाच
अहो पश्यत मूढत्वंराज्ञो ह्युत्पथगामिनः ।
कार्त्तवीर्यस्य यो विद्वांश्चक्रे ब्रह्मवधोद्यमम् ॥३॥
दैवं हि बलवन्मन्ये यत्प्रभावाच्छरीरिणः ।
शुभं वाप्यशुभं सर्वे प्रकुर्वन्ति विमोहिताः ॥४॥
शृणवन्तु ऋषयः सर्वे प्रतिज्ञा क्रियते मया ।
कार्त्तवीर्यं निहत्याजौ पितुर्वैरं प्रसाधये ॥५॥
यदि राजा सुरैः सर्वैरिन्द्राद्दैर्दानवैस्तथा ।
रक्षिष्यते तथाप्येनं संहरिष्यामि नान्यथा ॥६॥
एवमुक्तं समाकर्ण्य रामेण समुहात्मना ।
जमदग्निरुवाचेदं पुत्रं साहसभाषिणम् ॥७॥
जमदग्निरुवाच
श्रुणु राम प्रवक्ष्यामि सतां धर्मं सनातनम् ।
यच्छ्रुत्वा मानवाः सर्वे जायन्ते धर्मकारिणः ॥८॥
साधवो ये महाभागाः संसारान्मोक्षकाङ्क्षिणाः ।
न कस्मैचित्प्रकुप्यन्ति निन्दितास्ताडिता अपि ॥९॥
क्षमाधना महाभागा ये च दान्तास्तपस्विनः ।
तेषां चैवाक्षया लोकाः सततं साधुकारिणाम् ॥१०॥
यस्तु दुष्टैस्तु दण्डाद्यैर्वचसापि च ताडितः ।
न च क्षोभमवाप्नोति स साधुः परिकीर्त्थते ॥११॥
ताडयेत्ताडयन्तं यो न च साधुः स पापभाक् ।
क्षमयार्ऽहणतां प्राप्ताः साधवो ब्राह्मणा वयम् ॥१२॥
नरनाथवधे तात पातकं सुमहद्भवेत् ।
तस्मान्निवारये त्वाद्य क्षमां कुरु तपश्चर ॥१३॥
वसिष्ठ उवाच
एवं पित्रा समादिष्टं विज्ञाय नृपनन्दन ।
रामः प्रोवाच पितरं क्षमाशीलमरिन्दमम् ॥१४॥
परशुराम उवाच
शृणु तात महाप्राज्ञ वि५ तिं मम सांप्रतम् ।
भवता शम उद्दिष्टः साधूनां सुमहात्मनाम् ॥१५॥
म शमः साधुदीनेषु गुरुष्वीश्वरभावनैः ।
कर्त्तव्यो दुष्टचेष्टेषु न शमः सुखदो भवेत् ॥१६॥
तस्मादस्य वधः कार्यः कार्त्तवीर्यस्य वै मया ।
देह्याज्ञां माननीयाद्य साधये वैरमात्मनः ॥१७॥
जमदग्निरुवाच
शृणु राम महाभाग वचो मम समाहितः ।
करिष्यसि यथा भावि तथा नैवान्यथा भवेत् ॥१८॥
इतो व्रजत्वं ब्रह्माणां बृच्छ तात हिताहितम् ।
स यद्वदिष्यति विभुस्तत्कर्त्ता नात्र संशयः ॥१९॥
वसिष्ठ उवाच
एवमुक्तः स पितरं नमस्कृत्य महामतिः ।
जगाम ब्रह्मणो लोकमगम्यं प्राकृतैर्जनैः ॥२०॥
ददर्श ब्रह्मणो लोकं शातकैंभविनिर्मितम् ।
स्वर्णप्राकारसंयुक्तं मणिस्तंभैर्विमूषितम् ॥२१॥
तत्रापश्यत्समासीनं ब्रह्माणममितौजसम् ।
रत्नसिंहासने रम्ये रत्नभूषणभूषितम् ॥२२॥
सिद्धेन्द्रैश्च मुनीन्द्रैश्च वेष्टितं ध्यानतत्परैः ।
विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा ॥२३॥
तपसा फलदातारं कर्त्तारं जगतां विभुम् ।
परिपूर्णतमं ब्रह्म ध्यायतं यतमानसम् ॥२४॥
गुह्ययोगं प्रवोचन्तं भक्तवृन्देषु संततम् ।
दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगूद्वहः ॥२५॥
स दृष्ट्वा विनतं राममाशीर्भिरभिनन्द्य च ।
पप्रच्छ कुशलं वत्स कथमागमनं कृथाः ॥२६॥
संपृष्टो विधिना रामः प्रोवाचाखिलमादितः ।
वृत्तान्तं कार्त्तवीर्यस्य पितुः स्वस्य महात्मनः ॥२७॥
तच्छ्रुत्वा सकलं ब्रह्मा विज्ञातार्थोऽपि मानद ।
उवाच रामं धर्मिष्ठं परिणामसुखावहम् ॥२८॥
प्रतिज्ञा दुर्लभा वत्स यां भवन्कृतवान्रुषा ।
सृष्टि रेषा भगवतः संभवेत्कृपया बटो ॥२९॥
जगत्सृष्टं मया तात संक्लेशेन तदाज्ञया ।
तन्नाशकारिणी चैव प्रतिज्ञा भवता कृता ॥३०॥
त्रिःसप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम् ।
एकस्य राज्ञो दोषेण पितुः परिभवेन च ॥३१॥
ब्रह्मक्षत्र्रियविट्शूद्रैः सृष्टिरेषा सनातनी ।
आविर्भूता तिरोभूता हरेरेव पुनः पुनः ॥३२॥
अव्यर्था त्वत्प्रतिज्ञा तु भवित्री प्राक्तनेन च ।
यद्वायासेन ते कार्यसिद्धिर्भवितुमर्हति ॥३३॥
शिवलोकं प्रयाहि त्वं शिवस्याज्ञामवाप्नुहि ।
पृथिव्यां बहवो भूपाः संति शङ्करकिङ्कराः ॥३४॥
विनैवाज्ञां महेशस्य को वा तान्हन्तुमीश्वरः ।
बिभ्रतः कवचान्यङ्गे शक्तीश्चापि दुरासदाः ॥३५॥
उपायं कुरु यत्नेन जयबीजं शुभावहम् ।
उपाये तु समारब्धे सर्वे सिध्यन्त्युपक्रमाः ॥३६॥
श्रीकृष्णमन्त्रं कवचं गृह्ण वत्स गुरोर्हरात् ।
दुर्ल्लङ्घ्यं वैष्णवं तेजः शिवशक्तिर्विजेष्यति ॥३७॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
यथाकथं च विज्ञाप्य शङ्करं लभदुर्लभम् ॥३८॥
प्रसन्नः स गुणैस्तुभ्यं कृपालुर्दीनवत्सलः ।
दिव्यपाशुपतं चापि दास्यत्येव न संशयः ॥३९॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते एकत्रिंशत्तमोऽध्यायः॥३१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP