मध्यम भागः - अध्यायः ४२
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
वसिष्ठ उवाच
एवं संभ्रामितो रामो गणाधीशेन भूपते ।
हर्षशोकसमाविष्टो विचिन्त्यात्मपराभवम् ॥१॥
गणेशं चाभितो वीक्ष्य निर्विकारमवस्थितम् ।
क्रोधाविष्टो भृशं भूत्वा प्राक्षिपत्स्वपरश्वधम् ॥२॥
गणेशस्त्वभिवीक्ष्याथ पित्रा दत्तं परश्वधम् ।
अमोघं कर्त्तुकामस्तु वामे तं दशनेऽग्रहीत् ॥३॥
स तु दन्तः कुठारेण विच्छिन्नो भूतलेऽपतत् ।
भुवि शोणितसंदिग्धो वज्राहत इवाचलः ॥४॥
दन्तपातेन विद्वस्ता साब्धिद्वीपधरा धरा ।
चकंपे पृथिवीपाल लोकास्त्रासमुपागताः ॥५॥
हाहाकारो महानासी द्देवानां दिवि पश्यताम् ।
कार्त्तिकेयादयस्तत्र चुक्रुशुर्भृशमातुराः ॥६॥
अथ कोलाहलं श्रुत्वा दन्तपातध्वनिं तथा ।
पार्वतीशङ्करौ तत्र समाजग्मतुरीश्वरौ ॥७॥
हेरम्बं पुरतो दृष्ट्वा वक्रतुण्डैकदन्तिनम् ।
पप्रच्छ स्कन्दं पार्वती किमेतदिति कारणम् ॥८॥
स तु पृष्टस्तदा मात्रा सेनानीः सर्वमादितः ।
वृत्तान्तं कथयामास मात्रे रामस्य शृण्वतः ॥९॥
सा श्रुत्वोदन्तमखिलं जगतां जननी नृप ।
उवाच शङ्करं रुष्टा पार्वती प्राणनायकम् ॥१०॥
पार्वत्युवाच
अयं ते भार्गवः शंभो शिष्यः पुत्रः समोऽभवत् ।
त्वत्तोलब्ध्वा परं तेजो वर्म त्रैलोक्यजिद्विभो ॥११॥
कार्त्तवीर्यार्जुनं संख्ये जितवानूर्जितं नृपम् ।
स्वकार्यं साधयित्वा तु प्रादात्तुभ्यं च दक्षिणाम् ॥१२॥
यत्ते सुतस्य दशन कुठारेण न्यपातयत् ।
अनेनैव कृतार्थस्त्वं भविष्यसि न संशयः ॥१३॥
त्वमिमं भार्गवं शम्भो रक्षान्तेवासिसत्तमम् ।
तव कार्याणि सर्वाणि साधयिष्यति सद्गुरोः ॥१४॥
अह नैवात्र तिष्ठामि यत्त्वया विमता विभो ।
पुत्राभ्यां सहिता यास्ये पितुः स्वस्य निकेतनम् ॥१५॥
संतो भुजिष्यातनयं सत्कुर्वन्त्यात्मपुत्रवत् ।
भवता तु कृतोनैव सत्कारो वचसापि हि ॥१६॥
आत्मनस्तनयस्यास्य ततो यास्यामि दुःखिता ।
वसिष्ठ उवाच
एतच्छ्रुत्वा तु वचनं पार्वत्या भगवान्भवः ॥१७॥
नोवाच किञ्चिद्वचनं साधु वासाधु भूपते ।
सस्मार मनसा कृष्णं प्रणतक्लेशनाशनम् ॥१८॥
गोलोकनाथं गोपीशं नानानुनयकोविदम् ।
स्मृतमात्रोऽथ भगवान् केशवः प्रणतार्त्तिहा ।
आजगाम दयासिंधुर्भक्तवश्योऽखिलेश्वरः ॥१९॥
मेघश्यामो विशदवदनो रत्नकेयूरहारो विद्युद्वासा मकरसदृशे कुण्डले संदधानः ।
बर्हापीडं मणिगणयुतं बिभ्रदीषत्स्मितास्यो गोपीनाथो गदितसुयशाः कौस्तुभोद्भासिवक्षाः ॥२०॥
राधया सहितः श्रीमान् श्रीदाम्ना चापराजितः ॥२१॥
मुष्णंस्तेजांसि सर्वेषां स्वरुचा ज्ञानवारिधिः ।
अथैनमागतं दृष्ट्वा शिवः संहृष्टमानसः ॥२२॥
प्रणिपत्य यथान्यायं पूजयामास चागतम् ।
प्रवेश्याभ्यन्तरे वेश्मराधया सहितं विभुम् ॥२३॥
रत्नसिंहासने नम्ये सदारं स न्यवेशयत् ।
थ तत्र गता देवी पार्वती तनयान्विता ॥२४॥
ननाम चरणान्प्रभ्वोः पुत्राभ्यां सहिता मुदा ।
थ रामोऽपि तत्रैव गत्वा नमितकन्धरः ॥२५॥
पार्वत्याश्चरणोपान्ते पपाताकुलमानसः ।
सा यदा नाभ्यनन्दत्तं भार्गवं प्रणतं पुरः ॥२६॥
तदोवाच जगन्नाथः पार्वतीं प्रीणयन्गिरा ॥२७॥
श्रीकृष्म उवाच
अयि नगनं दिनि निन्दितचन्द्रमुखि त्वमिमं जमदग्निसुतम् ।
नय निजहस्तसरोजसमर्पितम्स्तकमङ्कमनन्तगुणे ॥२८॥
भवभयहारिणि शंभुविहारिणि कल्मषनाशिनि कुंभिगते ।
तव चरणे पतितं सततं कृतकिल्बिषमप्यव देहि वरम् ॥२९॥
श्रुणु देवि महाभागे वेदोक्तं वचनं मम ।
यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः ।
विनायकस्ते तनयो महात्मा महतां महान् ॥३०॥
यं कामः क्रोध उद्वेगो भयं नाविशते कदा ।
वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥३१॥
नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः ।
यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥३२॥
प्रमथानां गणा ये च नानारूपा महाबलाः ।
तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥३३॥
भूतानि च भविष्याणि वर्त्तमानानि यानि च ।
ब्रह्माण्डान्यखिलान्येव यस्मिंल्लंबोदरः स तु ॥३४॥
यः स्थिरो देवयोगेन च्छिन्नं संयोजितं पुनः ।
गजस्य शिरसा देवितेन प्रोक्तो गजाननः ॥३५॥
चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः ।
अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥३६॥
शप्तः पुरा सप्तभिस्तु मुनिभिः संक्षयं गतः ।
जातवेदा दीपितोऽभूद्येनासौशूर्पकर्मकः ॥३७॥
पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः ।
विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥३८॥
अद्यायं देवि रामेण कुठारेण निपात्य च ।
दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥३९॥
भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभे ।
वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥४०॥
एवं तवास्य पुत्रस्य संति नामानि पार्वति ।
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥४१॥
अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे ।
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥४२॥
जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च ।
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥४३॥
संकष्टे काम्यसिद्ध्यर्थं पूजयेद्यो गजाननम् ।
तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः ॥४४॥
वसिष्ठ उवाच
इत्युक्तं तु समाकर्ण्य कृष्णेन सुमहात्मना ।
पार्वती जगतां नाथा विस्मितासीच्छुभानना ॥४५॥
यदा नैवोत्तरं प्रादात्पार्वती शिवसन्निधौ ।
तदा राधाब्रवीद्देवीं शिवरूपा सनातनी ॥४६॥
श्रीराधोवाच ।
प्रकृतिः पुरुषश्चोभावन्योन्याश्रयविग्रहौ ।
द्विधा भिन्नौ प्रकाशेते प्रपञ्चेऽस्मिन् यथा तथा ॥४७॥
त्वं चाहमावयोर्देवि भेदो नैवास्ति कश्चन ।
विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः ॥४८॥
शिवस्य हृदये विष्णुर्भवत्या रूपमास्थितः ।
मम रूपं समास्थाय विष्णोश्च हृदये शिवः ॥४९॥
एष रामो महाभागे वैष्णवः शैवतां गतः ।
गणेशोऽयं शिवः साक्षाद्वैष्णवत्वं समास्थितः ॥५०॥
एतयोरोवयोः प्रभवोश्चापि भेदो न दृश्यते ।
एवामुक्त्वा तु सा राधा क्रोडे कृत्वा गजाननम् ॥५१॥
मूर्ध्न्युपाघ्राय पस्पर्श स्वहस्तेन कपोलके ।
स्पृष्टमात्रे कपोले तु क्षतं पूर्त्तिमुदागतम् ॥५२॥
पार्वती मुप्रसन्नाभूदनुनीताथ राधया ।
पादयोः पतितं राममुत्थाप्य निजपाणिना ॥५३॥
क्रोडीचकार सुप्रीता मूर्ध्न्यु पाघ्राय पार्वती ।
एवं तयोस्तु सत्कारं दृष्ट्वा रामगणेशयोः ॥५४॥
कृष्णः स्कन्दमुपाकृष्य स्वाङ्के प्रेम्णा न्यवेशयत् ।
अथ शंभुरपि प्रीतः श्रीदामानं पस्थितम् ॥५५॥
स्वोत्संगे स्थापयामास प्रेम्णा मत्कृत्य मानदः ॥५६॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायः॥४२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP