मध्यम भागः - अध्यायः ५६
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
जैमिनिरुवाच
एतत्ते चरितं सर्वं सगरस्य महात्मनः ।
संक्षेपविस्तराभ्यां तु कथितं पापनाशनम् ॥१॥
खण्डोंऽयं भारतो नाम दक्षिणोत्तरमायतः ।
नवयोजनसाहस्रं विस्तारपरिमण्डलम् ॥२॥
पुत्रैस्तस्य नरेद्रस्य मृगयद्भिस्तुरङ्गमम् ।
योजनानां सहस्रं तु खात्वाष्टौ विनिपातिताः ॥३॥
सागरस्य सुतैर्यस्माद्वर्द्धितो मकरालयः ।
ततः प्रभृति लोकेषु सागराख्यामवाप्तवान् ॥४॥
ब्रह्मपादावधि महीं सतीर्थक्षेत्रकाननाम् ।
अब्धिः संक्रमयामास परिक्षिप्य निजांभसा ॥५॥
ततस्तन्निलयाः सर्वे सदेवासुरमानवाः ।
इतस्ततश्च संजाता दुःखेन महतान्विताः ॥६॥
गोकर्णं नाम विख्यातं क्षेत्रं सर्वसुरार्चितम् ।
सार्द्धयोजनविस्तारं तीरे पश्चिम वारिधेः ॥७॥
तत्रासंख्यानि तीर्थानि मुनिदेवालयाश्च वै ।
वसंति सिद्धसंघाश्च क्षेत्रे तस्मिन्पुरा नृप ॥८॥
क्षेत्रं तल्लोकविख्यातं सर्वपापहरं शुभम् ।
तत्तीर्थमब्धेरपतद्भागे दक्षिणपश्चिमे ॥९॥
यत्र सर्वे तपस्तप्त्वा मुनयः संशितव्रताः ।
निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम् ॥१०॥
तत्त्रेत्रस्य प्रभावेण प्रीत्या भूतगणैः सह ।
देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः ॥११॥
एनांसि यत्समुद्दिश्य तीर्थयात्रां प्रकुर्वताम् ।
नृणामाशु प्रणश्यन्ति प्रवाते शुष्कपर्णवत् ॥१२॥
तत्क्षेत्रसेवनरतिर्नैव जात्वभिजायते ।
समीपे वसमानोनामपि पुंसां दुरात्मनाम् ॥१३॥
महाता सुकृतेनैव तत्क्षेत्रगमने रतिः ।
नृणां संजायते राजन्नान्यथा तु कथञ्चन ॥१४॥
निर्बन्धेन तु ये तस्मिन्प्राणिनः स्थिरजङ्गमाः ।
म्रियन्ते नृप सद्यस्ते स्वर्गं प्राप्स्यन्ति शाश्वतम् ॥१५॥
स्मृत्यापि सकलैः पापैर्यस्य मुच्येत मानवः ।
क्षेत्राणामुत्तमं क्षेत्रं सर्वतीर्थनिकेतनम् ॥१६॥
स्नात्वा चैतेषु तीर्थेषु यजन्तश्च सदाशिवम् ।
सिद्धिकामा वसंति स्म मुनयस्तत्र केचन ॥१७॥
कामक्रोधविनिर्मुक्ता ये तस्मिन्वीतमत्सराः ।
निवसंत्यचिरेणैव तत्सिद्धिंप्राप्नुवन्ति हि ॥१८॥
जपहोमरताः शान्ता निपता ब्रह्मचारिणः ।
वसंति तस्मिन्ये ते हि सिद्धिं प्राप्स्यन्त्यभीप्सिताम् ॥१९॥
दानहोमजपाद्यं वै पितृदेवद्विजार्चनम् ।
अन्यस्मात्कोटिगुणितं भवेत्तस्मिन्फलं नृप ॥२०॥
अंभोधिसलिले मग्न तस्मिन् क्षेत्रेऽतिपावने ।
महता तपसा युक्ता मुनयस्तन्निवासिनः ॥२१॥
सह्यं शिखरिणं श्रेष्ठं निलयार्थं समारुहन् ।
वसंतस्तत्र ते सर्वे संप्रधार्य परस्परम् ॥२२॥
सहेन्द्राद्रौ तपस्यन्तं रामं गन्तुं प्रचक्रमुः ।
राजोवाच ।
अगस्त्यपीततोयेऽब्धौ परितो राजनन्दनैः ॥२३॥
खात्वाधः पातिते क्षेत्रे सतीर्थाश्रमकानने ।
भूभागेषु तथान्येषु पुरग्रमाकरादिषु ॥२४॥
विनाशितेषु देशेषु समुद्रोपान्तवर्त्तिषु ।
किमकार्षुर्मुनिश्रेष्ठ जनास्तन्निलयास्ततः ॥२५॥
तत्रैव चावसन्कृच्छ्रात्प्रस्थितान्यत्र वा ततः ।
कियता चैव कालेन संपूर्णोऽभूदपांनिधिः ।
केन वापि प्रकारेण ब्रह्मन्नेतद्वदस्व मे ॥२६॥
जैमिनिरुवाच
अनूपेषु प्रदेशेषु नाशितेषु दुरात्मभिः ॥२७॥
जनास्तन्निलयाः सर्वे संप्रयाता इतस्ततः ।
तत्रैव चावसन्कृच्छ्रात्केचित्क्षेत्रनिवासिनः ॥२८॥
एतस्मिन्नेव काले तु राजन्नंशुमतः सुतः ।
बभूव भुविधर्मात्मा दिलीप इति विश्रुतः ॥२९॥
राज्येऽभिषिच्य तं सम्यग्भुक्तभोगोंऽशुमान्नृपः ।
वनं जगाम मेधावी तपसे धृतमानसः ॥३०॥
दिलीपस्तु ततःश्रीमानशेषां पृथिवीमिमाम् ।
पालयामास धर्मेण विजित्य सकलानरीन् ॥३१॥
भगीरथो नाम सुतस्तस्यासील्लोकविश्रुतः ।
सर्वधर्मार्थकुशलः श्रीमानमितविक्रमः ॥३२॥
राज्येऽभिषिच्य तं राजा दिलीपोऽपि वनं ययौ ।
स चापि पालयन्नुर्वीं सम्यग्विहतकण्टकाम् ॥३३॥
मुमुदे विविधैर्भोगैर्दिवि देवपतिर्यथा ।
स शुश्रावात्मनः पूर्वं पूर्वजानां महीपतिः ॥३४॥
निरये पतनं घोरं विप्रकोपसमुद्भवम् ।
ब्रह्मदण्डहतान्सर्वान्पितञ्छ्रुत्वातिदुःखितः ॥३५॥
राज्ये बन्धुषु भोगे वा निर्वेदं परमं ययौ ।
स मन्त्रिप्रवरे राज्यं विन्यस्य तपसे वनम् ॥३६॥
प्रययौ स्वपितॄन्नाकं निनीषुर्नृपसत्तमः ।
तपसा महाता पूर्वमायुषे कमलोद्भवम् ॥३७॥
आराध्य तस्माल्लेभे च यावदायुर्निजेप्सितम् ।
ततो गङ्गां महाराज समाराध्य प्रसाद्य च ॥३८॥
वरमागमनं वव्रे दिवस्तस्या महींप्रति ।
ततस्तां शिरसा धर्त्तु तपसाऽराधयच्छिवम् ॥३९॥
स चापि तद्वरं तस्मै प्रददौ भक्तवत्सलः ।
मेरोर्मूर्ध्नस्ततो गङ्गां पतं ती शिरसात्मनः ॥४०॥
सग्राहनक्रमकरां जग्राह जगतां पतिः ।
सा तच्छिरः समासाद्य महावेगप्रवाहिनी ॥४१॥
तज्जटामण्डले शुभ्रे विलिल्ये सातिगह्वरे ।
चुलकोदकवच्छंभोर्विलीनां शिरसि प्रभोः ॥४२॥
विलोक्य तत्प्रमोक्षाय पुनराराधयद्धरम् ।
स तां शर्वप्रसादेन लब्ध्वा तु भुवमागताम् ॥४३॥
आनिन्ये सागरा दग्धा यत्र तां वै दिशं प्रति ।
सऽनुव्रजन्ती राजानं राजर्षेर्यजतः पथि ॥४४॥
तद्यज्ञवाटमखिलं प्लावयामास सर्वतः ।
स तु राजऋषिः क्रुद्धो यज्ञवाटेऽखिले तया ॥४५॥
मग्ने गण्डूषजलवत्स पपौ तामशेषतः ।
अतन्द्रितो वर्षशतं शुश्रूषितवा स तं पुनः ॥४६॥
तस्मात्प्रसन्नान्नृपतिर्लेमे गङ्गां महात्मनः ।
उषित्वा सुचिरं तस्यनिसृता जठराद्यतः ॥४७॥
प्रथितं जाह्नवीत्यस्यास्ततो नामाभवद्भुवि ।
भगीरथानुगा भूत्वा तत्पितॄणामशेषतः ॥४८॥
निजांभसास्थिभस्मानि सिषेच सुरनिम्नगा ।
ततस्तदंभसा सिक्तेष्वस्थिभस्मसु तत्क्षणात् ॥४९॥
निरयात्सागराः सर्वे नष्टपापा दिवं ययुः ।
एवं सा सागरान्सर्वान्दिवं नीत्वा महान्दी ॥५०॥
तेनैव मार्गेण जवात्प्रयाता पूर्वसागरम् ।
सेनोर्मूर्ध्नश्चतुर्भेदा भूत्वा याता चतुर्द्दिशम् ॥५१॥
चतुर्भेदतया चाभूत्तस्या नाम्नां चतुष्टयम् ।
सीता चालकनन्दा च सुचक्षुर्भद्रवत्यपि ॥५२॥
अगस्त्यपीतसलिलाच्चिरं शुष्कोदका अपि ।
गङ्गांभसा पुनः पूर्णाश्चत्वारोऽम्बुधयोऽभवन् ॥५३॥
पूर्वमाणे समुद्रे तु सागरैः परिवर्द्धिते ।
अन्तर्हिताभवन्देशा बहवस्तत्समीपगाः ॥५४॥
समुद्रोपान्तवर्त्तीनि क्षेत्राणि च समन्ततः ।
इतस्ततः प्रयाताश्च जनास्तन्निलया नृप ॥५५॥
गोकर्णमिति च क्षेत्रं पूर्वं प्रोक्तं तु यत्तव ।
अर्मवोपात्तवर्त्तित्वात्समुद्रेऽतर्द्धिमागमत् ॥५६॥
ततस्तन्निलयाः सर्वे तदुद्धाराभिकाङ्क्षिणः ।
सह्याद्रेर्भृगुशार्दूलं द्रष्टुकामा ययुर्नृप ॥५७॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गङ्गानयनं नाम षट्पञ्चशत्तमोऽध्यायः ॥५६॥
Last Updated : November 11, 2016
TOP