मध्यम भागः - अध्यायः ३४
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
सगर उवाच
ब्रह्मपुत्र महाभाग महान्मेऽनुग्रहः कृतः ।
यदिदं कवचं मह्यं प्रकाशितमनामयम् ॥१॥
और्वेणानुगृहीतोऽहं कृतास्त्रो यदनुग्रहात् ।
भवतस्तु कृपापात्रं जातोऽहमधुना विभो ॥२॥
रामेण भार्गवेन्द्रेण कार्त्तवीर्यो नृपो गुरो ।
यथा समापितो वीरस्तन्मे विस्तरतो वद ॥३॥
कृपापात्रं स दत्तस्य राजा रामः शिवस्य च ।
उभौ तौ समरे वीरौ जघटाते कथं गुरो ॥४॥
वसिष्ठ उवाच
शृणु राजन्प्रवक्ष्यामि चरितं पापनाशनम् ।
कार्त्तवीर्यस्य भूपस्य रामस्य च महात्मनः ॥५॥
स रामः कवचं लब्ध्वा मन्त्रं चैव गुरोर्मुखात् ।
चकार माधनं तस्य भक्त्या परमया युतः ॥६॥
भूमिशागी त्रिषवण स्नानसध्यापरायणः ।
उवासपुष्करे राम शतवर्षमतन्द्रितः ॥७॥
समित्पुष्पकुशादीनि द्रव्याण्यहरहर्भृगोः ।
आनीय काननाद्भूप प्रायच्छदकृतव्रणः ॥८॥
सततं ध्यानसंयुक्तो रामो मतिमतां वरः ।
आराधयामास विभुं कृष्णं कल्मषनाशनम् ॥९॥
तस्यैवं यजमानस्य रामस्य जगतीपते ।
गतं वर्षशतं तत्र ध्यानयुक्तस्य नित्यदा ॥१०॥
एकदा तु महाराज रामः स्नातुं गतो महान् ।
मध्यमं पुष्करं तत्र ददर्शाश्वर्यमुत्तमम् ॥११॥
मृग एकः समायातो मृग्य युक्तः पलायितः ।
व्याधस्य मृगयां प्राप्तो धर्मतप्तोऽतिपीडितः ॥१२॥
पिपासितो महाभाग जलपानसमुत्सुकः ।
रामस्य पश्यतस्तत्र सरसस्तटमागतः ॥१३॥
पश्चान्मृगी समायाता भीता सा चकितेक्षणा ।
उभो तौ पिबतस्तत्र जलं शङ्कितमानसौ ॥१४॥
तावत्समागतो व्याधो बाणपाणिर्धनुर्द्धरः ।
स दृष्ट्वा तत्र संविष्टं रामं भार्गवनन्दनम् ॥१५॥
अकृतव्रणसंयुक्तं तस्थौ दूरकृतेक्षणः ।
स चिन्तयामास तदा शङ्कितो भृगुनन्दनात् ॥१६॥
अयं रामो महावीरो दुष्टानामन्तकारकः ।
कथमेतस्य हन्म्येतौ पश्यतो मृगयामृगौ ॥१७॥
इति चिन्ता समाविष्टो व्याधो राजन्यसत्तम ।
तस्थौ तत्रैव रामस्य भयात्संत्रस्तमानसः ॥१८॥
रामस्तु तौ मृगों दृष्ट्वा पिबन्तौ सभ्यं जलम् ।
तर्कयामास मेधावी किमत्र भयकारणम् ॥१९॥
नैवात्र व्याघ्रसेनादो न च व्याधो हि दृश्यते ।
केनैतौ कारणेनाहो शङ्कितौ चकितेक्षणौ ॥२०॥
अथ वा मृगजातिर्हि निसर्गाच्चकितेक्षणा ।
चेनैतौ जलपानेऽपि पश्यतश्चकितेक्षणौ ॥२१॥
नैतावत्कारणं चात्र किन्तु खेदभयातुरौ ।
लक्षयेते खिन्नसर्वाङ्गौ कम्पयुक्तौ यतस्त्विमौ ॥२२॥
एवं संचिन्त्य मतिमान्स तस्थौ मध्यपुष्करे ।
शिष्येण संयुतो रामो यावत्तौ चापि संस्थितौ ॥२३॥
पीत्वा जलं ततस्तौ तु वृक्षच्छायासमाश्रितौ ।
रामं दृष्ट्वा महात्मानं कथां तौ चक्रतुर्मुदा ॥२४॥
मृग्युवाच
कान्त चात्रैव तिष्ठावो यावद्रामोऽत्रसंस्थितः ।
अस्य वीरस्य सांनिध्ये भयं नैवावयोर्भवेत् ॥२५॥
अत्राप्यागत्य चैव्द्याधौ ह्यावयोः प्रहरिष्यति ।
दृष्टमात्रो हि मुनिना भस्मीभूतो भविष्यति ॥२६॥
इत्युक्ते वचने मृग्या रामर्शनतुष्टया ।
मृगश्चोवाच हर्षेण समाविष्टः प्रियां स्वकाम् ॥२७॥
एवमेव महाभागे यद्वै वदसि भामिनि ।
जानेऽहमपि रामस्य प्रभावं सुमहात्मनः ॥२८॥
योऽयं संदृश्यते चास्य पार्श्वं शिष्योऽकृतव्रणः ।
सचाने न महाभागस्त्रातो व्याघ्रभयातुरः ॥२९॥
अयं रामो महाभागे जमदग्निसुतोऽनुजः ।
पितरं कार्त्तवीर्येण दृष्ट्वा चैव तिरस्कृतम् ॥३०॥
चकारातितरां क्रुद्धः प्रतिज्ञां नृपघातिनीम् ।
तत्पूर्तिकामो ह्यगमद्ब्रह्मलोकं पुरा ह्ययम् ॥३१॥
स ब्रह्मा दिष्टवांश्चैनं शिवलोकं व्रजेति ह ।
तस्य त्वाज्ञां समादाय गतोऽसौ शिवसन्निधिम् ॥३२॥
प्रोवाचाखिलवृत्तान्त राज्ञश्चप्यात्मनः पितुः ।
स कृपालुर्महादेवः सभाज्य भृगुनन्दनम् ॥३३॥
ददौ कृष्णस्य सन्मन्त्रमभेद्यं कवचं तथा ।
स्वीयं पाशुपतं चास्त्रमन्यास्त्रग्राममेव च ॥३४॥
विसर्जयामास मुदा दत्त्वा शस्त्राणि चादरात् ।
सोऽयमत्रागतो भद्रे मेत्रसाधनतत्परः ॥३५॥
नित्यं जपति धर्मात्मा कृष्णस्य कवचं सुधीः ।
शतवर्षाणि चाप्यस्य गतानि सुमहात्मनः ॥३६॥
मन्त्र साधयतो भद्रे न च तत्सिद्धिरेति हि ।
आत्रास्ति कारणं भक्तिः साव वै त्रिविधा मता ॥३७॥
उत्तमा मध्यमा चैव कनिष्ठा तरलेक्षणे ।
शिवस्य नारदस्यापि शुकस्य च महात्मनः ॥३८॥
अंबरीष्स्य राजर्षे रन्तिदेवस्य मारुतेः ।
बलेर्विभीषणस्यापि प्रह्लादस्य महात्मनः ॥३९॥
उत्तमा भक्तिरेवास्ति गोपीनामुद्धवस्य च ।
वसिष्ठादिमुनीशानां मन्वादीनां शुभेक्षणे ॥४०॥
मध्या च भक्तिरेवास्ति प्राकृतान्यजनेषु सा ।
मध्यभक्तिरयं रामो नित्यं यमपरायणः ॥४१॥
सेवते गोपिकाधीशं तेन सिद्धिं न चागतः ।
वसिष्ठ उवाच
इत्युक्ता त्वरितं कान्तं सा मृगी हृष्टमानसा ॥४२॥
पुनः पप्रच्छ भक्तेस्तु लक्षणं प्रेमदायकम् ।
मृग्युवाच
साधुकान्त महाभाग वचस्तेऽलौकिकं प्रिय ।
र्हदृग्ज्ञानं तव कथं संजातं तद्वदाधुना ॥४३॥
मृग उवाच
शृणु प्रिये महाभागे ज्ञानं पुण्येन जायते ॥४४॥
तत्पुण्यमद्य संजातं भार्गवस्यास्य दर्शनात् ।
पुण्यात्मा भार्गवश्चायं कृष्णाभक्तो जितेन्द्रियः ॥४५॥
गुरुशुश्रूषको नित्यं नित्यनैमित्तिकादरः ।
अतोऽस्य दर्शनाज्जातं ज्ञानं ं द्यैव भामिनि ॥४६॥
त्रैलोक्यस्थितसत्त्वानां शुभाशुभनिदर्शकम् ।
अद्यैव विदितं मेऽभूद्रासस्यास्य महात्मनः ॥४७॥
चरितं पुण्यदं चैव पापघ्नं शृण्वतामिदम् ।
यद्यत्करिष्यते चैव तदपि ज्ञानगोचरम् ॥४८॥
योत्तमा भक्तिराख्याता तां विना नैव सिद्ध्यति ।
कवचं मन्त्रसहितं ह्यपि वर्षायुतायुतैः ॥४९॥
यद्ययं भार्गवो भद्रे ह्यगस्त्यानुग्रहं लभेत् ।
कृष्णप्रेमामृतं नाम स्तोत्रमुत्तमभक्तिदम् ॥५०॥
ज्ञात्वा च लप्स्यते सिद्धिं मन्त्रस्य कवचस्य च ।
स मुनिर्ज्ञाततत्त्वार्थः सानुकंपोऽभयप्रदः ॥५१॥
उपदेक्ष्यति चैवैनं तत्त्वज्ञानं मुदावहम् ।
श्रीकृष्णचारितं सर्वं नामभिर्ग्रथितं यतः ॥५२॥
कृष्णप्रेमामृतस्तोत्राज्ज्ञास्यतेऽस्य महामतिः ।
ततः संसिद्ध कवचौ राजनं हैहयाधिपम् ॥५३॥
हत्वा सपुत्रामात्यं च ससुहृद्बलवाहनम् ।
त्रिः सप्तकृत्वो निर्भूपां करिष्यत्यवनीं प्रिय ॥५४॥
वसिष्ठ उवाच
एवमुक्त्वा मृगो राजन्विरराम मृगीं ततः ।
आत्मनो मृगभावस्य कारणं ज्ञातवांश्च ह ॥५५॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते चतुस्त्रिंशत्तमोऽध्यायः॥३४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP