मध्यम भागः - अध्यायः ६८
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
ऋषय ऊचुः
मरुतेन कथं कन्या राज्ञे दत्ता महात्मना ।
किंवीर्याश्च महात्मानो जाता मरुतकन्यया ॥१॥
सूत उवाच
आहरत्स मरुत्सोममन्नकामः प्रजेश्वरः ।
मासिमासि महातेजाः षष्टिसंवत्सरान्नृप ॥२॥
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः ।
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥३॥
अन्नं तस्य सकृद्भुक्तमहोरात्रं न क्षीयते ।
कोटिशो दीय मानं च सूर्यस्योदयनादपि ॥४॥
मित्रज्योतेस्तु कन्याया मरितस्य च धीमतः ।
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥५॥
संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः ।
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥६॥
अनेनसः सुतो जातः क्षत्रधर्मः प्रतापवान् ।
क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः ॥७॥
प्रतिपक्षसुतश्चापि सृंजयो नाम विश्रुतः ।
सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान् ॥८॥
विजयस्य जयः पुत्रस्तस्य हर्यश्वकः स्मृतः ।
इर्यश्वस्य सुतो राजा सहदेवः प्रतापवान् ॥९॥
सहदेवस्य धर्मात्मा अहीन इति विश्रुतः ।
अहीनस्य चयत्सेनस्तस्य पुत्रोऽथ संकृतिः ॥१०॥
संकृतेरपि धर्मात्मा कृतधर्मा महायशाः ।
इत्येते क्षत्रधर्माणो नहुषस्य निबोधत ॥११॥
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः ॥१२॥
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ।
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा ॥१३॥
स यतिर्मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।
तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः ॥१४॥
देवयानीमुशनसः सुतां भार्यामवाप ह ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥१५॥
यदुं च तुर्वसुं चैव देवयानो व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥१६॥
अजीजनन्महावीर्यान्सुतान्देवसुतोपमान् ।
रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम् ॥१७॥
असंगं काञ्चनं दिव्यमक्षयौ च महेषुधी ।
युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत् ॥१८॥
स तेन रथमुख्येन जिगाय सततं महीम् ।
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ॥१९॥
पौरवाणां नृपाणां च सर्वेषां सोऽभवद्रथी ।
यावत्सुदेशप्रभवः कौरवो जनमेजयः ॥२०॥
कुरोः पौत्रस्य राज्ञरतु राज्ञः पारीक्षितस्य ह ।
जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः ॥२१॥
गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।
दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः ॥२२॥
स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥२३॥
ततः स दुःखसंतप्तो नालभत्संविदं क्वचित ।
स प्रायाच्छौनकमृषिं शरणं व्यथितस्तदा ॥२४॥
इन्द्रोतोनाम विख्यातो योऽसौ मुनि रुदारधीः ।
योजयामास चैन्द्रोतः शौनको जनमेजयम् ॥२५॥
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ।
स लोहगन्धो व्यनशत्त स्यावभृथमेत्य ह ॥२६॥
स वै दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ।
दत्तः शक्रेन तुष्टेन लेभे तस्माद्बृहद्रथः ॥२७॥
ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥२८॥
स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः ।
पुत्रं श्रेष्टं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥२९॥
जरावली च मां तात पलितानि च पर्ययुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥३०॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥३१॥
अनिर्दिष्टा हि मे भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
सा तु व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥३२॥
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥३३॥
सितश्मश्रुधरो दीनो जरया शिथिलीकृतः ।
वलीसंततगात्रश्च निराशो दुर्बलाकृतिः ॥३४॥
अशक्तः कार्यकरणे परिबूतस्तु यौवने ।
सहोपवीतिभिश्चैव तां जरां नाभिकामये ॥३५॥
संति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥३६॥
स एवमुक्तो यदुना दीव्रकोपसमन्वितः ।
उवाच वदतां श्रेष्टो ज्येष्ठं तं गर्हयन्सुतम् ॥३७॥
आश्रमः कस्तवान्योऽस्ति को वा धर्मविधिस्तव ।
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥३८॥
एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् ।
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥३९॥
तस्मान्न राज्यभाङ्मूढ प्रजा ते वै भविष्यति ।
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥४०॥
तुर्वसुरुवाच
न कामये जरां तात कामभोगप्रणाशिनीम् ।
जरायां बहवो दोषाः पानभोजन कारिताः ॥४१॥
तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ।
ययातिरुवाच
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥४२॥
तस्मात्प्रजानु विच्छेदं तुर्वसो तव यास्यति ।
संकीर्णेषु च धर्मेण प्रतिलोमनरेषु च ॥४३॥
पिशिताशिषु चान्येषु मूढ राजा भविष्यसि ।
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा ।
वासस्ते पाप म्लेच्छेषु भविष्यति न संशयः ॥४४॥
सूत उवाच
एवं तु तुर्वसुंशप्त्वा ययातिः सुतमात्मनः ॥४५॥
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ।
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ॥४६॥
जरा वर्षसहस्रंवै यौवनं स्वं ददस्व मे ।
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥४७॥
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ।
द्रुह्युरुवाच
नारोहेत रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।
न सुखं चास्य भवति न जरां तेन कामये ॥४८॥
ययातिरुवाच
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥४९॥
तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ।
नौप्लवोत्तरसंचारस्तव नित्यं भविष्यति ॥५०॥
अराजा राजवंशस्त्वं तत्र नित्यं वसिष्यसि ।
अनो त्वं प्रतिपाद्यस्व पाप्मानं जरया सह ॥५१॥
एवं वर्षसहस्रं तु चरेयं यौवनेन ते ।
अनुरुवाच
जीर्णः शिशुरिवाशक्तो जरया ह्यशुचिः सदा ।
न जुहोति स कालेऽग्निं तां जरां नाभिकामये ॥५२॥
ययातिरूवाच ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥५३॥
जरादोष स्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ।
प्रजा च यौवनं प्राप्ता विनशिष्यत्यनो तव ॥५४॥
अग्निप्रस्कन्दनपरास्त्वं वाप्येवं भविष्यसि ।
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ॥५५॥
जरावली च मां तात पलितानि च पर्ययुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मियौवने ॥५६॥
कञ्चित्कालं चरेयं वै विषयान्वयसा तव ।
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥५७॥
स्वं चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह ।
सूत उवाच
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा ॥५८॥
यथा तु मन्यसे तात करिष्यामि तथैव च ।
प्रतिपत्स्ये च ते राजन्पाप्मानं जरया सह ॥५९॥
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ।
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ॥६०॥
यौवनं भवते दत्त्वा चरिष्यामि यथार्थवत् ।
ययातिरुवाच
पूरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते ॥६१॥
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।
सूत उवाच
पूरोरनुमतो राजा ययातिः स्वजरां ततः ॥६२॥
संक्रामयामास तदा प्रासादद्भार्गवस्य तु ।
गौरवेणाथ वयसा ययातिर्नहुषात्मजः ॥६३॥
प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान्स्वकान् ।
यथाकामं यथोत्साहं यथाकालं यथासुखम् ॥६४॥
धर्माविरोधी राजेन्द्रो यथाशक्ति स एव हि ।
देवानतर्पयद्यज्ञैः पितॄञ्श्राद्धैस्तथैव च ॥६५॥
दाराननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ।
अतिथीनन्नपानैश्च वैश्यंश्च परिपालनैः ॥६६॥
आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ।
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयत् ॥६७॥
ययातिः पालयामास साक्षादिन्द्र इवापरः ।
स राजा सिंहविक्रान्तो युवा विषयगोचरः ॥६८॥
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ।
स मार्गमाणः कामानामतद्दोषनिदर्शनात् ॥६९॥
विश्वाच्या सहितो रेमे वैब्राजे नन्दने वने ।
अपश्यत्स यदा तान्वै वर्द्धमानान्नृपस्तदा ॥७०॥
गत्वा पूरोः सकाशं वै स्वां जरां प्रत्यपद्यत ।
संप्राप्य स तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः ॥७१॥
कालं वर्षसहस्रं वै सस्मार मनुजाधिपः ।
परिसंख्याय काले च कलाः काष्ठास्तथैव च ॥७२॥
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ।
यथा सुखं यथोत्साहं यथाकालमरिन्दम ॥७३॥
सेविता विषयः पुत्र यौवनेन मया तव ।
पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम् ॥७४॥
राज्यं च त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः ।
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः ॥७५॥
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ।
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् ॥७६॥
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ॥७७॥
ज्येष्ठं यदुमतिक्रम्य राज्यं दास्यसि पूरवे ।
यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः ॥७८॥
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ।
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।
सुतः संबोधयामस्त्वां धर्मं समनुपालय ॥७९॥
ययातिरुवाच
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ॥८०॥
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ।
मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते ॥८१॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः ॥८२॥
स पुत्रः पुत्रवद्यश्च वर्त्तते पितृमातृषु ।
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ॥८३॥
द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ।
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः ॥८४॥
कनीयान्मम दायादो जरा येन धृता मम ।
सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा ॥८५॥
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।
पुत्रो यस्त्वानुवर्त्तेत स राजा तु महामते ॥८६॥
प्रजा ऊचुः
भवतोऽनुमतोऽप्येवं पूरू राज्येऽभिषिच्यताम् ।
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥८७॥
सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ।
अर्हेऽस्य पूरू राज्यस्य यः प्रियः प्रियकृत्तव ॥८८॥
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ।
पौरजान पदैस्तुष्टैरित्युक्ते नाहुषस्तदा ॥८९॥
अभिषिच्य ततः पूरुं स राज्ये सुतमात्मनः ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत् ॥९०॥
दक्षिणापरतो राजा यदुं ज्येष्ठं न्यवेशयत् ।
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च तावुभौ ॥९१॥
सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।
व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ॥९२॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपान्यते ॥९३॥
एवं विभज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा ।
पुत्रसंक्रामितश्रीस्तु प्रीतिमा नभवन्नृपः ॥९४॥
धनुर्न्यस्य पृषत्कांश्च राज्यं चैव सुतेषु तु ।
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥९५॥
अत्र गाथा महाराज्ञा पुरा गीता ययातिना ।
याभिः प्रत्याहरेत्कामात्कूर्मौंऽगानीव सर्वशः ॥९६॥
न जातु कामः कामानमुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥९७॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥९८॥
यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥९९॥
यदा परान्न बिभेति यदान्यस्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥१००॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
यैषा प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥१०१॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥१०२॥
यच्च कामसुखं लोके यच्छ दिव्यं महत्सुखम् ।
कृष्णाक्षयसुखस्यैतत्कलां नर्हन्ति षोडशीम् ॥१०३॥
एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् ।
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ॥१०४॥
पालयित्वा व्रतं चार्षं तत्रैव स्वर्ग माप्तवान् ।
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः ॥१०५॥
यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ।
धन्यः प्रजावा नायुष्मान्कीर्त्तिमांश्च भवेन्नरः ॥१०६॥
ययातेश्चारितं सर्वं पठञ्छृण्वन्द्विजोत्तमाः ॥१०७॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे अष्टषष्टितमोऽध्यायः॥६८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP