उपमालंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यड्गयस्य रमणीयताप्रयो-जका अलंकारा निरूप्यन्ते-तत्रापि विपुलालंकारान्तर्वर्तिन्युपमा तावद्विचार्यते -
सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृति: ॥
सौन्दर्यं च चमत्कृत्याधायकत्वम्‍ । चमत्कृतिरानन्दविशेष: सह्लदय-ह्लदयप्रमाणक: । अनन्वये च ‘ गगनं गगनाकारम्‍ ’ इत्यादौ साद्दश्यस्य

द्वितीयसब्रह्मचारिनिवर्तनमात्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारि-तैव । अत एव तस्यान्वयाभावादनन्वदं तमाहु: ।
व्यतिरेके ‘ तवाननस्य तुलनां दधातु जलजं कथम्‍ ’ इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिन: सादृश्यस्य निरूपणमचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापहनुतिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तूप-मादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकतयावस्थितस्यापि

सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालंकृतित्वम्‍ । मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसड्र: शड्कनीय:, तयो: संग्राह्यत्वात्‍ । ननु ‘ त्वयि कोपो ममाभाति सुधांशाविव पावक: ’ इत्यादावुपमानस्यात्यन्तमसंभावितत्वा-त्सादृश्यमेव न तावत्प्रतिपत्तुं शक्यम्‍, चमत्कारस्तु पुन: केन स्यादिति

चेत्‍, कविना हि खण्डश: पदार्थोपस्थितिमता स्वेच्छया संभावितत्वेना-कारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधका-भावात्‍ । कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम्‍, परमसुकुमारीभवत्कनकनिर्मिताड्रया मणिमयदशनकान्तिनिर्वासित-ध्वान्ताया: कान्ताया भावनया पुरोऽवस्थापिताया आलिड्रनस्याह्लाद-जनकत्वदर्शनात्‍ ।
उपमानोपमेययो: सत्यत्वस्य लक्षणे प्रवेशाभावान्नात्र दोषलेशोऽपि ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP