उपमालंकारः - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत एव
‘ स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलक: । शशाड्कबिम्बतो मेरौ लम्बमान इवोरग: ॥ ’
इत्यादावपि नानुपपत्ति: । परे तु अस्या: कल्पितोपमाया उपमानान्त-राभावफलकत्वेनालंकारान्तरतामाहु: । तन्न । सादृश्यस्य चमत्कारितयोप-मान्तर्भावस्यैवोचितत्वात् । सन्निरूपितत्वस्य लक्षणे प्रवेशाभावात् । उप-मानान्तराभावफलकत्वं ह्मुपमाविशेषत्वे साधकम्, न तूपमाबहिर्भावे ।
अथ
विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् ।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥ ’
इत्यादौ साधारणधर्मस्याभावात्कथमुपमानिष्पत्ति: ? बुधमौक्तिकयो-रेकैकमात्रवृत्तित्वात् । न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आनन-मालक्षितबुधाश्लेषं राकेन्दोर्मण्डलभिव विलसतीति तादृशराकेन्दुमण्डल-निरूपितसादृश्यप्रयोजकविलासाश्रयस्तादृशमाननमितिं तात्पर्यं तदा
विपूर्वकलसत्यर्थशोभाविशेष एव समानो धर्म: । यदि च तादृशमिन्दु-मण्डलमिव यत्तादृशमाननं तद्विलसतीति तादृशसादृश्यावच्छिन्नमानन-मुद्दिश्य विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पद्म-
मिव मुखमित्यादाविवाह्लादकत्वादिधर्म उन्नेय इति वाच्यम् । उपमानोप-मेयशोभयोरपि वस्तुतोऽसाधारणत्वात् ।
‘ कोमलातपशोणाभ्रसंध्याकालसहोदर: ।
काषायवसनो याति कुड्कुमालेपनो यति: ॥
इत्यादौ धर्मान्तरस्याप्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसा-धारणत्वात्कथमुपमेति चेत्, अत्राहु:- उपमेयगतानामुपमानगतानां
चासाधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्व-कल्पनादुपमासिद्धि: । न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुड्कुमालेपकोमलातपादीनां वस्तुतो भिन्नानां साधारणत्वसिद्धयेऽत्यन्त-मसन्नभेद: सेन्द्रुं शक् नुयात्, भ्रमेणार्थसिद्धेरभावादिति वाच्यम् । प्रागुक्तेऽपि ‘ त्वयि कोपो ममाभाति सुधांशाविव पावक: ’ इत्यादावुपमा-नोपमेययोरत्यन्तासत्त्वेऽपि कल्पनामात्रतो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपादयिष्याम : । अयमेव बिम्बप्रतिबिम्ब-भाव इति प्राचीनैरभिधीयते ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP