उपमालंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
एतेन
‘ ढुँढुँणंतो हि मरीहिसि कण्टककलिआइँ केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो ण पावहिसि ॥ ’
इत्यत्रासमालंकारोऽयमुपमातिरिक्त इति वदन्तोऽलंकाररत्नाकरादय: परास्ता: ।
धर्मलुप्ता शौती वाक्यगता यथा-
‘ कलाधरस्येव कलावशिष्टा विलूनमूला लवलीलतेव । अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥
‘ ग्रीष्मचण्डकरमण्डल - ‘ इति प्रागुदाह्लते पूर्णाया उदाहरणे प्रावृषेण्यो वारिधर इव यो वृष्णिवरेण्य: स मे वेदनां हरत्विति वृष्णिवरेण्यमात्र-
गतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम्, वारिधरसादृश्यं च श्याम-त्वादिना यदि, तदा तत्राप्येषा बोध्या । इयांस्तु विशेष:-यत्पूर्णायां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजकं तादृशवारि-धरसादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धी: । धर्मलुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरण-कर्तृत्वमांत्र विधेयमित्युपमोहेश्यतावच्छेदिका ।
धर्मलुप्ता आर्थी वाक्यगता यथा-
‘ कोपेऽपि वदनं तन्वि तुल्यं कोकनदेत ते । उत्तमानां विकारेऽपि नापैति रमणीयता ॥ ’
धर्मलुप्ता समासगा श्रौत्यार्थी तद्धितगार्थी च यथा-
‘ सुधेव वाणी वसुधेव मूर्ति: सुधाकरश्रीसदृशी च कीर्ति: । पयोधिकल्पा मतिरासफेन्दोर्महीतलेऽन्यस्य नहीति मन्ये ॥ ’
र्हषदसमाप्तिरपि भड्रयन्तरेण सादृश्यमेव । वाचकलुप्ता समासगा-‘दरदलदरविन्दसुन्दरं’ इति प्रागुदाह्लते पद्ये ।
कर्माधारक्यज्गता क्यड्रता च यथा-
‘ मलयानिलमनलीयति मणिभवने काननीयति क्षणत: । विरहेण विकलह्लदया निर्जलमीनायते महिला ॥ ’
अत्रानलमिवाचरतीत्यर्थेऽनलशब्दात् ‘ उपमानादाचारे ’ इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन ‘ अधिकरणाच्च ’ इति वार्ति-केन क्यच् । निर्जलमीनशब्दाच ‘ कर्तु: क्यड् सलोपश्च’ इति क्यड् । आचार-मात्रार्थकतया क्यच्क्यडो: प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिप-त्तिरिति नये सादृश्यवाचकाभावाद्वाचकलुप्ता । अनलीयतीत्यादि समुदाय-
स्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्य-सादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ।
कर्तृकर्मणमुल्गता यथा-
‘ निरपायं सुधापायं पयस्तव पिबन्ति ये । जह्नुजे निर्जरावासं वसन्ति भुवि ते नरा: ॥ ’
अत्र सुधापायमिति सुधामिव, निर्जरावासमिति निर्जरा इवेति ‘ उपमाने कर्मणि च ’ इति कर्मणि चकारात्कर्तर्युपमान उपपदे णमुल । धर्मोपमानलुप्ता वाक्यगा समासगा च यथा--
‘ गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिन: सर्वे । सहकार न प्रपेदे मधुपेन तथापि ते समं जगति ॥ ’
‘ तथापि ते समं’ इति हित्वा ‘ भवत्सम’ इति यद्यार्या सुद्धैव विधी-यते तदेदमेवोदाहरणं समासगाया: ।
वाचकधर्मलुप्ता क्किब्गता यथा--
‘ कुचकलशेष्वबलानामलकायामथ पयोनिधे: पुलिने । क्षितिपाल कीर्तयस्ते हारन्ति हारन्ति हीरन्ति ॥’
अत्र हारहरहीरशब्दा आचारार्थके क्किपि लुप्ते धातव: । तव हारादि-शब्दा लक्षणया हारादिसादृश्यं बोधयन्ति । लुप्तोऽपि स्मृत: क्किबाचारमिति षक्षे वाचकधर्मलोप: स्पष्ट एव : हारादिशब्दा एव लक्षणया तादृश-सादृश्याभिन्नामाचारमितिपक्षे सादृश्यस्येव धर्मस्यापि तन्मात्रबोध-काभावाल्लोप एव ।
वाचकधर्मलुप्ता समासगा यथा-
‘ शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तय: ॥
अत्र वदनाम्बुजयोर भेद विवक्षया विशेषणसमासे दन्तालिकान्तीनां केसरसादृश्योक्तिरसंगता स्यात् । यतो ह्मम्बुजतादात्म्यसाधकं दन्तालि-कान्तीनां केसरतादात्म्यं न तु केसरसादृश्यम् । उपमितसमासे तु वदना-म्बुजयोर्धर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्धर्माणामौपम्योक्ति-
रुचितैव । अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाह्लता । विधेयतावच्छेदिका तु पूर्णैव ।
वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा-
‘ तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा । ममायं मानुषो लोको नाकलोक इवाभवत् ॥’
तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोप: । स्वयं तु सा नोपमेया । आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्कर्त्र्यामुपमेयायामुपमानत्वा-
संगते: । अत आत्मैवात्रोपमेयतयोन्नेय: । मृगचक्षुषेति मृगस्य चक्षुषी इव चक्षुषी अस्या इति ‘ सप्तम्युपमानपूर्वस्य ’ इति समासोत्तरपदलोपौ । मृगपदस्य भृगचक्षु:सदृशलाक्षणिकत्वपक्षे, वृत्तेर्विशिष्टार्थतावाचकतापक्षे-ऽपि स्वस्वमात्रबोधकपदाभावात्रयाणां लोप: । इति पञ्चविंशतिरुपमाभेदा: ।
इहान्यानपि भेदानन्ये निगदन्ति -- वाचकलुप्ता षड् विधोपवर्णिता । ‘ कर्तर्युपमाने ’ इति णिनौ सप्तम्यपि दृश्यते । कोकिल इवालपति कोकि-लालपिनीति । तथाष्टम्यपि -- ‘ इवे प्रतिकृतौ ’ इति कनि ‘ लुम्मनुष्ये ’ इति लुपि चञ्चेवेत्यर्थ ‘ चञ्ज्रा पुरुष: सोऽयं य: स्वहितं नैव जानीते ’ इत्यत्र ।
नवम्यपि -- आचारक्किपि पदान्तरेण प्रतिपादिते समाने धर्मे दृश्यते । ‘ आह्लादि वदनं तस्या शरद्राकामृगाड्कति’ इत्यादौ ।
उपमानलुप्ता वाक्यसमासयोर्द्विविधोपवर्णिता, तृतीयापि दृश्यते --
‘ यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृत: । उपनतमेतदकस्मादासीत्तक्ताकतालीयम् ॥’
इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवाथें ‘ समासाच्च तद्विषयात् ’ इति ज्ञापकात्सभासे काक इव ताल इव काक-तालमितिकाकतालसमागमसदृशश्वोराणामस्य च समागम इत्यर्थ: । तत:न्यकाकवधसदृशश्वोरकर्तृको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमाया-भुपम नस्य तालपतनजन्यकाकवधस्यानुपादानादुपमानलुप्ता ।
वाचकोपमानलुप्ता तु नाम्रैव न निर्दिष्टा । साप्यत्र प्रकृत्यर्थे दृश्यते । धर्मोपमानलुप्ता वाक्यसमासयोर्द्विविधैवोक्ता । सा चात्रापि तृतीय-चरणोक्तधर्मनिरासे प्रत्ययार्थे दृष्टा ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP