उपमालंकारः - लक्षण १७
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
एवम् -
‘ सरोजतामथ सतां शिशिरर्तवताधुना । दर्भतां सर्वधर्माणां राज्ञानेन विदर्भितम् ॥’
इत्यादौ मालारूपतायामपि ।
उपमेयानां स्वस्वोपमानानुपमानानामुपमानतायां रशनोपमा । यथा-
‘ वागिव मधुरा मूर्तिर्मूर्तिरिवात्यन्तनिर्मला कीर्ति: । कीर्तिरिव जगति सर्वस्तवनीया मतिरमुष्य विभो: ॥’
इयं धर्मभेदे ।
धर्मैक्ये तु-
‘ भूधरा इव मत्तेभा मत्तेभा इव सूनव: । सुता इव भटास्तस्य परमोन्नतविग्रहा: ॥’
धर्मलोपे तुतस्येत्यस्यानन्तरम् ‘ भटा इव युधि प्रजा: ’ इति बोध्यम् । इयमेवंभेदा प्राचीनैर्भेदैर्गुणने वागगोचरं भूभानं भजमाना नेयत्तामर्हतीति दिक ।
एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिह्लतालं-कारभावा ध्वनिव्यपदेशहेतु: । अस्यां चालंकारव्यपदेश: कदाप्यलंका-रभावमप्राप्तेषु मञ्जूषादिगतेषु कटकादिष्विवालंकुर्वाणगतधर्ममात्रसंस्पर्श-निबन्धन: । क्कचिदसौ शब्दशक्तिमूलानुध्वननविषय: । क्कचिदर्शशक्तिमू-लानुध्वननविषय: ।
आद्यो यथा-
‘ अविरलविगलद्दानोदकधारासारसिक्तधरणितल: । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥ ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP