उपमालंकारः - लक्षण ११

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा वा-
‘ रूपवत्यपि च क्रूरा कामिनी दु:खदायिनी । अन्त: काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥ ’

अत्र रूपवत्त्वदु:खदायित्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्ब-प्रतिबिम्बभावापन्ने दु:खदायित्वेन सह हेतुहेतुमद्भावेन । मिश्रिते, अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम्‍ । प्रकारान्तरं च लक्ष्यानुसारेण सुधीमि: स्वयमुन्नेतुं शक्यम ।

यथा-
‘ यथा लताया: स्तबकानताया: स्तनावनम्रे नितरां समासि । तथा लता पल्लविनी सगर्वे शोणाधराया: सदृशी तवापि ॥’

अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्वं मा विदध्या: । यत: शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिको-पमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपमे समसदृशशब्दाभ्यां प्रतिपादिते बिमप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकतासंबन्धेन प्रधानीभूतोपमोपमान-कान्तागतायामुपमायां प्रतिबिम्बभूतायां गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावा-

पद्मनमननम्रीभवनविशेषणयोर्बिम्बप्रतिबिम्बभावमापन्नयो: साधारणधर्म-त्वम्‍ । एवं तैनेव संबन्धेन लतारूपोपमेयगतायां बिम्बभूतायामुपमायामधर-पल्लवयो: । न च तेन सृदृश इत्यादौ तन्निरूपिसादृश्याश्रयस्योपमे-यस्य, तस्य सदृश इत्यादौ च तत्संबन्धिसादृश्याश्रयस्योपमानस्य प्रतीते:

सिद्धत्वाप्तकृते च सदृशीति शब्दान्निव्वेद्यमाने‍ऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम्‍ । सदृशशब्दप्रतिपाद्यधर्मभूतोपमायामुप-मानत्वे‍ऽपि यथातथाशब्दवेद्योपमायां लताया उपमेयत्वे बाधकाभावात्‍ । एवमन्येऽपि प्रकारा: ।

‘ यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका । यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ॥’

एभिर्भेदै: प्रागुक्तानां सधर्माणां भेदानां यथासंभवं गुणने बहुतरा भेदा भवन्ति । तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता । व्यड्रयत्वे व्यड्रयधर्मा, धर्मलोपे गदितैव ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP