उपमालंकारः - लक्षण १६
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा-
‘ ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्तकान्तवदनश्री: । राकेव रम्यरूपा राघवरमणी विराजते नितराम् ॥ ’
अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया, अड्रो-पमाभिनिष्पाद्यमानत्वाच्च साड्रा भवति ।
एकदेशविवर्तिनी सावयवा यथा--
‘ मकरप्रतिमैर्महाभटै: कविभी रत्नसमै: समन्वित: ’
कविताऽभृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि कारणम् ॥ ’
अत्रोत्तरार्धे उपमितसमास एव, विशेषणसमासवेद्यस्य तादात्म्यस्य
प्रकृतेऽनुपयोगात् । राज्ञो जलधेरुपमा शब्देनानभिहिताप्यड्रोपमा-भिराक्षिप्ता प्रतीयते, इत्येकदेशविवर्तनादेकदेशविवर्तिनी ।
केवलश्लिष्टपरम्परिता यथा-
‘ नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रिय: । सुरालये खलु क्षीबा देवा इव विरेजिरे ॥ ’
अत्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इति श्लिष्टपरम्परिता, अन्योन्योपायतारूपस्यैव परम्परितत्वस्येह परिभाषणात् । मालारूपताविरहाच्च केवला ।
मालारूपश्लिष्टपरम्परिता यथा-
‘ महीभृतां खलु गणे रत्नसानुरिव स्थित: । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥ ’
अत्र श्लेषोपस्थापिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषप-र्वभ्यां राज्ञ उपमयोरुपाय: । नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवित्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या । उपमानोपमेयशब्दयो: पार्थ-क्याभावादिति चेत्, श्लेषे ह्येकशब्दोपात्तत्वेन रूपेणाभेदाव्यवसानस्येव तेनैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वात्, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात् ।
केवलशुद्धपरम्परिता यथा-
‘ राजा युधिष्ठिरो नाम्रा सर्वधर्मसमाश्रय: । द्रुमाणामिव लोकानां मधुमास इवाभवत् ॥’
मालारूपशुद्धपरम्परिता यथा--
‘ मृगतं हरयन्मध्ये वृक्षतां च पटीरयन् । ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ॥ ’
उपमानयो: परस्परमुपमेययोश्चानुकूल्ये उपमयोरेषोपायता निरूपिता । प्रातिकूल्ये उपायता यथा-
‘ राजा दुर्योधनो नाम्रा सर्वसत्त्वभयंकर: । दीपानामिव साधूनां झञ्झावात इवाभवत् ॥’
अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्व साधुदुर्योधनयो:
प्रातिकूल्येऽप्युपमयो: परस्परमानुकूल्यादुपायतैव ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP