उपमालंकारः - लक्षण २३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयोर्नास्ति, तयोस्त्राणकर्तृत्वस्य सिद्धत्वात्‍ । यदि तु त्रायत इति प्रार्थनानिर्मुक्तं त्राण-कर्तृत्वमुच्यते तदा धर्मस्य साधारणत्वान्न दोष: । अथ त्रायत इति प्रार्थ्य-मानतानिर्मुक्तेऽपि त्राणकर्तृत्वे न साधारणत्वम्‍ । प्रार्थ्यमानताया इव विधे-यतानुवाद्यत्वयोर्भेदकत्वादिति चेत्‍ । सत्यम । इह हि धर्मलोपरहितायामुप-

मायां धर्मवाचकशब्दप्रतिपाद्यै: प्रार्थना । भूतभविष्यद्बर्तमानत्वादिभिर्वि-शेषणैर्विशिष्टधर्मस्योपमानोपमेयसाधारण्याभावे प्रयोजकाभावान्नोपमानि-ष्पत्तिरिति निर्विवादम्‍ । तत्र विधेयत्वानुवाद्यत्वाभ्यां शब्देनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नास्ति साधारण्यं मास्तु नाम । नह्मुदासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यमपेक्षितम्‍, अपि तु धर्म-वाचकशब्दनिवेदितै: । एवं । चन्द्रवत्सुन्दरं मुखमित्यत्रापि सुन्दरत्वस्यो-पमानेऽनुवाद्यत्वे उपमेये च विधेयत्वेऽपि न साधारण्यहानि: ।

ननु
‘ नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनाया: । प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाड्क ॥ ’

इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपों‌ऽड्क आननरूपोपमे-यविशेषणस्वबिम्बाभावात्कस्य प्रतिबिम्ब: स्यात्‍ । अत आधिक्यापादकतया

दोष: । न च हिरणनयनसदृशस्य नयनस्योपादानात्तस्यैव बिम्बस्य प्रतिबिम्ब: स्यादिति वाच्यम्‍ । तादृश्यनयनस्य बहुव्रीह्यर्थकान्ताबिशेषणतया आननाविशेषणत्वेन बिम्बत्वाभावादिति चेत्‍, मैवम् । शब्देनाननविशेषण-त्वेन तादृशनयनस्याप्रतिपादनेऽपि कान्ताविशेषणत्वेनैवाननवृत्तित्वस्यापि प्रतिपत्ते: । नह्याननमविषयीकृत्य कान्तां विशेष्टुमीष्टे नयनम्‍, अनुभव-विरोधात्‍ । तथापि समभिव्याहारविशेषमापन्नेन शब्देनाप्रीतपादना-

च्छाबदे बोधे नानन स्य नयनविशिष्टत्वेन विषयत्वमिति चेत्‍, संसर्गत्वे बाधकाभावात्स्वविशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात्‍ । यथाकथंचिदुपमेयवृत्तिताज्ञानस्य विम्बताप्रयोजकत्वात्‍ । यद्धा कान्ता-विशेषणतया तादृशनयनयो: शाब्दे बोधे वृत्ते पश्चादाननस्य तद्विशेष्य-तया वैयञ्जनिके मानसे वा बोधे बाधकाभावात्‍ । एवं च तादृशवाक्य-प्रयोज्ये ज्ञाने उपमेयविशेषणतया भातस्य तादृशनयनस्य बिबस्य सत्त्वात्तदर्थं च चन्द्रगतस्यैणरूपस्याड्कस्य प्रतिबिम्बतयोपादानमावश्यकमे-वेति नाधिक्यं दोष: । कविसमयसिद्धतया चमत्कारापकर्षकत्वाभावेन लिड्रभेदो‍ऽपि नात्र दोष: । एवं च कविसमयसिद्धतया प्रकारान्तरेण वा प्रागुक्तानां दोषाणां चमत्कारानपकर्षकत्वे नास्त्येव दोषत्वम्‍ ।
यथा-
‘ नवाड्रनेवाड्रणेपि गन्तुमेष प्रकम्पते । इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ॥’

एवमन्यत्रापि ज्ञेयम्‍ । शेषं स्मरणलंकारप्रकरणे विकल्पप्रकारणे च वक्ष्याम: । इत्युपमानिरूपणसंक्षेप: ॥

इति रसगड्राधरे उपमाप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP