उपमालंकारः - लक्षण १४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा-
‘ अद्वितीयं रुचात्मानं मत्वा किं चन्द्र ह्लष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम्‍ ॥’

कस्यचिद्विदेशस्थितस्य किरणैरात्मानं संतापयन्तं चन्द्रं पत्येषोक्ति: । अत्र च अस्ति मम प्रियाया: कदापि बहिरनिर्गताया:, अत एव त्वया-

प्यदृष्टाया आननं त्वत्सदृशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमा-नायां चन्द्रविषयायां वक्तृगतायामसूयायामलंकार: । एतेनाप्पयदीक्षितै-रुपमालक्षणे दत्तमव्यड्रयत्वविशेषणमयुक्तमेव । नहि व्यड्रयत्वालंकार-त्वयोरस्ति कश्चिद्विरोध: । प्राधान्येन व्यड्रयतायां तु प्रधानत्वालंकार-त्वयोर्विरोधादलंकारलक्षणं तत्र मातिप्रसाड्क्षिदित्युपस्कारकत्वेन पुनर्विशेष-णीयम्‍, न त्वव्यड्रयत्वेन, प्रागुक्तायामसूयालंकारोपमायामव्याप्त्यापत्ते: ।

विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्धयड्रतया गुणीभूतव्य-ड्रयत्वम्‍, सिद्दार्थस्योपस्करणाभावातु नालंकारत्वमिति न काप्यसंगति: ।
यच्चापि “ सेयमुपमा संक्षेपतस्त्रिविधा-क्कचित्स्ववैचित्र्यमात्र-विश्रान्ता । यथा ‘ स च्छिन्नमूल: क्षतजेन रेणु: ’ इत्यादौ । क्कचिदुक्तार्थोप-पादनपरा । यथा ‘ अनन्तरत्नप्रभवस्य ’ इत्यादौ ” । कचिब्द्यड्रयप्रधाना

सा इति तैरेव द्रविडशिरोमणिभिरभ्यधीयत । तदप्यह्लद्यमेव । ‘ नयने शिशिरेकरोतु मे शरदिन्दुप्रतिमं मुखं तव’ इति वाच्यवस्तूपस्कारिकाया: शरदिन्दूपमाया अक्रोडीकरणात्‍ । अलंकारभूतोपमासु स्ववैचित्रमात्र-निश्रान्ताया उपमाया: संग्रहे, को नाम ध्वन्यमान्यायास्तस्या निरासायाव्य-ड्रयत्वविशेषणदानदुराग्रह: ? अहो महदेवेदमन्याय्यम्‍-यदलक्षणीयाया:संग्रह:, लक्षणीयायाश्चासंग्रह इति । प्राचीनानां तूपमासामान्यं लक्षयतां ध्वन्यमानाया इवास्या अपि संग्रहो नानुचित: । न तु स्वस्य यत्नेन ध्वन्य-मानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्ध-व्यड्रयोपस्कारकत्वेनेयं संगृह्यत इत्युच्यते तदा ‘ स्ववैचित्र्यमात्रविश्रान्ता’

इति स्वोक्तिर्विरुद्धा स्यातू । ‘ अनन्तरत्नप्रभवस्य ’ इत्यत्र गुणसमूह-समानाधिकरण एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादि-तार्थसमर्थनात्मकस्य सामान्यरूपय विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरणसमानाधिकरणो‍ऽड्कउदाह्लत:, न तूपमानतया निर्दिष्ट: । सामान्याद्विशेषस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालंकृतेरत्रानवतारादुदाहरणालंकारो‍ऽयमतिरिक्त: । यथा ‘इको

यणचि, इति वाक्यार्थस्य सामान्यस्य विज्ञानायोकारे दध्यु दकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदाह्लियते तद्वदत्रापीति तत्प्रसड्रे विवेचयिष्याम: ।
यच्चाप्पयदीक्षितै: लुप्तायां तु ‘ नैवं भेदा: । तस्यां साधारणधर्मस्यानुगा मितानियमात्‍ ‘ इत्युक्तम्‍, तन्न । ‘ मलय इव जगति पाण्हुर्वल्मीक इवा.धिधरणि धृतराष्ट्र:’ इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्‍, सर्पाणां दुर्योधनादीनां च बिम्बप्रतिबिम्बभावस्यैव प्रतिपते: । न च शब्दे-नोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचित: । श्रौतत्वा-

र्थत्वभ्यां बिम्बप्रतिबिम्बभावस्य द्वैविध्यौचित्यात्‍ । अत एवाप्रस्तुतप्रशंसादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयवबिम्बप्रतिबिम्बभावमूलं संगच्छते ।
इयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तवस्तु-विषयसावयवा, एकदेशविवर्तिसावयवा, केवलश्र्लिष्टपरम्परिता, मालारूप-श्र्लिष्टपरम्परिता, केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता चेत्यष्टधा । पेक्षत्वम्‍ । इयं च शतश: प्रागेवोदाह्लता ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP