उपमालंकारः - लक्षण ६
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
वाचकधर्मलुप्ता क्किप्समासयोर्द्वयोरेव कथिता । सापि ‘ चञ्चा पुरुष: सोडयं योऽत्यन्तं विषयवासनाधीन: ’ इत्यत्र स्वहिताकरणरूपस्य धर्मस्या-नुपादाने कनो लोपे विलोक्यते । एवं च द्वात्रिंशद्भेदा: । अत्रेदमवधेयम्--कर्माधारक्यचि क्यडि च वाचकलुप्तोदाहरणं प्राचामसंगतमिव प्रतीयते, धर्मलोपस्यापि तत्र संभवात् । न च क्यजाद्यर्थ आचार एव साधारणधर्मोऽस्तीति वक्तव्यम् । धर्ममात्ररूपस्याचारस्योपमा-प्रयोजकत्वाभावात् । ‘ नारीयते सपत्नसेना’ इत्यादौ वृत्त्यन्तरनिवेदितै: कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्त्योपमानिष्पादकत्वात् । यदि च क्यडर्थ आचारमात्रमुपमानिष्पादकं स्यात्तदा ‘ त्रिविष्टपं तत्खलु भार-तायते ’ इत्यादौ सुप्रसिद्धत्वादिरूपाचारोपस्थितावप्युपमालंकृतेरनिष्पत्ते:, तस्यैव च ‘सुपर्वभि: शोभितमन्तराश्रितै: ‘ इति चरणान्तरनिर्माणे तम्या
निष्पते: क्यडाद्यर्थ: साधारणोऽपि नोपमां प्रजोजयति । उपमाप्रयोजक-तावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशब्देनाभिधा-नात् । अन्यथा ‘ मुखरूपमिदं वस्तु प्रकुल्लमिव पड्कजम् ’ इत्यादौ पूर्णोंप-मापत्तेरिति दिक् ।
इति सादृश्ये द्विर्भावविधानात् ” इति निगदितं तत्तुच्चम् । अत्र च वाच-क्स्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधिक्यमुद्भावयितुमुचितम्, न तु धर्मलुप्तायाम् । धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षनात् । अन्यथा एकलुप्तास्वेव द्विलुप्तानां त्रिलुप्तायाश्व ग्रहणात्पृथगुपादानमसंबद्धमेव स्यात् । न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोप: अपि तु धर्ममात्रस्येति वक्तुं शक्यम् । द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात् ।
तदुक्तं कैयटेन ‘ प्रकारे गुणवचनस्य ’ इति सूत्रे सिद्धं त्विति प्रतीकमुपा-दाय-‘ द्विर्वचनस्य प्रकृति: स्थानी इति तदर्थो विशेष्यते न तु प्रकार: । तत्र सर्वस्य गुणवचनत्वाव्द्यभिचाराभावात् तद्ग्रहणाद्गुणवचनो य: शब्दो निर्ज्ञातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थ: ’ इति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP