उपमालंकारः - लक्षण २०
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
बिम्बप्रतिबिम्बभावापत्रे तु-
‘ कोमलातपशोणाभ्रसंध्याकालसहोदर: । कुड्कुमालेपनो याति काशायवसनो यति: ॥ ’
इत्यादौ कुड्कुमालेपनादिविशिष्टो यति: कोमलातपादिविशिष्टसंध्याकाल-सदृशाभिन्न इति शकत्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाड्क्षायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्याध्यवसाने साधारणत्वनिष्पति: । कुड्कुमालेपकाषायवसनाभ्यामयं यतिरित्यत्र कुड्कुमा-लेपकाषायवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कल्पनीय-साद्रुश्यनिष्पत्तिप्रयोजकत्वात्प्रोज्यत्वेन सादृश्येऽन्वय: । एकदेशान्वय: पुनरेषु पक्षेष्वगतिकतयाश्रीयत इत्युक्तमेव ।
सादृश्यस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणया-रविन्दवृत्तिसमानधर्म: प्रतीयते । तस्य चाभेदेन सुन्दरपदार्थेकदेशेन सुन्दरत्वेनान्वय: । अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवपदार्थेन समानधर्मेपणान्वेति । शेषं प्राग्वतू । सौन्दर्येणारवि-न्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया
अन्यया च निरूपतत्वार्थिकया । सौन्दर्याभिन्नमरविन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति धी: । क्यडर्थाचारो धर्ममात्रम् । तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्यं प्रजोजकतासंसर्गेणाभेदेन वा विशेष-णम् । विशेष्यं चाश्रयतयोपमेयम् । क्यजर्थाचारश्चानुरूपक्तियादिरिति दिक् ।
तत्रेवादीनां द्योतकत्वमेव न वाचकत्वम्, निपातत्वादुपसर्गवत् । द्योतकत्वं च स्वसममिव्याह्लतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थ-बोधने तात्पर्यग्राहकत्वेनोपयोगित्वमिति वैयाकरणा: । उपसर्गाणां द्योतक-त्वमावश्यकम् । अन्यथा उपास्यते गुरु:, अनुभूयते सुखम्, इत्यादौ गुर्वा-देर्लेनाभिधानं न स्यात् धात्वर्थकर्मताविरहात् । हवादीनां तु वाचकत्वम्, बाधकाभावात् । प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधक: । अन्यथा अव्यय-त्वादिति हेतुना अव्ययमात्रस्यैव द्योतकतापत्तिरिति नैयायिका: ।
अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोष: । कविसमय-
प्रसिद्धिराहित्यम्, उपमानोपमेययोर्जात्या प्रमाणेन लिड्रसंख्याभ्यां चान-नुरूप्यम्, बिम्बप्रतिबिम्बभावे धर्माणभुपमानोपमेयगतानां न्यूनाधिक्यम्, अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम्, एवमादि ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP