चतुर्थं ब्राम्हणम् - भाष्यं ४
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
भाष्यं :--- श्रद्धातात्पर्यप्रणिपातादीनामहेतुत्वमिति चेत् । स्यान्मतम् - “श्रद्धावालँलभते ज्ञानं तत्पर: संयतेन्द्रिय:” “तद्विद्धि प्रणिपातेन” इत्येवमादीनां श्रुतिस्मृतिविहितानां ज्ञानहेतूनामहेतुत्वं प्रजापतेरिव जन्मान्तरकृतधर्महेतुत्वे ज्ञानस्येति चेत् । न । निमित्तविकल्पसमुच्चयगुणवदगुणवत्त्वभेदोपपत्ते: । लोके हि नैमित्तिकानां कार्याणां निमित्तभेदोऽनेकधा विकल्प्यते ॥
भाष्यं :--- तथा निमित्तसमुच्चय: । तेषां च विकल्पितानां समुच्चितानां च पुनर्गुणवदगुनवत्त्वकृतो भेदो भवति । तद्याथा रूपज्ञान एव तावन्नैमित्तिके कार्ये । तमसि विनाऽऽलोकेन चक्षूरूपसंनिकर्षो नक्तंचराणां रूपज्ञाने निमित्तं भवति । मन एव केवलं रूपज्ञाननिमित्तं योगिनामस्माकं तु संनिकर्षालोकाभ्यां सह । तथाऽऽदित्यचन्द्राद्यालोकभेदै: समुच्चिता निमित्तभेदा भवन्ति । तथाऽऽलोकविशेषगुणवदगुणवत्त्वे भेदा: स्यु: ॥
भाष्यं :--- एवमेवाऽऽत्मैकत्वज्ञानेऽपि क्वचिज्जन्मान्तरकृतं कर्म निमित्तं भवति । यथा प्रजापते: । क्वचित्तपो निमित्तम् । “तपसा ब्रम्हा विजिज्ञासस्व” इति श्रुते: । क्वचिद “आचार्यवान्पुरुषो वेद” “श्रद्धावालँलभते ज्ञानम्” “तद्विद्धि प्रणिपातेन” “आचार्याद्धैव द्रष्टव्य: श्रातेव्य:” इति श्रुतिस्मृतिभ्य एकान्तज्ञानलाभनिमित्तत्त्वं श्रद्धाप्रभृतीनाम् । अधर्मादिनिमित्तवियोगहेतुत्वात् ॥
भाष्यं :--- वेदान्तश्रवणमनननिदिध्यासनानां च साक्षाज्ज्ञेयविषयत्वात् । पापादिप्रतिबन्धक्षये चाऽऽत्ममनसोर्भूतार्थज्ञाननिमित्तस्वाभाव्यात् । तस्मादहेतुत्वं न जातु ज्ञानस्य श्रद्धाप्रणिपातदीनामिति ॥२॥
श्रुति :--- स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् । स हैतावानास यथा स्त्रीपुमा सौ संपरिष्वक्तौ स इममेवाऽऽत्मानं द्वेधापातयत्तत: पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह याज्ञवल्क्यस्तस्मादयमाकाश: स्त्रिया पूर्यत एव ता समभवत्ततो मनुष्या अजायन्त ॥३॥
अर्थ :--- तो प्रजापति रममाण झाला नाहीं. त्यामुळेंच आतांहि एकाकी प्राणी रममाण होत नाहीं. त्यानें दुसर्या वस्तूची इच्छा केली; तेव्हां परस्पर संबद्ध स्त्री - पुरुष ज्या परिमाणाचे होतात तेवढया परिमाणाचा तो झाला. तो याच आपल्या देहाला दोन प्रकारें पाडविता झाला. त्यामुळें पति व पत्नी असें दांपत्य झालें. म्हणून स्वत:चेंच हें शरीर अर्ध्या वेळूच्या कांबीसारखें आहे असें याज्ञवल्क्य म्ह० यज्ञवल्क्याचा पुत्र दैवराति म्हणाला. तस्मात् हा पुरुषार्ध स्त्रीकडून पूर्ण केला जातो. तिच्याशीं तो संयुक्त झाला. त्यामुळें मनुष्य उत्पन्न झाले. ॥३॥
भाष्यं :--- इतश्च संसारविषय एव प्रजापतित्वं यत: स प्रजापतिर्वै नैव रेमे रतिं नान्वभवदरत्याविष्टोऽभूदित्यर्थोऽस्मदादिवदेव यत इदानीमपि तस्मादेकाकित्वादिधर्मत्वादेकाकी न रमते रतिं नानुभवति । रतिर्नामेष्टार्थसंयोगजा क्रीडा । तत्प्रसङगिन इष्टवियोगान्मनस्याकुलीभावोऽरतिरित्युच्यते । स तस्या अरतेरपनोदाय द्वितीयमरत्यपघातसमर्थं स्त्रीवस्त्वैच्छदगृद्धिमकरोत् । तस्य चैवं स्त्रीविषयं गृध्यत: स्त्रिया परिष्वक्तस्येवाऽऽत्मनो भावो बभूव । स तेन सत्येप्स्य्त्वादेतावानेतत्परिमाण आस बभूव ह ॥
भाष्यं :--- किंपरिमाण इत्याह । यथा लोके स्त्रीपुमांसावरत्यपनोदाय संपरिष्वक्तौ यत्परिमाणौ स्यातां तथा तत्परिमाणो बभूवेत्यर्थ: । स तथा तत्परिमणमेवेममात्मानं द्वेधा द्विप्रकारमपातयत्पातितवान् । इममेवेत्यवधारणं मूलकारणाद्विराजा विशेषणार्थम । न क्षीरस्य सर्वोपमर्देन दधिभावापत्तिवद्विराट सर्वोपमर्देनैतावानाऽऽस । किं तहर्यात्मना व्यवस्थितस्यैव विराज: सत्यसंकल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसपरिष्वक्तपरिमाणं शरीरान्तरं बभूव ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP