चतुर्थं ब्राम्हणम् - भाष्यं ३०

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- एतस्य हयविदुषो वर्णाश्रमादिप्रविभागवतोऽधिकृतस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रम्हान्त उत्कर्ष: । शास्त्रोक्तविपरीत्स्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिको ब्राम्हान्त उत्कर्ष: । शास्त्रोक्तविपरीतस्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिक एव स्थावरान्तोऽपकर्ष: । यथा चैतत्तथा ‘अथ त्रयो वाव लोका: इत्यादिना वक्ष्याम: कृत्स्ननैवाध्यायशेषेण । विद्यायाश्च कार्यं सर्वात्मभावापत्तिरित्येतत्संक्षेपतो दर्शितम् । सर्वा हीयमुपनिषद्विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा । यथा चैषोऽर्थ: कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्याम: । यस्मादेवं तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुमनुग्रहं चेत्येतद्दर्शयति ॥

श्रुति :--- यथा ह वै बहव: पशवो मनुष्यं भुञ्ज्युरेवमेकैक: पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीय़मानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्यु: ॥१०॥

अर्थ :--- व्यवहारांत ज्याप्रमाणें पुष्कळ पशू मनुष्यास पाळतात त्याप्रमाणें एकेक पुरुष - मनुष्य देवांना पाळतो. एखाद्याच पशूला व्याघ्रादिकानें उचलून नेलें असतांहि मनुष्याचें अप्रिय होतें. मग पुष्कळ पशूंचा अपहार केल्यास काय विचरावें ? म्हणून मनुष्यांनीं ब्रम्हातत्त्वाला जाणावें, हें देवांना प्रिय नाहीं. ॥१०॥

भाष्यं :--- यथा ह वै लोके बहवो गोश्वादय: पशवो मनुष्यं स्वामिनमात्मनोऽधिष्ठातारं भुञ्ज्यु: पालयेयुरेवं बहुपशुस्थानीय एकैकोऽविद्वान्पुरुषो देवा न्देवानिति पित्राद्युपलक्षणार्थं भुनक्ति पालयतीति । इम इन्द्रादयोऽन्ये मत्तो ममेशितारो भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिना‌ऽऽराधनं कृत्वाऽभ्युदयं नि:श्रेयसं च तत्प्रत्तं फलं प्राप्स्यामीत्येवमभिसंधि: ॥

भाष्यं :--- तत्र लोके बहुपशुमतो यथैकस्मिन्नेव पशावादीयमाने व्याघ्रादिनाऽपहिनयमाणे महदप्रियं भवति तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावाद्वयुत्तिष्ठत्यप्रियं भवतीति किं चित्र देवानां बहुपश्वपहरण इव कुटुम्बिन: ।
तस्मादेषां देवानां तन्न प्रियं किं तद्यदेतदब्रम्हात्मतत्त्वं कथंचन मनुष्या विद्युर्विजानीयु: । तथा च स्मरणमनुगीतासु भगवतो व्यासस्य । “क्रियावद्भिर्हि कौन्तेय देवलोक: समावृत: । न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम्” इति ॥  

भाष्यं :--- अतो देवा: पशूनिव व्याघ्रादिभ्यो ब्रम्हाविज्ञानाद्विघ्नमाचिकीर्षन्ति । अस्मदुपभोग्यत्वान्मा व्युत्तिष्ठेयुरिति । यं तु मुमोचयिषन्ति तं श्रद्धादिभिर्योक्ष्यन्ति विपरीतमश्रद्धादिभि: । तस्मान्मुमुक्षुर्देवाराधनपर: श्रद्धाभक्तिपर: प्रणेयोऽप्रमादी स्याद्विद्याप्राप्तिं प्रति विद्यां प्रतीति वा काक्वैतत्प्रदर्शितं भवति देवाप्रियवाक्येन ॥१०॥

भाष्यं :--- सूत्रित: शास्त्रार्थ आत्मेत्येवोपासीतेति । तस्य च व्याचिख्यासितस्य सार्थवादेन तदाहुर्यदब्रम्हाविद्ययेत्यादिना संबन्धप्रयोजने अभिहिते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP