चतुर्थं ब्राम्हणम् - भाष्यं ९

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :--- तद्धेदं तहर्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदरूप इति ॥

अर्थ :---  हेंच तें जगत् उत्पत्तीच्या पूर्वीं अव्यक्त होतें. तेंच अव्याकृत असलेलें जगत् नाम व रूप यांच्या योगानें व्यक्त झालें. हा ‘या नांवाचा व या रूपाचाम असें तें व्यक्त झालें. तें हें अव्याकृतत वस्तुजात सांप्रतकालिंहि नामरूपांच्या योगानेंच - हा अमुक नांवाचा, अमुक रूपाचा - अशाच रीतीनें व्यक्त केलें जातें.

भाष्यं :---  “तद्धेदं तहर्यव्याकृतमासीत्” सर्व वैदिकं साधनं ज्ञानकर्मलक्षणं कर्त्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं साध्यमेतावदेव यदेतव्द्याकृतं जगत्संसार: ॥

भाष्यं :---  अथैतस्यैव साध्यसाधनलक्षणस्य व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्था या तां निर्दिदिक्षत्यङकुरादिकार्यानुमितामिव वृक्षस्य । कर्मबीजोऽविद्याक्षेत्रो हयसौ संसारवृक्ष: समूल उद्धर्तव्य इति । तदुद्धरणे हि पुरुषार्थपरिसमाप्ति: । तथा चोक्तम् “ऊर्ध्वमूलोऽवाक्शाख:” इति काठके । गीतासु च “ऊर्ध्वमूलमध: शाखम ” इति । पुराणे च “ ब्रम्हावृक्ष: सनातन:” इति ॥

भाष्यं :---   तद्धेदं तदिति बीजावस्थं जगत्प्रागुत्पत्तेस्तर्हि तस्मिन्काले परोक्षत्वात्सर्वनाम्नाऽप्रत्यक्षाभिधानेनाभिधीयते । भूतकालसंबन्धित्वादव्याकृतभाविनो जगत: । सुखग्रहणार्थमैतिहयप्रयोगो हशब्द: । एवं ह तदाऽऽसीदित्युच्यमाने सुखं तां परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते युधिष्ठिरो ह किल राजऽऽसीदित्यक्ते यद्वत । इदमिति व्याकृतनामरूपात्मकं साध्यसाधनलक्षणं यथावर्णितमभिधीयते । तदिदंशब्दयो: परोक्षप्रत्यक्षावस्थजगद्वाचकयो: सामानाधिकरण्यादेकत्वमेव परोक्षप्रत्यक्षावस्थस्य जगतोऽवगम्यते । तदेवेदमिदमेव च तद व्याकृतमासीदिति  । अथैवं सति नासत उत्पत्तिर्न सतो विनाश: कार्यस्येत्वधृतं भवति ।

भाष्यं :---  तदेवंभूतं जगव्द्याकृतं सन्नामरूपाभ्यामेव नान्मा रूपेणैव च व्याक्रियत । व्याक्रियतेति कर्मकर्तृप्रयोगात्तत्स्वयमेवाऽऽत्मैव व्याक्रियत वि आ अक्रियत विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत । सामर्थ्यादाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम् ॥

भाष्यं :---  असौनामेति सर्वनान्माऽविशेषाभिधानेन नाममात्रं व्यपदिशति । देवदतो यज्ञदत्त इति या वा नामास्येत्यसौनामाऽयम्‌ । तथेदमिति शुक्लक्रुष्णादीनामविशेष: । इदं शुक्लमिदं कृष्णं वा रूपमस्येतीदंरूप: । तदिदमव्याकृतं वस्त्वेत हर्येतस्मिन्नपि काले नामरूपाभ्यामेव व्याक्रियतेऽसौनामाऽयमिदंरूप इति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP