चतुर्थं ब्राम्हणम् - भाष्यं २९
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
भाष्यं :--- एतेन सम्यग्ज्ञानानन्तरमेव शरीरपाताभाव: कस्मादित्येतत्परिहृतम् । ज्ञानोत्पत्ते: प्रागूर्ध्वं तत्कालजनमान्तरसंचितानां च कर्मणामप्रवृत्तफलानां विनाश: सिद्धो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव ॥
भाष्यं :--- “क्षीयन्ते चास्य कर्माणि” “तस्य तावदेव चिरम्” “सर्वे पाप्मान: प्रदूयन्ते” “ तं विदित्वा न लिप्यते कर्मणा पापकेन” “एतमु हैवैते न तरत:” “नैनं कृताकृते तपत:” “एतं ह वाव न तपति” “न बिभेति कुतश्चन” इत्यादिश्रुतिभ्यश्च । “ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते” इत्यादिस्मृतिभ्यश्च ॥
भाष्यं :--- यत्तु ऋणै: प्रतिबध्यत इति । तन्न । अविद्याविषयत्वात । अविद्यावान्हयृणी । तस्य कर्तृत्वाद्युपपत्ते: । ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत’ इति हि वक्ष्यति । अनन्यत्सद्वस्त्वात्माख्यं यत्राविद्यायां सत्यामन्यदिव स्यात्तिमिरकृतद्वितीयचन्द्रवत्तत्राविद्याकृतानेककारकापेक्षं दर्शनादि कर्म तत्कृतं फलं च दर्शयति तत्राण्योऽन्यत्पश्येदित्यादिना ॥
भाष्यं :--- यत्र पुनर्विद्यायां सत्यामविद्याकृतानेकत्वभ्रमप्रहाणं तत्केन कं पश्येदिति कर्मासंभवं दर्शयति । तस्मादविद्यावद्विषय एव ऋणित्वं कर्मसंभवान्नेतरत्र । एतच्चोत्तरत्र व्याचिख्यासिष्यमाणैरेव वाक्यैर्विस्तरेण प्रदर्शयिष्याम: ॥
श्रुति: :--- अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेव स देवानाम् ।
अर्थ :--- आतां जो ‘हा अन्य आहे व मी अन्य आहें’ असें समजून आत्मभिन्न देवतेची उपासना करितो, तो तत्त्व जाणत नाहीं. इतकेंच नव्हे, तर आम्हांला जसा पशु ओझें वाहणें इत्यादि कार्यांच्या उपयोगी असतो तसा तो अविद्वान् देवांच्या उपयोगी असतो.
भाष्यं :--- तद्यथेहैव तावत् । अथ य: कश्चिदब्रम्हाविदन्यामात्मनो व्यतिरिक्तां यां कांचिद्देवतामुपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानध्यानादिनोपास्ते तस्या गुणभावमुपगम्याऽऽस्ते । अन्योऽसावनात्मा मत्त: पृथगन्योऽहमस्म्यधिकृतो मयाऽस्मा ऋणिवत्प्रतिकर्तव्यमित्येवंप्रत्यय: सन्नुपास्ते न स इत्थंप्रत्ययो वेद विजानाति तत्त्वं न स केवलमेवंभूतोऽविद्वानविद्यादोषवानेव किं तर्हि यथा पशुर्गवादिर्वाहनदोहनाद्युपकारैरुपभुज्यत एवं स इज्याद्यनेकोपकारैरुपभोक्तव्यत्वादेकैकेन देवादीनाम । अत: पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थ: ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP