चतुर्थं ब्राम्हणम् - भाष्यं १७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- यत्तूक्तं विज्ञाय प्रज्ञां कुर्वीतेत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति । सत्यमेतत । किंतु नापूर्वविध्यर्थता पक्षे प्राप्तस्य नियमार्थतैव ॥

भाष्यं :--- कथं पुनरुपासनस्य पक्षप्राप्तिर्यावता पारिशेष्यादात्मविज्ञानस्मृतिसंततिनित्यैवेत्यभिहितम् । बाढम । यद्यप्येवं शरीरारम्भकस्य कर्मणो नियतफलत्वात्सम्यग्ज्ञानप्राप्तावप्यवश्यंभाविनी प्रवृत्तिर्वाङमन:कायानाम् । लब्धवृत्ते: कर्मणो बलीयस्त्वान्मुक्तेष्वादिप्रवृत्तिवत् । तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् । तस्मात्यागवैराग्यादिसाधनबलावलम्बेनाऽऽत्मविज्ञानस्मृतिसंततिर्नियन्तव्या भवति न त्वपूर्वा कर्तव्या प्राप्तत्वादित्यवोचाम । तस्मात्प्राप्तविज्ञानस्मृतिसंताननियमविध्यर्थानि विज्ञान प्रज्ञां कुर्वीतेत्यादिवाक्यान्यन्यार्थासंभवात् ॥

भाष्यं :--- अनात्मोपासनमिदमितिशब्दप्रयोगात् । यथा प्रियमित्येतदुपासीतेत्यादौ न प्रियादिगुण एवोपास्य: किं तर्हि प्रियादिगुणवत्प्राणाद्येवोपास्यम् । तथेहापीतिपरात्मशबप्रयोगादात्मगुणवदनात्मवस्तूपास्यमिति गम्यते ॥

भाष्यं :--- आत्मोपास्यत्ववाक्यवैलक्षण्याच्च । परेण च वक्ष्यत्यात्मानमेव लोकमुपासीतेति । तत्न च वाक्य आत्मैवोपास्यत्वेनाभिप्रेतो द्वितीयाश्रवणादात्मानमेवेति । इह  तु न द्वितीया श्रूयत इतिपरश्चाऽऽत्मशब्द आत्मेत्येवोपासीतेति । अतो नाऽऽत्मोपास्य आत्मगुणश्चान्य इति त्ववगम्यते ॥

भाष्यं :--- न । वाक्यशेष आत्मन उपास्यत्वेनावगमात । अस्यैव वाक्यस्य शेष आत्मैवोपस्यत्वेनावगम्यते । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽन्तरतरं यदयमात्माऽऽत्मानमेवावेदिति ॥

भाष्यं :--- प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत । यस्याऽऽत्मनप्रवेश उक्तस्तस्यैव दर्शनं वार्यते तं न पश्यन्तीति प्रकृतोपादानात् । तस्मादात्मभिप्रायेण नाऽऽत्मोपास्यत्वप्रतिषेधाय प्राणनादिक्रियाविशिष्टत्वेन विशेषणात् ॥

भाष्यं :--- आत्मनश्चेदुपास्यत्वमनभिप्रेतं प्राणनाद्येकैकक्रियाविशिष्टस्याऽऽत्मनोऽकृत्स्नत्ववचनमनर्थकं स्यादकृत्स्नो हयेषोऽत एकैकेन भवतीति । अतोऽनेकैकविशिष्टस्त्वात्मा कृत्स्नत्वादुपास्य एवेति सिद्धम् ॥

भाष्यं :--- यस्त्वात्मशब्दस्येतिपर: प्रयोग: स आत्मशब्द्प्रत्यययोरात्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञानपानार्थम् । अन्यथाऽऽत्मानमुपासीतेत्येवमवक्ष्यत । तथा चार्थादात्मनि शब्दप्रत्य्यावनुज्ञातौ स्याताम् । तच्चानिष्टम् । “नेति नेति” “विज्ञातारमरे केन विजानीयात्” “अविज्ञातं विज्ञातृ” “यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह” इत्यादिड्रुतिभ्य: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP