संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
चतुर्थोऽध्यायः

भविष्यपर्व - चतुर्थोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


कलियुगस्य वर्णनम्

जनमेजय उवाच
एवं विलुलिते लोके मनुष्याः केन पालिताः ।
निवत्स्यन्ति किमाचाराः किमाहारविहारिणः ॥१॥
किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः ।
कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥२॥
व्यास उवाच
अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्ततः ।
शीलव्यसनमासाद्य प्राप्स्यन्ते ह्रासमायुषः ॥३॥
आयुर्हान्या बलग्लानिर्बलग्लान्या विवर्णता ।
वैवर्ण्याद्व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥४॥
निर्वेदादात्मसम्बोधः सम्बोधाद् धर्मशीलता ।
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥५॥
उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः ।
विमर्षशीलाः केचित् तु हेतुवादकुतूहलाः ॥६॥
प्रत्यक्षमनुमानं च प्रमाणं चेति निश्चिताः ।
प्रमाणैकं करिष्यन्ति नेति पण्डितमानिनः ॥७॥
अप्रमाणं करिष्यन्ति वेदोक्तमपरे जनाः ।
तदा मुखभगाश्चैव भविष्यन्ति स्त्रियोऽपराः ॥८॥
नास्तिक्यपरमाश्चापि केचिद् धर्मविलोपकाः ।
भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः ॥९॥
तदात्वमात्रे श्रद्धेयाः शास्त्रज्ञानबहिष्कृताः ।
दाम्भिकास्ते भविष्यन्ति वादशीलकुतूहलाः ॥१०॥
तदा विचलिते धर्मे जनाः शेषपुरस्कृताः ।
शुभान्येवाचरिष्यन्ति दानसत्यसमन्विताः ॥११॥
सर्वभक्षो ह्यसंगुप्तो निर्गुणो निरपत्रपः ।
भविष्यति तदा लोकस्तत्कषायस्य लक्षणम् ॥१२॥
विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरा जनाः ।
प्रतिपत्स्यन्ति वृत्यर्थं तत् कषायस्य लक्षणम् ॥१३॥
कषायोपप्लवे लोके ज्ञानविद्याप्रणाशने ।
सिद्धिं स्वल्पेन कालेन यास्यन्ति निरुपस्कृताः ॥१४॥
महायुद्धं महावातं महावर्षं महाभयम् ।
भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् ॥१५॥
विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः ।
पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥१६॥
निःस्वाध्यायवषट्कारा अनयाश्चाभिमानिनः ।
विप्राः क्रव्यादरूपेण सर्वभक्षा वृथाव्रताः ॥१७॥
मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदा॥
व्यवहारोपवृत्ताश्च च्युता धर्माच्च शाश्वतात् ॥१८॥
हर्तारः पररत्नानां परदारापहारकाः ।
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥१९॥
तेषु प्रभवमाणेषु तुल्यशीलेषु सर्वतः ।
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥२०॥
उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः ।
कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः ॥२१॥
सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।
भक्ष्यभोज्यापहाराश्च करण्डानां च हारिणः ॥२२॥
चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति ।
चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥२३॥
निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते ।
नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः ॥२४॥
पितॄनाज्ञापयिष्यन्ति पुत्राः कर्मणि सर्वशः ।
स्नुषा श्वश्रूस्तथा चैव युगान्ते प्रत्युपस्थिते ॥२५॥
वाक्छरैरर्दयिष्यन्ति गुरूञ्छिष्याः समन्ततः ।
यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥२६॥
क्षेमं सुभिक्षमारोग्यं सामग्र्यं वापि बन्धुषु ।
उद्देशतो नरश्रेष्ठ भविष्यन्ति युगक्षये ॥२७॥
स्वयंपालाः स्वयंचौरा युगसम्भारसम्भृताः ।
मण्डलैः प्रचलिष्यन्ति देशे देशे पृथक्पृथक् ॥२८॥
स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।
नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥२९॥
तदा स्कन्धे समाधाय कुमारान्विद्रुता भयात् ।
कौशिकीं प्रतरिष्यन्ति नराः क्षुद्भयपीडिताः ॥३०॥
अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ मेकलान् ।
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥३१॥
कृत्स्नं वा हिमवत्पार्श्वं कूलं च लवणाम्भसः ।
अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सहः ॥३२॥
नैव शून्या न चाशून्या भविष्यति वसुंधरा ।
गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शस्त्रिणः ॥३३॥
मृगैर्मत्स्यैर्विहंगैश्च श्वापदैः सर्पकीटकैः ।
मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥३४॥
चीरं पर्णं च बहुलं वल्कलान्यजिनानि च ।
स्वयंकृतानि वत्सन्ति यथा मुनिजनास्तथा ॥३५॥
बीजानामाकृतिं निम्नेष्वीहन्तः काष्ठशङ्कुभिः ।
अजैष्ठकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ॥३६॥
नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः ।
पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥३७॥
तनूरुहैर्यथा जातैः समूलान्तरसंवृतैः ।
बह्वपत्याः प्रजाहीनाः कुललक्षणवर्जिताः ॥३८॥
एवं भविष्यन्ति तदा मनुष्याः कालकारिताः ।
हीनाद्धीनं तदा धर्मं प्रजाः समनुवर्त्स्यति ॥३९॥
आयुस्तत्र च मर्त्यानां परं त्रिंशद् भविष्यति ।
दुर्बला विषयग्लाना रजसा समभिप्लुताः ॥४०॥
भविष्यति तदा तेषां रोगैरिन्द्रियसंक्षयः ।
आयुःप्रक्षयसंरोधाद् विषादः प्रभविष्यति ॥४१॥
शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः ।
सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसंक्षयात् ॥४२॥
भविष्यन्ति च कामानामलाभाद् धर्मशीलिनः ।
करिष्यन्ति च संकोचं स्वपक्षक्षयपीडिताः ॥४३॥
एवं शुश्रूषणे दाने सत्ये प्राणाभिरक्षणे ।
चतुष्पादः प्रवृत्तश्च धर्मः श्रेयोऽभिपत्स्यते ॥४४॥
तेषां लब्धानुमानानां गुणेषु परिवर्तताम् ।
स्वादु किं न्विति विज्ञाय धर्म एवं वदिष्यति ॥४५॥
यथा हानिः क्रमात् प्राप्ता तथा वृद्धिः क्रमाद्गता ।
प्रगृहीते यतो धर्मे प्रवत्स्यन्ति कृतं युगम् ॥४६॥
साधु वृत्तं कृतयुगे कषाये हानिरुच्यते ।
एक एव तु कालः स हीनवर्णो यथा शशी ॥४७॥
छन्नो हि तमसा सोमो यथा कलियुगे तथा ।
पूर्णश्च तमसा हीनो यथा कृतयुगे तथा ॥४८॥
अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः ।
अनिर्णिक्तमविज्ञातं दायाद्यमिव धार्यते ॥४९॥
इष्टवादस्तपो नाम तपो हि स्थावरं कृतम् ।
गुणैः कर्माभिनिर्वृत्तिर्गुणास्तथ्येन कर्मणा ॥५०॥
आशीस्तु पुरुषं दृष्ट्वा देशाकालानुवर्तिनी ।
युगे युगे यथाकालमृषिभिः समुदाहृता ॥५१॥
इह धर्मार्थकामानां देवतानां प्रतिक्रिया ।
आशिषश्च शुभाः पुण्यास्तथैवायुर्युगे युगे ॥५२॥
यथा युगानां परिवर्तनानि चिरं प्रवृत्तानि विधिस्वभावात् ।
क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥५३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कलियुगवर्णने चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP