संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
षट्चत्वारिंशोऽध्यायः

भविष्यपर्व - षट्चत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


दैत्यानां विनाशसूचकाः महान्ति उत्पातानि, हिरण्यकशिपुना गदामादाय आक्रमणम्, तस्य पादानां धमनात् पृथ्वी, पर्वत, नदी एवं देशानां कम्पनम्

वैशम्पायन उवाच
ततः सर्वासु मायासु हतासु दितिनन्दनाः ।
हिरण्यकशिपुं सर्वे विषण्णाः शरणं गताः ॥१॥
ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा ।
हिरण्यकशिपुर्दैत्यश्चालयामास मेदिनीम् ॥२॥
ततः प्रक्षुभिताः सर्वे सागराः सलिलाकराः ।
चलिता गिरयः सर्वे सकाननवनद्रुमाः ॥३॥
तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत् ।
तमसा समभूच्छन्नं न प्राज्ञायत किंचन ॥४॥
आवहः प्रवहश्चैव विवहश्च समीरणः ।
परावहः संवहश्च उद्वहश्च महाबलः ॥५॥
तथा परिवहः श्रीमान् मारुता भयशंसिनः ।
इत्येते क्षुभिताः सप्त मारुता गगनेचराः ॥६॥
ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै ।
ते ग्रहा गगने हृष्टा विचरन्ति यथासुखम् ॥७॥
अयोगतश्चात्यचरद् योगं दिवि निशाकरः ।
सग्रहं सहनक्षत्रं प्रजज्वाल नभो नृप ॥८॥
विवर्णत्वं च भगवान् गतो दिवि दिवाकरः ।
कृष्णः कबन्धश्च महाँल्लक्ष्यते च नभस्तले ॥९॥
अमुञ्चच्चासितां सूर्यो धूमवर्तिं भयावहाम् ।
गगनस्थश्च भगवानभीक्ष्णं परितप्यते ॥१०॥
सप्तधूमनिभा घोराः सूर्या दिवि समुत्थिताः ।
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥११॥
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ।
शनैश्चरो लोहिताङ्गो लोहितार्कसमद्युतिः ॥१२॥
समं समभिरोहन्ति दुर्गाणि गगनेचराः ।
शृङ्गाणि कनकैर्घोरा युगान्तावर्तका ग्रहाः ॥१३॥
चन्द्रमाः सह नक्षत्रैर्ग्रहैः सप्तभिरावृतः ।
चराचरविनाशार्थं रोहिणीं नाभ्यनन्दत ॥१४॥
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते ।
उल्काः प्रज्वलिताश्चन्द्रे प्रचेलुर्घोरदर्शनाः ॥१५॥
देवानामपि यो देवः सोऽभ्यवर्षत शोणितम् ।
अपतन् गगनादुल्का विद्युद्रूपाः सनिःस्वनाः ॥१६॥
अकाले पादपाः सर्वे पुष्यन्ति च फलन्ति च ।
लताश्च सफलाः सर्वा याः प्राहुर्दैत्यनाशनम् ॥१७॥
फले फलान्यजायन्त पुष्पे पुष्पं तथैव च ।
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥१८॥
विक्रोशन्ति च गम्भीरं धूमयन्ति ज्वलन्ति च ।
प्रतिमाः सर्वदेवानां कथयन्ति युगक्षयम् ॥१९॥
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः ।
चुक्रुशुर्भैरवं तत्र मृगेन्द्रे समुपस्थिते ॥२०॥
नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः ।
अपराह्णगते सूर्ये लोकानां क्षयकारके ॥२१॥
न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ।
वानस्पत्या न पूज्यन्ते पूजनार्हाः कथंचन ॥२२॥
वायुवेगेन हन्यन्ते भिद्यन्ते प्रणुदन्ति च ।
तदा च सर्वभूतानां छाया न परिवर्तते ॥२३॥
अपराह्णगते सूर्ये लोकानां च युगक्षये ।
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः ॥२४॥
भाण्डागारायुधागारे निविष्टमभवन्मधु ।
तथैव चायुधागारे धूमराजिरदृश्यत ॥२५॥
स च दृष्ट्वा महोत्पातान् हिरण्यकशिपुस्तदा ।
पुरोहितं तदा शुक्रं वचनं चेदमब्रवीत् ॥२६॥
किमर्थं भगवन्नेते महोत्पाताः समुत्थिताः ।
श्रोतुमिच्छामि तत्त्वेन परं कौतूहलं हि मे ॥२७॥
शुक्र उवाच
शृणु राजन्नवहितो वचनं मे महासुर ।
यदर्थमिह दृश्यन्ते महोत्पाता महाभयाः ॥२८॥
यस्यैते सम्प्रदृश्यन्ते राज्ञो राष्ट्रे महासुर ।
देशो वा ह्रियते तस्य राजा वा वधमर्हति ॥२९॥
अतो बुद्धया समीक्षस्व यथा सर्वं प्रणश्यति ।
वृहद्भयं हि नचिराद् भविष्यति न संशयः ॥३०॥
एतावदुक्त्वा शुक्रस्तु हिरण्यकशिपुं तदा ।
स्वस्तीत्युक्त्वा तु दैन्येन्द्रं जगाम स्वं निवेशनम् ॥३१॥
तस्मिन्गते स दैत्येन्द्रो ध्यातवान् सुचिरं तदा ।
आसांचक्रे सुदीनात्मा ब्रह्मवाक्यमनुस्मरन् ॥३२॥
असुराणां विनाशाय सुराणां विजयाय च ।
दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥३३॥
एते चान्ये च बहवो घोरा ह्युत्पातदर्शनाः ।
दैत्येन्द्राणां विनाशाय दृश्यन्ते कालनिर्मिताः ॥३४॥
ततो हिरण्यकशिपुर्गदामादाय सत्वरम् ।
अभ्यद्रवत वेगेन धरणीमनुकम्पयन् ॥३५॥
हिरण्यकशिपुर्दैत्यो पदा सस्पृष्टवान् महीम् ।
संदष्टौष्ठपुटः क्रोधाद् वराह इव पूर्वजः ॥३६॥
मेदिन्यां कम्प्यमानायां दैत्येन्द्रेण महात्मना ।
महीधरेभ्यो नागेन्द्रा निपेतुर्भयविक्लवाः ॥३७॥
विषज्वालाकुलैर्वक्त्रैविंमुञ्चन्तो हुताशनम् ।
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥३८॥
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ।
एलापत्रश्च कालीयो महापद्मश्च वीर्यवान् ।
सहस्रशीर्षधृङ्नागो हेमतालध्वजः प्रभुः ॥३९॥
शेषोऽनन्तो महीपालो दुष्प्रकम्पः प्रकम्पितः ।
दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च ॥४०॥
तदा क्रुद्धेन दैत्येन कम्पितानि समन्ततः ।
पातालतलचारिण्यो नागतेजोधराः शिवाः ॥४१॥
आपश्च सहसा क्रुद्धा दुष्प्रकम्प्यरसाः शुभाः ।
नदी भागीरथी चैव सरयूः कौशिकी तथा ॥४२॥
यमुना चैव कावेरी कृष्णा वेणा तथैव च ।
सुवेणा च महाभागा नदी गोदावरी तथा ॥४३॥
चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः ।
मेकलप्रभवश्चैव शोणो मणिनिभोदकः ॥४४॥
सुस्रोता नर्मदा चैव तथा वेत्रवती नदी ।
गोमती गोकुलाकीर्णा तथापूर्णा सरस्वती ॥४५॥
मही कालनदी चैव तमसा पुण्यवाहिनी ।
सीता चेक्षुमती चैव देविका च महानदी ॥४६॥
जम्बूद्वीपं रत्नवन्तं सर्वरत्नोपशोभितम् ।
सुवर्णकूटकं चैव सुवर्णाकरमण्डितम् ॥४७॥
महानदश्च लौहित्यः शैलकाननशोभितः ।
पत्तनं कौशिकारण्यं द्रविडं रजताकरम् ॥४८॥
मागधांश्च महाग्रामानङ्गान् वङ्गांस्तथैव च ।
सुह्यान् मल्लान् विदेहांश्च मालवान् काशिकोसलान्॥४९॥
भवनं वैनतेयस्य सुवर्णस्य च कम्पितम् ।
कैलासशिखराकारं यत् कृतं विश्वकर्मणा ॥५०॥
रक्ततोयो भीमवेगो लौहित्यो नाम सागरः ।
शुभः पाण्डुरमेघाभः क्षीरोदश्चैव सागरः ॥५१॥
उदयश्चैव राजेन्द्र उच्छ्रितः शतयोजनम् ।
सुपर्णवेदिकः श्रीमान् नागपक्षिनिषेवितः ॥५२॥
भ्राजमानोऽर्कसहृशैर्जातरूपमयैर्दुमैः ।
शालैस्तालैस्तमालैश्च कर्णिकाभिश्च पुष्पितैः ॥५३॥
अयोमुखश्च विपुलः सर्वतो धातुमण्डितः ।
तमालवनगन्धश्च पर्वतो मलयः शुभः ॥५४॥
सुराष्ट्राश्च सुबाह्लीकाः शूराभीरास्तथैव च ।
भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः ॥५५॥
तथैवान्ध्राश्च पुण्ड्राश्च वामचूडाः सकेरलाः ।
क्षोभितास्तेन दैत्येन सदेवाः साप्सरोगणाः ॥५६॥
अगस्तिभुवनं चैव यदगम्यं पुरा कृतम् ।
सिद्धचारणसङ्घैश्च सेवितं सुमनोहरम् ॥५७॥
विचित्रनागविहगं सुपुष्पितलताद्रुमम् ।
जातरूपमयैः शृङ्गैरप्सरोगणसेवितम् ॥५८॥
गिरिः पुष्पितकश्चैव लक्ष्मीवान् प्रियदर्शनः ।
उत्थितः सागरं भित्त्वा वयस्यश्चन्द्रसूर्ययोः ॥५९॥
रराज सुमहाशृङ्गैर्गगनं विलिखन्निव ।
सूर्यचन्द्रांशुसंकाशैः सागराम्बुसमावृतः ॥६०॥
विद्युत्वान् पर्वतः श्रीमानायतः शतयोजनम् ।
विद्युतां यत्र सम्पाता निपात्यन्ते नगोत्तमे ॥६१॥
ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः ।
कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहं महत् ॥६२॥
विशाखरथ्या दुर्धर्षा सर्पाणामालया पुरी ।
तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता ॥६३॥
महामेघगिरिश्चैव पारियात्रश्च पर्वतः ।
चक्रवांस्तु गिरिः श्रेष्ठो वाराहश्चैव पर्वतः ॥६४॥
प्राग्ज्योतिषपुरं चैव जातरूपमयं शुभम् ।
यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥६५॥
मेरुश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः ।
षष्टिं तत्र सहस्राणि पर्वतानां विशाम्पते ॥६६॥
तरुणादित्यसंकाशो महेन्द्रश्च महागिरिः ।
देवावासः शुभः पुण्यो गिरिराजो दिवं गतः ॥६७॥
हेमशृङ्गो महाशैलस्तथा मेघसखो गिरिः ।
कैलासश्चापि दुष्कम्पो दानवेन्द्रेण कम्पितः ॥६८॥
यक्षराक्षसगन्धर्वैर्नित्यं सेवितकन्दरः ।
श्रीमान् मन्दरश्चैव नित्यं पुष्पितपादपः ॥६९॥
हेमपुष्करसंछन्नं तेन वैखानसं सरः ।
कम्पितं मानसं चैव राजहंसैर्निषेवितम् ॥७०॥
विशृङ्गः पर्वतश्चैव कुमारी च सरिद्वरा ।
तुषारचयसंकाशो मन्दरश्चैव पर्वतः ॥७१॥
उशीरबीजश्च गिरी रुद्रोपस्थस्तथाद्रिराट् ।
प्रजापतेश्च निलयस्तथा पुष्करपर्वतः ॥७२॥
देवावृत् पर्वतश्चैव तथा वै वालुको गिरिः ।
क्रौञ्चः सप्तर्षिशैलश्च धूमवर्णश्च पर्वतः ॥७३॥
एते चान्ये च गिरयो देशा जनपदास्तथा ।
नद्यश्च सागराश्चैव दानवेन्द्रेण कम्पिताः ॥७४॥
कपिलश्च महीपुत्रो व्याघ्राक्षः क्षितिकम्पनः ।
खेचराश्च निशापुत्राः पातालतलवासिनः ॥७५॥
गणस्तथापरो रौद्रो मेघनादोऽङ्कुशायुधः ।
ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः ॥७६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे षट्चत्वारिंशोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP