भविष्यपर्व - चतुष्पञ्चाशत्तमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
देवासुराणां युद्धस्य यज्ञरूपेण वर्णनं, द्वयोः सेनयोः तुमुलं युद्धं, सावित्रध्रुवयोः पराजयम्
वैशम्पायन उवाच
उभयोः सेनयो राजन् भूयो युद्धमवर्तत ।
नादेन संचालयतां त्रैलोक्यमिदमव्ययम् ॥१॥
गोमुखाडम्बराणां च भेरीणां मुरजैः सह ।
झल्लरीडिण्डिमानां च व्यभूयन्त महास्वनाः ॥२॥
प्रवृत्तो युद्धयज्ञस्तु तुमुलो लोमहर्षणः ।
रणमध्ये महानादः स्वर्गीयः शूरसम्मतः ॥३॥
युद्धयज्ञस्य नेताभूत् प्रह्रादो दैत्यसत्तमः ।
विरोचनस्तथाध्वर्युर्युद्धयज्ञप्रवर्तकः ॥४॥
होता चैवात्र नमुचिर्वृत्रः स्तोत्रोपकल्पकः ।
मन्त्रा दैत्याः समाख्याता यज्ञकर्मणि तत्र वै ॥५॥
अनुयातश्च पितरमधिको वा पराक्रमैः ।
यष्टा तत्राभवद् बाण संयुगे चोपतिष्ठते ॥६॥
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं सुदुर्जयम् ।
मन्त्रास्तत्राभ्यवर्तन्त साध्वनुह्रादयोजिताः ॥७॥
उद्गाता च मयः श्रीमान् स्थितः शत्रुभयंकरः ।
विनदन् दितिजश्रेष्ठो देवानीकं व्यदारयत् ॥८॥
बलिस्तु राजा द्युतिमान् स्वयं तत्र महासुरः ।
जाप्यैर्होमैश्च संयुक्ता ब्रह्मत्वमकरोत्प्रभुः ॥९॥
रणाग्निर्ज्वलितो घोरो वैरेन्धनसमीरितः ।
हूयते त्वसुरैस्तत्र देवो विष्णुः सुरैः सह ॥१०॥
शङ्खशब्दैः सुतुमुलैर्भेरीणां च महास्वनैः ।
उद्घुष्टं विमलं चैव सुब्रह्मण्यं प्रयुज्यते ॥११॥
बलश्च बलकश्चैव पुलोमा च महासुरः ।
प्रशस्तं च समं कृत्वा सत्रं सम्यक् प्रचक्रिरे ॥१२॥
कल्माषदण्डा विमला विपुला रथपङ्क्तयः ।
यूपाश्च समकल्पन्त युद्धयज्ञे महाफले ॥१३॥
कर्णिनालीकनाराचा वत्सदन्तोपबृंहिकाः ।
तोमराः सोमकलशा विचित्राणि धनूंषि च ॥१४॥
अस्थीन्यत्र कपालानि पुरोडाशाः शिरांसि च ।
आज्यं च रौद्रं रुधिरं तस्मिन् यज्ञेऽभिहूयते ॥१५॥
इध्माः परिधयस्तत्र प्रस्तारा विपुला गदाः ।
हयग्रीवोऽसिलोमा च राहुः केशी च दानवः ॥१६॥
विरोचनश्च जम्भश्च कुजम्भश्च महाबलः ।
सदस्यास्तत्र तु मखे विप्रचित्तिस्तु वीर्यवान् ॥१७॥
इषवस्तु स्रुवास्तत्र रथाक्षसदृशाः शुभाः ।
धनुष्कोट्या धनुर्ज्याश्च स्रुवस्तत्र महामखे ॥१८॥
प्रतिप्रास्थानिकं कर्म वृषपर्वाकरोदिह ।
दीक्षितस्तत्र तु बलिस्तस्य पत्नी महाचमूः ॥१९॥
शम्बरस्तत्र शामित्रमकरोद् दितिनन्दनः ।
अतिरात्रे महाबाहुर्वितते यज्ञकर्मणि ॥२०॥
दक्षिणास्तस्य यज्ञस्य कालनेमिर्महासुरः ।
वैताने कर्मणि विभोर्यः ख्यातो हव्यवाडिव ॥२१॥
त्रिदशानां तु सैन्यस्य शरीरैर्गतजीवितैः ।
तस्मिन् यज्ञे तु सवनं वर्धते दैत्यनिर्मितम् ॥२२॥
देवानां रुधिरं संख्ये पपुरुग्रा दितेः सुताः ।
नर्दमानाः प्रमुदिताः सोमपानं रणाध्वरे ॥२३॥
यदा बलिर्महादैत्यो विजेता समरे सुरान् ।
तदा ह्यवभृथो यज्ञे भविष्यति न संशयः ॥२४॥
महासुरेन्द्रपतयो यज्वानो भूरिदक्षिणाः ।
वेदवन्तो वृत्तवन्तः शूराः सर्वे तनुत्यजः ॥२५॥
त्रैलोक्यहरणे सृष्टा युद्धयज्ञाय दीक्षिताः ।
बद्धकृष्णाजिनाः सर्वे व्रतिनो मुञ्जधारिणः ॥२६॥
एकनिश्चयकार्याश्च त्रैलोक्यजयकाङ्क्षिणः ।
सुरदानवदैत्यानां शब्दः समभवन्महान् ॥२७॥
नानायुधविहस्तानां त्वरितानां प्रधावताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिःस्वनैः ॥२८॥
रथनेमिस्वनैर्घोरैस्तुमुलः सर्वतोऽभवत् ।
शङ्खदुन्दुभिनिर्घोषैर्हयहेषितनिःस्वनैः ॥२९॥
हयानां हेषमाणानां दानवानां च गर्जताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैः पाणिपादरवैस्तथा ॥३०॥
दानवानां परेषां च शस्त्रवन्ति महान्ति च ।
समरे भीमकर्माणि सैन्यानि प्रचकाशिरे ॥३१॥
ततो नागा रथाश्चैव जाम्बूनदविभूषिताः ।
भ्राजमाना व्यराजन्त मेघा इव सविद्युतः ॥३२॥
ऋष्टिखड्गगदास्तीक्ष्णाः शूलशक्तिपरश्वधाः ।
चारु विभ्राजिरे तत्र तेष्वनीकेषु भागशः ॥३३॥
रथा बहुविधाकाराः शतशोऽथ सहस्रशः ।
हेमप्रच्छन्नशिखरा ज्वलन्त इव पावकाः ॥३४॥
दानवानां सुराणां च समालोक्यन्त सैनिकाः ।
काञ्चनैः कवचैः सर्वे ज्वलितार्कसमप्रभैः ॥३५॥
संनद्धाः समदृश्यन्त ज्योतींषि गगने यथा ।
उद्यतैरायुधैश्चित्रैस्तलबद्धाः कलापिनः ॥३६॥
ऋषभाक्षाः सुरगणाश्चमूमुखगता बभुः ।
नानावर्णाः पताकाश्च ध्वजमालाश्च संयुगे ॥३७॥
युद्ध्यतां रणशौण्डानामीरयामास मारुतः ।
ध्वजालंकारवस्त्राणि कवचानि च रश्मिभिः॥३८॥
भासयामास सर्वाणि रश्मिवर्णानि रश्मिवान् ।
सर्वेषामप्रमेयाणां बलानां पादचारिणाम् ॥३९॥
रजः प्रच्छादयामास पत्रोर्णं पाण्डुरं दिशः ।
दिव्यायुधधराः सर्वे दीप्तायुधपरिच्छदाः ॥४०॥
प्रतितस्तम्भिरेऽन्योन्यमनीकं प्रत्यनीकतः ।
गिरिकूटोच्छ्रयाः सर्वे तदा ते देवदानवाः ॥४१॥
अन्योन्यमभिनिघ्नन्तो रणस्थाश्चित्रयोधिनः ।
बाणैः सुरुचिरैस्तीक्ष्णैः पत्रवाजैर्दुरासदैः ॥४२॥
मुद्गरैर्मुसलैः शूलैरयस्तुण्डैरुलूखलैः ।
वज्रैरशनिकल्पैश्च खड्गवृक्षादिभिस्तथा ॥४३॥
तथा प्रवर्तिते तेषां विमर्देऽद्भुतविक्रमे ।
सावित्रस्य वधं प्रेप्सुर्बाणो जग्राह कार्मुकम् ॥४४॥
शरजालेन दिव्येन च्छादयानः सुरोत्तमम् ।
मन्त्रैर्हुत इवार्चिष्मान् सम्प्रजज्वाल तेजसा ॥४५॥
सागराभां महासेनां देवानां दैत्यपुंगवः ।
संशोषयति बाणौघैरर्कोंऽशुभिरिवार्णवम् ॥४६॥
मारुतः सुमहावेगः सावित्रः शक्तिमुत्तमाम् ।
चिक्षेप बलिपुत्राय शक्रोऽशनिमिवाद्रये ॥४७॥
आपतन्ती च सा शक्तिर्महोल्का ज्वलिता इव ।
द्विधा छिन्ना क्षुरप्रेण बाणेनाद्भुतकर्मणा ॥४८॥
हतायामथ शक्त्यां तु सावित्रो देवसत्तमः ।
विश्वकर्मकृतं दिव्यं सुतीक्ष्ण दानवार्दनम् ॥४९॥
सुपीनधारं विमलं विपुलं चन्द्रवर्चसम् ।
अगृह्णन्निशितं खड्गमाशीविषमिवोरगम् ॥५०॥
तं गृहीत्वा रणमुखे प्रज्वलन्तं महाप्रभम् ।
बाणाभ्याशे महातेजाः खड्गपाणिरवस्थितः ॥५१॥
स तं स्थितमथालक्ष्य सावित्रं बलिनन्दनः ।
लोहिताक्षं महाकायं चिक्षेप च ननाद च ॥५२॥
ततोऽर्ककिरणाकारानशनिप्रतिमाञ्छितान् ।
संदधे चाशु बाणौघानाशीविषशिलीमुखान् ॥५३॥
रुक्मपुङ्खान् प्रदीप्ताग्रानुग्रवेगानलंकृतान् ।
आकर्णपूरांश्चिक्षेप शरानुग्रान् समन्ततः ॥५४॥
दृढचापप्रयुक्तास्ते शरा वैश्वानरप्रभाः ।
सावित्रं छादयामासुः कैलासमिव तोयदाः ॥५५॥
संछाद्यमानः शस्त्रौघैर्बाणेन बलिसूनुना ।
पराङ्मुखः सुरवरः प्रयातः सरथध्वजः ॥५६॥
पराजित्य स सावित्रं बाणः परमहर्षितः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति ॥५७॥
बलश्चाप्यसुरश्रेष्ठः प्रगृह्य महतीं गदाम् ।
ध्रुवाय वसवे मूर्ध्नि रौद्रां चिक्षेप दानवः ॥५८॥
तस्य निर्मथितं त्वंसे हेमचित्रं च वर्म वै ।
गदावेगेन भीमेन ध्रुवस्य समरे तदा ॥५९॥
शेषाश्च वसवः सर्वे दिव्यास्त्रैर्घोरदर्शनैः ।
प्राच्छादयन् रणे दैत्यमादित्यमिव तोयदाः ॥६०॥
ततः सम्मर्दितो बाणैर्बलो दानवसत्तमः ।
अवातरद् रथात्तस्माद् गदामुद्यम्य वेगवान् ॥६१॥
पातयामास शत्रूणां समाविध्य महासुरः ।
दिशः प्राद्रावयत्सर्वांस्त्रिदशान्सा महागदा ॥६२॥
इन्द्राशनिरिवेन्द्रेण प्रवृद्धा सुमहास्वना ।
तस्याः सविद्युद्धोषायास्तेन शब्देन वेपिताः ॥६३॥
व्यद्रवन्त परिभ्रष्टा रथेभ्यो रथिनस्तदा ।
तदुदीर्णे रथानीकं सूर्याभं मेघनिःस्वनम् ॥६४॥
देवानां शरधाराभिः समन्तादभ्यवर्षत ।
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैः शिलीमुखैः ॥६५॥
मुहुर्मुहुर्महातेजाः प्रत्यविध्यन्महासुरः ।
बलाकस्तु गदापाणिर्व्यादितास्य इवान्तकः ॥६६॥
तडिद्गणार्कसदृशो वैश्वानर इवापरः ।
पिबन्निव शरौघांस्तान् देवचापसमुच्छ्रितान् ॥६७॥
अभ्यद्रवत दैत्येन्द्रो महार्णव इवापरः ।
अवस्फूर्जन् दिशः सर्वाः स्वेन वीर्येण दानवः ॥६८॥
अरुणत्त्रिदशान् दैत्यः सिंधुवेगान् नगा इव ।
समुद्रस्तरसा देवान् वायुर्वृक्षानिवौजसा ॥६९॥
दमयंश्च महेष्वासान् वसुभ्यां समसज्जत ।
आपश्चैवानिलश्चैव ववर्षतुररिंदमौ ॥७०॥
शरवर्षाणि दीप्तानि मेघाविव परंतपौ ।
क्षिप्तांस्तान् विशिखान् दीप्तानन्तरिक्षे स चिच्छिदे ॥७१॥
अमृष्यमाणस्तत्कर्म ध्रुवस्तमभिदुद्रुवे ।
तौ पृथक्छरवर्षाभ्यामन्योन्यमभिजघ्नतुः ॥७२॥
उत्तमाभिजनौ शूरौ देवदैत्यौ यशस्करौ ।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ॥७३॥
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ।
निर्भिन्दन्तौ च गात्राणि विलिखन्तौ च सायकैः ॥७४॥
स्तम्भयन्तौ च बलिनौ प्रतुदन्तौ स्थितौ रणे ।
चरन्तौ विविधान् मार्गान्मण्डलानि च भागशः॥७५॥
मुद्गरैर्जघ्नतुः क्रुद्धावन्योन्यमभिमानिनौ ।
असिभ्यां चर्मणी दिव्ये विपुले च शरासने ॥७६॥
निकृत्याचलसंकाशौ बाहुयुद्धं प्रचक्रतुः ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ॥७७॥
बाहुभिः समसज्जेतामायसैः परिघैरिव ।
तयोरासीद् भुजाघातैर्निग्रहः प्रग्रहस्तथा ॥७८॥
अतीव भीमः संह्रादो वज्रपर्वतयोरिव ।
द्विपाविव विषाणाग्रैः शृङ्गैरिव महावृषौ ॥७९॥
अन्योन्यमभिसंरब्धौ मुहूर्तं पर्यकर्षताम् ॥८०॥
ततः पराजितो देवो बलाकेन तथा ध्रुवः ।
रथं त्यक्त्वा भयात्तस्य प्रणष्टः प्राङ्मुखो वसुः ॥८१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP