भविष्यपर्व - त्र्यशीतितमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
घण्टाकर्णेन भगवन्तं श्रीकृष्णं उपहारसमर्पणं, भगवता तं वरप्रदानं, मृतस्य ब्राह्मणस्य जीवनदानम्
वैशम्पायन उवाच
विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् ।
ब्राह्मणस्य हतस्याथ शवमादाय सत्वरः ॥१॥
द्विधाकृत्य महाघोरं पिशितं केशशाड्वलम् ।
ततः खण्डं समादाय अद्भिरभ्युक्ष्य यत्नतः ॥२॥
विधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् ।
इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः ॥३॥
गृहाण मे जगन्नाथ भक्ष्यं योग्यं तव प्रभो ।
भवादृशैर्जगन्नाथ ग्राह्यं सर्वात्मना हरे ॥४॥
भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा ।
दत्तं यद् भक्तिनम्रेण ग्राह्यं तत् स्वामिना हरे ॥५॥
नवं सुसंस्कृतं भक्ष्यं ब्रह्मण्यं शवमुत्तमम् ।
अस्माकं पिशिताशानां शास्त्रे नियतमेव हि ॥६॥
तस्माद् गृहाण भगवन् यदि दोषो न विद्यते ।
इत्युक्त्वा विकृतं भूयो विहस्य स तु कामतः ॥७॥
दातुमैच्छत् तदा खण्डमस्पृश्यं तु शवस्य ह ।
ततः प्रीतोऽभवत् तस्मै मनसा पूजयच्च तम् ॥८॥
अहोऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते ।
इति संचिन्त्य मनसा प्रोवाच यदुपुङ्गवः ॥९॥
अलमेतेन सर्वत्र पिशाच पिशिताशन ।
अस्पृश्य मादृशैरेतद् ब्राह्मण्यं शवमुत्तमम् ॥१०॥
ब्राह्मणः सर्वथा पूज्यो जन्तुभिर्धर्मकाङ्क्षिभिः ।
पिशाचा घोरकर्माणो यतन्ते ब्रह्महिंसने ॥११॥
न हन्तव्याः सदा विप्रास्तद्धिंसा नरकावहा ।
तस्मादस्पृश्यमस्माभिर्नात्र कार्या विचारणा ॥१२॥
भक्त्या प्रीतोऽस्मि भद्रं ते मनो निर्मलमेतया ।
मनःशुद्ध्यै कृतो यत्नस्ततः प्रीतोऽस्मि मांसप ॥१३॥
अस्मत्संकीर्तनाच्छश्वच्छुद्धं हि करणं तव ।
अतीव मनसा प्रीत इत्युक्त्वा भगवान्हरिः ॥१४॥
पस्पर्शाङ्गं तदा विष्णुः पिशाचस्याथ सर्वतः ।
करेण मृदुना देवः पापान्निर्मोचयद्धरिः ॥१५॥
ततस्तस्याभवद् रूपं कामरूपसमप्रभम् ।
दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः ॥१६॥
समाङ्गुलिः समनखः समवक्त्रः समुन्नसः ।
पद्माक्षः पद्मवर्णाभः पद्मकेशरभूषणः ॥१७॥
केयूरी चाङ्गदी चैव कौशेयवसनस्तदा ।
ज्ञानवान्सत्त्वसम्पन्नः साक्षादिन्द्र इवापरः ॥१८॥
गन्धर्व इव गायंस्तु सिद्धः सिद्ध इव स्वयम् ।
साक्षात्स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम् ॥१९॥
न नूनं तादृशं रूपमासीत् कालान्तरेष्वपि ।
अद्यापि नैव मुनयो लभन्ते तादृशं वपुः ॥२०॥
कृत्वा सुबहुशो घोरं तपः परमदारुणम् ।
यच्च लब्धं तदा तेन पिशाचेन नृपोत्तम ॥२१॥
को नु नाम जगन्नाथमाश्रितः सीदते नृप ।
स हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम् ॥२२॥
ध्यायन् पठञ्जपन्वापि तस्य किं नास्ति भूपते ।
ततः प्रोवाच भगवान् स्थितं काममिवापरम् ॥२३॥
अक्षयः स्वर्गवासस्ते यावदिन्द्रो वसिष्यति ।
तावत् स्वर्गी भवानस्तु शासनान्मम नान्यतः ॥२४॥
नष्टे शक्रे ततः स्वर्गात्सायुज्यं मम गच्छतु ।
योऽयं भ्राता तव स्वर्गी यावदिन्द्रो भवेत्तदा ॥२५॥
वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
दातास्मि सर्वं सर्वत्र नात्र कार्या विचारणा ॥२६॥
घण्टाकर्ण उवाच
यश्चेमं संगमं देव संस्मरेन्नियतात्मवान् ।
भक्तिस्तस्याचला देव त्वयि भूयाज्जनार्दन ॥२७॥
मनःशुद्धिर्भवेत्तस्य मा भूत् कलुषता हरे ।
कालुष्यं मनसस्तस्य मा भूदेष वरो मम ॥२८॥
एवमस्त्विति देवेशः स्वर्गं गच्छेति केशवः ।
इन्द्रातिथिर्भवानस्तु त्वां प्रतीक्ष्य हरिः स्थितः ॥२९॥
इत्युक्त्वा भगवान् कृष्ण उत्थाप्य ब्राह्मणं तदा ।
तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम् ॥३०॥
ततो विसृज्य गोविन्दस्तस्माद् देशादुपागमत् ।
यत्र ते मुनयः सिद्धा अग्निहोत्रसमन्विताः ॥३१॥
स च स्वर्गी गतः स्वर्गमाज्ञया केशवस्य ह ।
तस्मात्पठ सदा राजन्मनःशुद्धिं यदीच्छसि ।
मनश्च शुद्धं भवति पठतस्ते जगत्पते ॥३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि घण्टाकर्णमुक्तिप्रदाने त्र्यशीतितमोऽध्यायः ॥८३॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP