भविष्यपर्व - एकत्रिंशदधिकशततमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
द्वारकां प्रति गच्छन्तं श्रीकृष्णस्य पुष्करे ऋषिभ्यः सह समागमं, ऋषिभिः तस्य स्तवनम्
वैशम्पायन उवाच
गच्छन्नथ महाविप्णुः पुष्करं प्राप्य यादवैः ।
अपश्यन्मुनिमुख्यांस्तु पुस्करस्थान् नृपोत्तम ॥१॥
ते समेत्य महादेवमृषयो वीतमत्सराः ।
अर्घ्यादिसमुदाचारं कृत्वैनं यादवोत्तमम् ॥२॥
प्रोचुर्विश्वेश्वरं विष्णुं भूतभव्यभवत्प्रभुम् ।
अत्यद्भुतमिदं विष्णो तव वीर्यं जनार्दन ॥३॥
येन तौ निहतौ युद्धे हंसो डिम्भक एव च ।
यो विचक्रो दुराधर्षो देवैरपि सुदुःसहः ॥४॥
संगरे निहतो देव दुःसाध्य इति नो मतिः ।
क्षेमो नः सर्वकार्येषु चरतां तप उत्तमम् ॥५॥
निष्कल्मषा भविष्यामस्तव संस्मरणाद्धरे ।
त्वं हि सर्वस्य दुःखस्य हर्ता त्वां ध्यायतां सदा ॥६॥
त्वदनुस्मरणं जन्तोः सदा पुण्यप्रदं प्रभो ।
त्वं हि नः सततं धाता विधाता तपसो हरे ॥७॥
त्वमोंकारो वषट्कारस्त्वं यज्ञस्त्वं पितामहः ।
त्वं ज्योतिर्ब्रह्मणो मूर्तित्वं ब्रह्मा रुद्र एव च ॥८॥
प्राणस्त्वं सर्वभूतानामन्तरात्मेति कथ्यते ।
उपास्यः सर्वभूतानां यज्ञैर्दानैर्जगत्पते ॥९॥
नमो विश्वसृजे देव नमस्ते विश्वमूर्तये ।
पाहि लोकमिमं देव हत्वा ब्रह्मद्विषः सदा ॥१०॥
स तथेति हरिर्विष्णुर्ययौ द्वारवतीं पुरीम् ।
अवसद्वृष्णिभिः सार्ध स्तूयमानः समागधैः ॥११॥
इयं च देवदेवस्य चेष्टा हि जनमेजय ।
प्रोक्ता ते पृच्छते राजन्किमन्यच्छ्रोतुमिच्छसि ॥१२॥
इति श्रोमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि द्वारकायां कृष्णस्य प्रत्यागमने एकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP