भविष्यपर्व - त्रिचत्वारिंशोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
प्रह्लादेन नरसिंहविग्रहे समस्तायाः त्रिलोक्याः दर्शनम्
वैशम्पायन उवाच
ततो दृष्ट्वा महाबाहुं कालचक्रमिवागतम् ।
नारसिंहवपुश्छन्नं भस्माच्छन्नमिवानलम् ॥१॥
विकुञ्चितसटं तस्य नारसिंहस्य भारत ।
रूपौदार्यं वभौ तत्र सहस्रशशिसंनिभम् ॥२॥
अहो रूपमिदं चित्रं शङ्खकुन्देन्दुसंनिभम् ।
अब्रुवन् दानवाः सर्वे हिरण्यकशिपुश्च सः ॥३॥
एवं हि ब्रुवतां तेषां निर्दग्धानां महात्मनाम् ।
नारसिंहेन चक्षुर्भ्यां चोदिताः कालधर्मणा ॥४॥
हिरण्यकशिपोः पुत्रः प्रह्रादो नाम वीर्यवान् ।
दिव्येन चक्षुषा सिंहमपश्यद् देवमागतम् ॥५॥
तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमास्थितम् ।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥६॥
प्रह्लाद उवाच
महाराज महाबाहो दैत्यानामादिसम्भव ।
न श्रुतं नैव दृष्टं च नारसिंहमिदं वपुः ॥७॥
अव्यक्तप्रभवं दिव्यं किमिदं रूपमद्भुतम् ।
दैत्यान्तकरणं घोरं शंसन्तीव मनांसि नः ॥८॥
अस्य देवाः शरीरस्थाः सागरा सरितस्तथा ।
हिमवान् पारियात्रश्च ये चान्ये कुलपर्वताः ॥९॥
चन्द्रमाः सह नक्षत्रैरादित्याश्चाश्विनौ तथा ।
धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥१०॥
मरुतो देवगन्धर्वा मुनयश्च तपोधनाः ।
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥११॥
ब्रह्मदेवः पशुपतिर्ललाटस्था विभान्ति वै ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥१२॥
भवांश्च सहितोऽस्माभिः सर्वैर्दैत्यगणैर्वृतः ।
विमानशतसंकीर्णा तथाभ्यन्तरजा सभा ॥१३॥
सर्वं त्रिभुवनं राजँल्लोकधर्मश्च शाश्वतः ।
दृश्यते नारसिंहेऽस्मिन् यथेन्दौ विमले जगत् ॥१४॥
प्रजापतिश्चात्र मनुर्महात्मा
ग्रहाश्च योगाश्च मही नभश्च ।
उत्पातकालश्च धृतिः स्मृतिश्च
रजश्च सत्त्वं च तपो दमश्च ॥१५॥
सनत्कुमारश्च महानुभावो
विश्वे च देवाप्सरसश्च सर्वाः ।
क्रोधश्च कामश्च तथैव हर्षो
दर्पश्च मोहः पितरश्च सर्वे ॥१६॥
इत्येवमुक्त्वा स च दैत्यराजं
हिरण्यनामानमविस्मयेन ।
दध्यौ च दैत्येश्वरपुत्र उग्रं
महामतिः किंचिदधोमुखः प्राक् ॥१७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे प्रह्रादवाक्ये त्रिचत्वारिंशोऽध्यायः ॥४३॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP