भविष्यपर्व - दशाधिकशततमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
दुर्वासादीनां मुनीनां द्वारकागमनम्
वैशम्पायन उवाच
ततस्तौ हंसडिम्भकौ क्रुद्धौ कालेन चोदितौ ।
शिक्यं कमण्डलुं चैव द्विदलं दारुमेव च ॥१॥
दण्डान् पात्रविशेषांश्च छित्त्वा भित्त्वा च सर्वशः ।
तस्मिन् देशे महाराज व्याधैर्मांसान्यदीदहन् ॥२॥
भक्षयित्वा ततो देशात् स्वपुरीं तौ प्रजग्मतुः ।
जनार्दनश्च धर्मात्मा स्नेहादनुययौ तयोः ॥३॥
नष्टाविमाविति तदा स मेने दुःखितः परम् ।
गतेषु तेषु सर्वेषु दुर्वासा यतिसत्तमः ॥४॥
पलायनपरान् सर्वानिदं प्राह यतीश्वरान् ।
इतो देशाद्विनिर्गत्य पुष्करात्पुण्यसंयुतात् ॥५॥
मन्दं मन्दं समाश्वस्य विश्रम्य च ततस्ततः ।
प्रविश्य द्वारकां देवं शङ्खचक्रगदाधरम् ॥६॥
दृष्ट्वा च तस्मै प्रभवे वक्ष्यामो यतिसत्तमाः ।
स हि रक्षञ्जगदिदं धर्मवर्त्मनि संस्थितः ॥७॥
आद्यो लोकगुरुर्विष्णुर्यतात्मा तत्त्ववित्प्रियः ।
उद्धृत्य कण्टकान् सर्वाञ्छशास पृथिवीमिमाम् ॥८॥
स च पापान् महाघोरान् सर्वान् पापकृतान् प्रभुः ।
रक्षेन्नः सकलान् सर्वाञ्ज्ञानेषु नियतात्मनः ॥९॥
इदमद्य क्षमं विप्रा यानमद्य विधीयताम् ।
साहसं यत्कृतं ताभ्यां पात्रभेदादि सत्तमाः ॥१०॥
एतत् सर्वमशेषेण दर्शयाम जनार्दनम् ।
तथेति ते प्रतिज्ञाय यतयो ज्ञानचक्षुषः ॥११
छिन्नं ताभ्यां समादाय शिक्यं दारुमयं तथा ।
द्विदलं कर्पटं चैव कौपीनमथ वल्कलम् ॥१२॥
कमण्डलुं तथा राजन्नर्धप्रोतकपालकम् ।
एतानन्यान् समादाय द्रष्टुं केशवमाययुः ॥१३॥
पञ्च चैव सहस्राणि पुरस्कृत्य महामुनिम् ।
दुर्वाससं तपोयोनिमीश्वरस्यात्मसम्भवम् ॥१४॥
अहोरात्रेण ते सर्वे द्वारकां कृष्णपालिताम् ।
ययुर्दान्ता महात्मानो लोमशाः केशवर्जिताः ॥१५॥
प्रातः प्रविश्य राजेन्द्र वापिकायां यतीश्वराः ।
स्नात्वोपस्पृश्य ते सर्वे यत्नेन महता तदा ॥१६॥
द्रष्टुमभ्युद्यता विष्णुं कण्टकोद्धृतितत्परम् ।
एकरूपं समास्थाय सुधर्मायामवस्थितम् ॥१७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतीनां द्वारकागमने दशाधिकशततमोऽध्यायः ॥११०॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP