भविष्यपर्व - सप्तचत्वारिंशोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
देवानां अनुरोधेन भगवता नृसिंहेन हिरण्यकशिपोः वधं, देवेभिः ब्रह्मणा च तस्य स्तुतिः
वैशम्पायन उवाच
तत्रादित्याश्च साध्याश्च विश्वे च मरुतस्तथा ।
रुद्रा देवा महात्मानो वसवश्च महाबलाः ॥१॥
आगम्य ते मृगेन्द्रस्य सकाशं सूर्यवर्चसः ।
ऊचुः संत्रस्तमनसो देवा लोकक्षयार्दिताः ॥२॥
जहि देव दितेः पुत्रं दानवं लोकनाशनम् ।
दुर्वृत्तमसदाचारं सह सर्वैर्महासुरैः ॥३॥
त्वं ह्येषामन्तकृन्नान्यो दैत्यानां दैत्यनाशन ।
तन्नाशय हितार्थाय लोकानां स्वस्ति वै कुरु ॥४॥
त्वं गुरुः सर्वलोकानां त्वमिन्द्रस्त्वं पितामहः ।
ऋते त्वदन्यच्छरणं न भूतं न भविष्यति ॥५॥
तच्छ्रुत्वा वचनं दैवो देवानामादिसम्भवः ।
ननाद सुमहानादमतिगम्भीरनिःस्वनम् ॥६॥
पाटितान्यसुरेन्द्राणां मृगेन्द्रेण महात्मना ।
सिंहनादेन महता हृदयानि मनांसि च ॥७॥
गणः क्रोधवशो नाम कालकेयस्तथा परः ।
वेगश्च वैगलेयश्च सैंहिकेयश्च वीर्यवान् ॥८॥
संह्रादीयो महानादो महावेगस्तथा परः ।
कपिलश्च महीपुत्रो व्याघ्राक्षः क्षितिकम्पनः ॥९॥
खेचराश्च निशापुत्राः पातालतलचारिणः ।
गणस्तथापरो रौद्रो मेघनादोऽङ्कुशायुधः ॥१०॥
ऊर्ध्वगो भीमवेगश्च भीमकर्मार्कलोचनः ।
वज्री शूली करालश्च हिरण्यकशिपुस्ततः ॥११॥
जीमूतघनसंकाशो जीमूत इव वेगवान् ।
जीमूतघनसंनादो जीमूतसदृशद्युतिः ॥१२॥
देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत् ॥१ ३॥
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः ।
तत्रोङ्कारसहायेन विदार्य निहतो युधि ॥१४॥
मही च लोकश्च शशी नभश्च
ग्रहाश्च सूर्यश्च दिशश्च सर्वाः ।
नद्यश्च शैलाश्च महार्णवाश्च
गताः प्रकाशं दितिपुत्रनाशात् ॥१५॥
ततः प्रमुदिता देवा ऋषयश्च तपोधनाः ।
तुष्टुवुर्विविधैः स्तोत्रैरादिदेवं सनातनम् ॥१६॥
देवा ऊचुः
यत् त्वया विहितं देव नारसिंहमिदं वपुः ।
एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥१७॥
मृगेन्द्रत्वं च लोकेषु सर्वसत्त्वेषु वा विभो ।
गायन्ति त्वां च मुनयो मृगेन्द्र इति नित्यशः ।
त्वत्प्रसादात् स्वकं स्थानं प्रतिपन्नाः स्म वै विभो ॥१८॥
एवमुक्तो देवसंघैर्नरसिंहो महामनाः ।
ब्रह्मा च परमप्रीतो विष्णोः स्तोत्रमुदैरयत् ॥१९॥
ब्रह्मोवाच
भवानक्षरमव्यक्तमचिन्त्यं गुह्यमुत्तमम् ।
कूटस्थमकृतं कर्तृ सनातनमनामयम् ॥२०॥
सांख्ययोगे च या बुद्धिस्तत्त्वार्थपरिनिष्ठिता ।
तां भवान्वेद विद्यात्मा पुरुषः शाश्वतो ध्रुवः ॥२१॥
त्वं व्यक्तश्च तथाव्यक्तस्त्वत्तः सर्वमिदं जगत् ।
भवन्मया वयं देव भवानात्मा भवान् प्रभुः ॥२२॥
चतुर्विभक्तमूर्तिस्त्वं सर्वलोकविभुर्गुरुः ।
चतुर्युगसहस्रेण सर्वलोकान्तकान्तकः ॥२३॥
प्रतिष्ठा सर्वभूतानामनन्तबलपौरुषः ।
कपिलप्रभृतीनां च यतीनां परमा गतिः ॥२४॥
अनादिमध्यनिधनः सर्वात्मा पुरुषोत्तमः ।
स्रष्टा त्वं त्वं च संहर्ता त्वमेको लोकभावनः ॥२५॥
भवान् ब्रह्मा च रुद्रश्च महेन्द्रो वरुणो यमः ।
भवान् कर्ता विकर्ता च लोकानां प्रभुरव्ययः ॥२६॥
परां च सिद्धिं परमं च देवं
परं च मन्त्रं परमं मनश्च ।
परं च धर्मं परमं यशश्च
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥२७॥
परं च सत्यं परमं हविश्च
परं पवित्रं परमं च मार्गम् ।
परं च होत्रं परमं च यज्ञं
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥२८॥
परं शरीरं परमं च धाम
परं च योगं परमां च वाणीम् ।
परं रहस्यं परमां गतिं च
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥२९॥
परं परस्यापि परं च यत् परं
परं परस्यापि परं च देवम् ।
परं परस्यापि परं प्रभुं च
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥३०॥
परं परस्यापि परं प्रधानं
परं परस्यापि परं च तत्त्वम् ।
परं परस्यापि परं च धाता
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥३१॥
परं परस्यापि परं रहस्यं
परं परस्यापि परं परं यत् ।
परं परस्यापि परं तपो यत्
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥३२॥
परं परस्यापि परं परायणं
परं च गुह्यं च परं च धाम ।
परं च योगं परमं प्रभुत्वं
त्वामाहुरग्र्यं पुरुषं पुराणम् ॥३३॥
वैशम्पायन उवाच
एवमुक्त्वा स भगवान् सर्वलोकपितामहः ।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥३४॥
ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च ।
क्षीरोदस्योत्तरं कूलं जगाम प्रभुरीश्वरः ॥३५॥
नारसिंहीं तनुं त्यक्वा स्थापयित्वा च तद् वपुः ।
पौराणं रूपमास्थाय ययौ स गरुडध्वजः ॥३६॥
अष्टचक्रेण यानेन भूतियुक्तेन शोभिना ।
अव्यक्तप्रकृतिर्देवः संस्थानमगमत् प्रभुः ॥३७॥
एवं महात्मना तेन नृसिंहवपुषा तथा ।
देवेन निहतः पूर्वं हिरण्यकशिपुश्च सः ॥३८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहप्रादुर्भावे हिरण्यकशिपुवधकथने सप्तचत्वारिंशोऽध्यायः ॥४७॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP