संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
द्व्यशीतितमोऽध्यायः

भविष्यपर्व - द्व्यशीतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


घण्टाकर्णेन भगवतः विष्णोः स्तुतिः

वैशम्पायन उवाच
पिशिताशो जगन्नाथं ददर्शाथ जगद्गुरुम् ।
समाधौ च यथा दृष्टं भूमौ चापि तथा हरिम् ॥१॥
अयं विष्णुरयं विष्णुरित्यूचे पिशिताशनः ।
समाधौ च यथा दृष्टः सोऽयमत्रापि दृश्यते ।
इत्युक्त्वा च पुनर्ब्रूते नृत्यन्निव हसन्निव ॥२॥
अयं स चक्री शरशार्ङ्गधन्वा गदी रथी सध्वजतूणपाणिः ।
सहस्रमूर्धा सकलामरेशो जगत्प्रसूतिर्जगतां निवासः ॥३॥
विष्णुर्जिष्णुर्जगन्नाथः पुराणः पुरुषोत्तमः ।
विश्वात्मा विश्वकर्ता यः सोऽयमेष सनातनः ॥४॥
अस्यैव देवस्य हरेः स्तनान्तरे विराजते कौस्तुभरत्नदीपः ।
यस्य प्रसादाज्जगदेतदादौ विराजते चन्द्रमसेव रात्रिः ॥५॥
योऽसौ पृथ्वीं दधाराशु दंष्ट्रया जलसंचयात् ।
योऽयमेव हरिः साक्षाद् वाराहं वपुरास्थितः ॥६॥
बद्ध्वा तथा दानवमुग्रपौरुषं ददौ च शक्राय ततोऽनुराज्यम् ।
बलिं बलादेव हरिः स वामनः स्तुतश्च भक्त्या मुनिभिः पुरातनैः ॥७॥
दंष्ट्राकरालः सुमहान् हत्वा यो दानवान् रणे ।
निःशोकमखिलं लोकं चकारासौ जनार्दनः ॥८॥
आदौ दधारैकभुजेन मन्दरं निर्जित्य सर्वानसुरान् महार्णवे ।
ददौ च शक्राय सुधामयं महान् स एष साक्षादिह मामवस्थितः ॥९॥
यः शेते जलधौ नागे देव्या लक्ष्म्या सुखावहे ।
हत्वा तौ दानवौ घोरौ मधुकैटभसंज्ञितौ ॥१०॥
यमाहुराद्य विबुधा जगत्पतिं सर्वस्य धातारमजं जनित्रम् ।
अणोरणीयांसमतिप्रमाणं स्थूलात्स्थविष्ठं हरिमेव विष्णुम् ॥११॥
यत्र स्थितमिदं सर्वं प्राप्ते लोकस्य नाशने ।
आदौ यस्मात्समुत्पन्नं सोऽयं विष्णुरिति स्थितः ॥१२॥
यस्येच्छया सर्वमिदं प्रवृत्तं प्रवर्तते चापि जनार्दनस्य ।
अयं स विष्णुः पुरुषोत्तमः शिवः प्रवर्तते मामिह यादवेश्वरः ॥१३॥
भृगोर्वंशे समुत्पन्नो जामदग्न्य इति श्रुतः ।
शिष्यत्वं समवाप्यैव मृगव्याधस्य यः स्थितः ॥१४॥
जघान वीर्याद् बलिनं महारणे कुठारशस्त्रेण गिरीशशिष्यः ।
सहस्रबाहुं कृतवीर्यसम्भवं हयैर्गजैश्चैव रथैश्च निर्गतम् ॥१५॥
कुरुक्षेत्रं समासाद्य यश्चकार पितृक्रियाम् ।
निःक्षत्रियमिमं लोकं कृतवानेकविंशतिः ॥१६॥
रघोरथ कुले जातो रामो नाम जनार्दनः ।
सीतया च श्रिया युक्तो लक्ष्मणानुचरः कृती ॥१७॥
कृत्वा च सेतुं जलधौ जनार्दनो हत्वा च रक्षःपतिमाशुगैः शरैः ।
दत्त्वा च राज्यं स विभीषणाय दशाश्वमेधैरयजच्च योऽसौ ॥१८॥
वसुदेवकुले जातो वासुदेवेति शब्दितः ।
गोकुले क्रीडते योऽसौ संकर्षणसहायवान् ॥१९॥
उत्तानशायी शिशुरूपधारी पीत्वा स्तनं पूतनिकाप्रदत्तम् ।
व्यसुं चकाराशु जनार्दनस्तदा दनोः सुतां तामवसत् सुखं हरिः ॥२०॥
पयःपानं तथा कुर्वन् भक्षयन् दधिपिण्डकम् ।
दाम्ना बद्धोदरो विष्णुर्मात्रा रुषितया दृढम् ॥२१॥
ततश्च दाम्ना सुदृढेन बद्धो जघान योऽसौ यमलार्जुनौ च ।
क्रीडन् हरिर्गोकुलवासवासी गोपीभिरास्वाद्य मुखं स्तनं च ॥२२॥
वृन्दावने वसन् विष्णुर्गोपैर्गोकुलवासिभिः ।
तत्र हत्वा हयं राजन् विरराजांशुमानिव ॥२३॥
यः क्रीडते नागफणौ जनार्दनो निषेव्यमाणः सह गोपदारकैः ।
महाह्रदे नागपतिं जगत्पतिर्ममर्द वीर्यातिशयं प्रदर्शयन् ॥२४॥
यो धेनुकं तालवने तत्फलैः सममच्छिनत् ।
हत्वा दानवमुग्रं तं गोपान् विस्मापयत्यसौ ॥२५॥
दधार यो गोधरमुग्रपौरुषान् महामतिर्मेघसमागमे सति ।
विडम्बयञ्छक्रबलं प्रमोदयन् गोपांश्च गोपीश्च स गोकुलं हरिः ॥२६॥
गोपीनां स्तनमध्ये तु क्रीडते काममीश्वरः ।
योऽसौ पिबंस्तदधरं मायामानुषदेहवान् ॥२७॥
गोपीभिरास्वाद्य मुखं विविक्ते शेते स्म रात्रौ सुखमेव केशवः ।
स्तनान्तरेष्वेव तदा च तासां कामीव कान्ताधरपल्लवं पिबन् ॥२८॥
अक्रूरेण समाहूतस्तेन गच्छन् हि यामुने ।
जले यो ह्यर्चितस्तेन नागलोके स एव हि ॥२९॥
ततश्च गच्छन्बलवाज्जनार्दनो हत्वा तमुग्रं रजकं बलात्पथि ।
हृत्वा च वस्त्राणि यथेष्टमीश्वरो ययौ सरामो मथुरां पुरीं हरिः ॥३०॥
लब्ध्वा च दामानि बहूनि कामदो दत्त्वा वरं माल्यकृते महान्तम् ।
लब्ध्वानुलेपं सुरभिं च यादवः कुब्जां चकाराशु महार्हरूपाम् ॥३१॥
योऽसौ चापं समादाय मध्ये छित्त्वा महद्धनुः ।
सिंहनादं महांश्चक्रे कल्पान्ते जलदो यथा ॥३२॥
हत्वा गजं घोरमुदग्ररूपं विषाणमादाय ततोऽनु केशवः ।
ननर्त रङ्गे बहुरूपमीश्वरः कंसस्य दत्त्वा भयमुग्रवीर्यः ॥३३॥
योऽसौ हत्वा महामल्लं चाणूरं निहतद्विषम् ।
यादवेभ्यो ददौ प्रीतिं कंसस्यैव तु पश्यतः ॥३४॥
जघान कंसं रिपुपक्षघातिनं पितृद्विषं यादवनामधेयम् ।
संस्थाप्य राज्ये हरिरुग्रसेनं सान्दीपनं काश्यमुपागतो यः ॥३५॥
विद्यामवाप्य सकलां दत्त्वा पुत्रं महामुनेः ।
साग्रजोऽथ जगामाशु मथुरां यादवीं पुरीम् ॥३६॥
हत्वा निशुम्भं नरकं महामतिः कृत्वा स घोरं कदनं जनार्दनः ।
ररक्ष विप्रान् मुनिवीरसंघान् देवांश्च सर्वाञ्जगतो जगत्पतिः ॥३७॥
स एष भगवान् विष्णुरद्य दृष्टो जनार्दनः ।
कृतकृत्योऽस्मि संजातः सायुज्यं प्राप्तवानहम् ॥३८॥
येन दृष्टो हरिः साक्षात्तस्य मुक्तिः करे स्थिता ।
सोऽयमेष हरिः साक्षात् प्रत्यक्षमिह वर्तते ॥३९॥
नूनं जन्मान्तरे पूर्वं धर्मः संचित एव मे ।
यस्य पाकः समुत्पन्नौ येनासौ दृश्यते मया ॥४०॥
सर्वथा पुण्यवानस्मि नष्टसंसारबन्धनः ।
किमस्मै दीयते वस्तु किं नु वक्ष्यामि साम्प्रतम् ।
करिष्ये किमहं विष्णो वदस्वाद्य यथेप्सितम् ॥४१॥
वैशम्पायन उवाच
इत्युक्त्वा विस्तरं नादं ननर्द बहुशस्तदा ।
जहास विकृतं भूयो ननर्त पिशिताशनः ॥४२॥
नमो नमो हरे कृष्ण यादवेश्वर केशव ।
प्रत्यक्षं च हरेस्तत्र ननर्त विविधं नृप ॥४३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां घण्टाकर्णस्तुतौ द्व्यशीतितमोऽध्यायः ॥८२॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP