भविष्यपर्व - पञ्चसप्ततितमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
भगवतः श्रीकृष्णस्य सात्यकिना उद्धवेन सार्धं च नगरस्य रक्षाविषयकं वार्तालापं, बलरामादिभ्यः यादवेभ्यः रक्षणस्य भारं समर्पयित्वा कैलासयात्रायां प्रति उद्योगम्
श्रीभगवानुवाच
सात्यके शृणु मद्वाक्यं यत्तो भव युधां वर ।
त्वं तु खड्गी गदी भूत्वा चापपाणिस्तनुत्रवान् ॥१॥
तिष्ठ यत्नेन रक्षस्व पुरीं बहुनृपाश्रयाम् ।
न च निद्रा त्वया कार्या रात्रौ यदुवृष प्रभो ॥२॥
न च व्याख्या त्वया कार्या शास्त्राणां शास्त्रतत्पर ।
न च वादस्त्वया कार्यो वादिभिः सह वृष्णिप ॥३॥
त्वं हि योद्धा बली ज्ञाता धनुर्वेदाख्यवेदवित् ।
तथा कुरु यथा वीर नोपहास्या भवेदियम् ॥४॥
सात्यकिरुवाच
करिष्यामि वचस्तुभ्यं यथाशक्ति जनार्दन ।
आज्ञा तव जगन्नाथ धार्या यत्नेन मे सदा ॥५॥
भृत्यवत् प्रचरिष्यामि कामपालस्य माधव ।
यावदागमनं तुभ्यं तावत्स्थास्यामि यत्नतः ॥६॥
प्रसादस्तव गोविन्द यदि स्यान्मयि माधव ।
किं नाम मे च दुःसाध्यं शत्रूणां निग्रहे रणे ॥७॥
यदि शक्रं यमं वापि कुबेरमपि पाशिनम् ।
सर्वानेतान्विजेष्यामि किमु पौण्ड्रं नृपोत्तमम् ॥८॥
गच्छ कार्य कुरुष्वेदं यत्तोऽहं सततं हरे ।
उद्धवं पुनराहेदं कृष्णः पद्मनिभेक्षणः ॥९॥
शृणूद्धव त्वं वाक्यं मे कुर्यास्त्वेतत्प्रयत्नवान् ।
रक्ष्या नयेन राजेन्द्र पुरी द्वारवती त्वया ॥१०॥
यत्तो भव सदा तात कुरु साहय्यमत्र नः ।
लज्जा मम समुत्पन्ना वदतस्तव साम्प्रतम् ॥११॥
त्वं हि नेता समस्तस्य विद्यापारस्य सर्वतः ।
को नु शक्ष्यति मेधावी वक्तुं विद्यावतः पुरः ॥१२॥
यत् कार्यं तद्भवान् वेत्ति ह्यकार्यं वापि सर्वतः ।
अतोऽहं विरमे तात वक्तुं सम्प्रति वृष्णिप ॥१३॥
उद्धव उवाच
किमिदं तव गोविन्द वर्तते मां प्रति प्रभो ।
अहो प्रसन्नता मह्यं किंतु प्रीतिरियं तव ॥१४॥
जानाम्यहं जगन्नाथ प्रसादस्यैष विस्तरः ।
यस्य प्रसन्नो भवति तस्य किं नास्ति केशव ॥१५॥
त्वं हि सर्वस्य जगतः कर्ता हर्ता प्रधानतः ।
प्रभवः सर्वकार्याणां वक्ता श्रोता प्रमाणवित् ॥१६॥
ध्याता ध्यानमयो ध्येय इति ब्रह्मविदो विदुः ।
जेता देवरिपूणां च गोप्ता नाकसदां भवान् ॥१७॥
त्वन्नाथा वयमेवेति जीवामो निहतद्विषः ।
इयं नीतिरहं मन्ये नेता नीतेर्यतो भवान् ॥१८॥
को नु नाम नयो वेद त्वां विना साम्प्रतं वद ।
नीतिस्त्वं सर्वकार्याणामिति मे निश्चिता मतिः ॥१९॥
दुर्गाढो नयमार्गोऽयमित्याहुस्तद्विदो जनाः ।
चतुर्धा प्रोच्यते नीतिः सामदाने जनार्दन ॥२०॥
दण्डो भेदो मनुष्याणां निग्राहावग्रहे सदा ।
दण्ड्येषु दण्डमिच्छन्ति समान्यं तु नये हरे ॥२१॥
बलवत्स्वथ दानं तु त्रयाणामप्यगोचरे ।
प्रयोक्तव्यो महाभेद इति नीतिमतां मतम् ॥२२॥
तेषु तेष्वथ सर्वेषु प्रमाणं त्वां विदुर्बुधाः ।
किमत्र बहुनोक्तेन सर्वं त्वयि समर्पितम् ॥२३॥
वैशम्पायन उवाच
इत्युक्त्वा विररामैव उद्धवो नीतिमत्तरः ।
ततः स भगवान् विष्णुरेवमेव नृपोत्तम ॥२४॥
कामपालं महाबाहुमुवाच यदुसंसदि ।
उग्रसेनं नृपं राजंस्तथा हार्दिक्यमेव च ॥२५॥
कामपालं पुनर्विष्णुरिदं प्रोवाच तत्त्ववित् ।
न प्रमादस्त्वया कार्यः सर्वदा यत्नवान् भव ॥२६॥
स्थिते त्वयि महाबाहो का पीडा जगतो भवेत् ।
गदी भव सदा त्वार्य न क्रीडा सर्वदा भवेत् ॥२७॥
रक्ष त्वं सर्वदा यत्नात् पुरीं द्वारवतीं प्रभो ।
नोपहास्या यथा स्याम तथा कुरु गदी भव ॥२८॥
उत्साहः सर्वदा कार्यो निरुत्साहो न यत्नतः ।
बाढमित्यब्रवीद् रामः कृष्णं वृष्णिकुलोद्भवम् ॥२९॥
वृष्णयः सर्व एवैते स्वं स्वं सद्म समाययुः ।
गन्तुमैच्छज्जगन्नाथः कैलासं पर्वतोत्तमम् ॥३०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पञ्चसप्ततितमोऽध्यायः ॥७५॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP