अध्याय ४२ - प्रासादलक्षणकथनम्
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
इयग्रीव उवाच
प्रासादं सम्प्रवक्ष्यामि सर्वसाधारण श्रृण ।
चतुरस्त्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः ॥१॥
मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितम् ।
द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥२॥
जङ्घोच्छायन्तु कर्त्तव्यं चतुर्भागेण चायतम् ।
जङ्घायां द्विगुणोच्छायं मञ्चर्य्याः कल्पयेद् बुधः ॥३॥
तुर्य्यभागेन मञ्चर्य्याः कार्य्यः सम्यक् प्रदक्षिणः ।
तन्माननिर्गमं कार्य्यमुभयोः पार्श्वयोः समम् ॥४॥
शिशरेण समं कार्य्यमग्रे जगति विस्तरम् ।
द्विगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः ॥५॥
विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।
दैर्घ्यात्पादाधिकं कुर्य्यान्मध्यस्तम्भैर्विभूषितम् ॥६॥
प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपम् ।
एकाशीतिपदैर्व्वास्तुं पश्चात् मण्डपमारभ्त् ॥७॥
शुकान् प्राग्द्वारविन्यासे पादान्तः स्थान् यजेत् सुरान् ।
तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान् ॥८॥
सर्वसाधारणं चैतत् प्रासादस्य च लक्षणम् ।
मानेन प्रतिमाया वा प्रासादमपरं श्रृणु ॥९॥
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा ।
गर्भस्तु पिण्डिकार्द्वेन गर्भमानास्तु भित्तयः ॥१०॥
भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् ।
भित्त्युच्छायात्तु द्विगुणं शिखरं कल्पयेद् बुधः ॥११॥
शिखरस्य तु तुर्य्येण भ्रमणं परिकल्पयेत् ।
शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् ॥१२॥
अष्टमांशेन गर्भस्य रथकानान्तु निर्गमः ।
परिधेर्गुणभागेन रथकस्तित्र कल्पयेत् ॥१३॥
तत्तृतीयेण वा कुर्य्याद्रथकानान्तु निर्गमम् ।
वामत्रयं स्थापनीयं रथकत्रितये सदा ॥१४॥
शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् ।
शुकनाशोद्र्ध्वतः सूत्रं तिर्य्यग्भूतं निपातयेत् ॥१५॥
शिखरस्यार्द्धभागस्थं सिंहं तत्र तु कारयेत् ।
शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ॥१६॥
अपरे च तता पार्श्वे तद्वत् सूत्रं निधापयेत् ।
तदूद्र्ध्वन्तु भवेद्वेदी सकण्ठा मनसारकम् ॥१७॥
स्कन्धभग्नं न कर्त्तव्यं विकरालं तथैव च ।
उद्र्ध्वं च वेदिकामानात् कलशं परिकल्पयेत् ॥१८॥
विस्ताराद् द्विगुणं द्वारं कर्त्तव्यं तु सुशोभनम् ।
उदुम्बरौ तदूद्र्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः ॥१९॥
द्वारस्य तु चतुथांशे कार्य्यौ चण्डप्रचण्डकौ ।
विष्वक्सेनवत्सदण्डौ शिखोद्र्ध्वेडुम्बरे श्रियम् ॥२०॥
दिग्गजैः स्नाप्यमानान्तां घटैः साब्जां सुरूपिकाम् ।
प्रासादस्य चतुर्थांशैः प्राकारस्योच्छयो भवेत् ॥२१॥
प्रासादात् पादहीनस्तु गोपुरस्योच्छयोभवेत् ।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥२२॥
गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च ।
कुर्य्याद्धि प्रतिमायान्तु दिक्षु चाष्टासु चोपरि ॥२३॥
पूर्वं वराहं दक्षे च नृसिंहं श्रीधरं जले ।
उत्तरे तु हयग्रीवमाग्नेय्यां जामदग्न्यकम् ॥२४॥
नैर्ऋत्यां रामकं वायौ वामनं वासुदेवकम् ।
ईशे प्रासादरचना देया वस्वर्ककादिभिः॥
द्वारस्य चाष्टमाद्यंशं त्यक्त्वा वेधो न दोषभाक् ॥२५॥
इत्यादिमहापुराणे आग्नेये प्रासदलक्षणं नाम द्वाचत्वारिंशोऽध्यायः ।
N/A
References : N/A
Last Updated : September 15, 2020
TOP