अध्याय १५९ - असंस्कृतादिशौचं
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
पुष्कर उवाच
संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः ॥१॥
अस्थ्नाङ्गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥१॥
गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थितिः ॥२॥
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥२॥
तेषामपि तथा गाङ्गे तोयेऽस्थ्नां पतनं हितं ॥३॥
तेषां दत्तं जलं चान्नं गगने तत्प्रलीयते ॥३॥
अनुग्रहेण महता प्रेतस्य पतितस्य च ॥४॥
नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ॥४॥
अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ॥५॥
पतनात्त्रायते यस्मात्तस्मात्पात्रं जनार्दनः ॥५॥
पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं ॥६॥
दृष्ट्वा लोकान्म्रियमाणान् सहायं धर्ममाचरेत् ॥६॥
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं ॥७॥
जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते(१) ॥७॥
धर्म एको(२) व्रजत्येनं यत्र क्वचन गामिनं ॥८॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं ॥८॥
न हि प्रतीक्षते मृत्युः कृतः वास्य न वा कृतं ॥९॥
क्षेत्रापणगृहासक्तमन्यत्रगतमानसं ॥९॥
वृकीवीरणमासाद्य मृत्युरादाय गच्छति ॥१०॥
न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ॥१०॥
आयुष्ये कर्मणि क्षीणे प्रसह्य हरिते जनं ॥११॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥११॥
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥१२॥
- - - - - -- - -- - -- - -- - -- -- - --
१ पन्था विभज्यते इति ग..
२ धर्म एवेति ज..
- - - -- - - -- - -- - -- - -- - - ---
औषधानि(१) न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं ॥१२॥
वत्सवत्प्राकृतं कर्म कर्तारं विन्दति ध्रुवं ॥१३॥
अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत् ॥१३॥
कौमारादि यथा देहे तथा देहान्तरागमः ॥१४॥
नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं ॥१४॥
देही नित्यमवध्योऽयं यतः शोकं ततस्त्यजेत् ॥१५॥
इत्याद्याग्नेये महापुराणे शौचं नामैकोनषष्ट्यधिकतशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : September 17, 2020
TOP