अध्याय १६३ - श्राद्धकल्पकथनं
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
पुष्कर उवाच
श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ॥१॥
निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः ॥१॥
प्राच्योपवेशयेत्पीठे युग्मान्दैवेऽथ पित्रके ॥२॥
अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा ॥२॥
मातामहानामप्येवन्तन्त्रं वा वैश्यदेविकं ॥३॥
प्राणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥३॥
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥४॥
यवैरन्ववकीर्याथ(?) भाजने सपवित्रके ॥४॥
शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा ॥५॥
यादिव्या इतिमन्त्रेण हस्ते ह्यर्घं विनिक्षिपेत् ॥५॥
दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं ॥६॥
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं ॥६॥
द्विगुणांस्तु कुशान् कृत्वा ह्युशन्तस्त्वेत्यृचा पितॄन् ॥७॥
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ॥७॥
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ॥८॥
दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः ॥८॥
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥९॥
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं ॥९॥
कुरुष्वेति ह्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥१०॥
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥१०॥
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ॥११॥
दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं ॥११॥
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥१२॥
सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं ॥१२॥
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥१३॥
अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं ॥१३॥
अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च ॥१४॥
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥१४॥
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥१५॥
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात्पितृयज्ञवत् ॥१५॥
मातामहानामप्येवं दद्यादाचमनं ततः ॥१६॥
स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च ॥१६॥
दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ॥१७॥
वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां(१) ॥१७॥
टिप्पणी
१ मातामहानामित्यादिः, स्वपितृभ्यः स्वधोच्यतामित्यन्तः पाठः झ.. पुस्तके नास्ति
कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं ॥१८॥
प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत् ॥१८॥
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥१९॥
श्रद्धा च नो माव्यगमद्बहुदेयं च नो .स्त्विति ॥१९॥
इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥२०॥
वाजे वाज इति प्रीतपितृपूर्वं विसर्जनं(१) ॥२०॥
यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः ॥२१॥
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥२१॥
प्रदक्षिणमनुब्रज्य भक्त्वा तु पितृसेवितं ॥२२॥
ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह ॥२२॥
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ॥२३॥
यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया ॥२३॥
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं ॥२४॥
आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥२४॥
उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने ॥२५॥
अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥२५॥
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयं ॥२६॥
अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥२६॥
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥२७॥
एतत्सपिण्डीकरणमेकोद्दिष्टं स्तिया सह(२) ॥२७॥
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥२८॥
टिप्पणी
१ पितृपूर्वं विसर्जयेदिति ख.. , छ.. , झ.. च
२ स्त्र्या अपीति ख.. , छ.. च
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥२८॥
मृताहनि च कर्तव्यं प्रतिमासन्तु वत्सरं ॥२९॥
प्रतिसंवत्सरं कार्यं श्राद्धं वै मासिकान्नवत् ॥२९॥
हविष्यान्नेन वै मासं पायसेन तु वत्सरं ॥३०॥
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः(१) ॥३०॥
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमं ॥३१॥
मासवृद्ध्याभितृप्यन्ति दत्तैरेव(२) पितामहाः ॥३१॥
खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च(३) ॥३२॥
लोहामिषं कालशाकं मांसं वार्धीनसस्य च ॥३२॥
यद्ददाति गयास्थञ्च सर्वमानन्त्यमुच्यते(४) ॥३३॥
तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥३३॥
कन्यां प्रजां वन्दिनश्च पशून्मुख्यान् सुतानपि ॥३४॥॥
घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥३४॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ॥३५॥
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥३५॥
प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्दशीं ॥३६॥
शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते ॥३६॥
स्वर्गं(५) ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ॥३७॥
पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान् ॥३७॥
टिप्पणी
१ मात्स्याविहारिणौरभ्रशाकुनच्छागपार्षतैरिति छ..
२ दत्तैरिहेति घ.. , ङ.. , ञ.. च
३ मधुमुद्गान्नमेव वेति ङ..
४ सर्वमानन्त्यमश्नुते इति घ.. , ङ.. च
५ स्वर्णमिति ख.. , छ.. च
प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा ॥३८॥
अरोगित्वं यशो वीतशोकतां परमाङ्गतिं ॥३८॥
धनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं ॥३९॥
अश्वानायुश्च विधिवत्यः श्राद्धं सम्प्रयच्छति ॥३९॥
कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् ॥४०॥
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥४०॥
प्रीणयन्ति मनुष्याणां(१) पितॄन् श्राद्धेन तर्पिताः ॥४१॥
आयुः प्रजां धनं(२) विद्यां स्वर्गं मोक्षं सुखानि च ॥४१॥
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः(३) ॥४२॥४२॥
इत्याग्नेये महापुराणे श्राद्धकल्पो नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : September 18, 2020
TOP