संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गृहादिवास्तुर्नामः

अध्याय १०५ - गृहादिवास्तुर्नामः

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


ईश्वर उवाच
नगरग्रामदुर्गाद्या(६) गृहप्रासादवृद्धये ॥१॥
- - - - - -- - -- - - -- - -- - - - - -- - -
टिप्पणी
६ नगरग्रामदुर्गादौ इति ख.. , छ.. , ज.. च । नगरग्रामदुर्गाख्यमिति घ..
- - - - - -- - -- - - -- - -- - - - - -- - -
एकाशीतिपदैर्वस्तुं पूजयेत्सिद्धये ध्रुवं ॥१॥
प्रागास्या दशधा नाड्यास्तासां नामानि च ब्रुवे ॥२॥
शान्ता यशोवती कान्ता विशाला प्राणवाहिनी ॥२॥
सती वसुमती नन्दा सुभद्राथ(१) मनोरमा(२) ॥३॥
उत्तरा द्वादशान्याश्च(३) एकाशीत्यङ्घ्रिकारिका ॥३॥
हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला प्रिया ॥४॥
जया ज्वाला विशोका च स्मृतास्तत्रपादतः(४) ॥४॥
ईशाद्यष्टाष्टकं दिक्षु यजेदीशं धनञ्जयं ॥५॥
शक्रमर्कं तथा सत्यं(५) भृशं व्योम च पूर्वतः ॥५॥
हव्यवाहञ्च पूर्वाणि वितथं भौममेव च ॥६॥
कृतान्तमथ गन्धर्वं भृगं मृगञ्च दक्षिणे ॥६॥
पितरं द्वारपालञ्च सुग्रीवं पुष्पदन्तकं ॥७॥
वरुणं दैत्यशेषौ च यक्ष्माणं पश्चिमे सदा ॥७॥
रोगाहिमुख्यो(६) भल्लाटः सौभाग्यमदितिर्दितिः(७) ॥८॥
नवान्तः पदगो ब्रह्मा पूज्योर्धे च षडङ्घिगाः(८) ॥८॥
ब्रह्मेशान्तरकोष्ठस्थ(९) मायाख्यान्तु पद्द्वये ॥९॥
तदधश्चापवत्साख्यं केन्द्रन्तरेषु षट्पदे ॥९॥
- - - - - -- - -- - - -- - -- - - - - -- - -
टिप्पणी
१ सुभद्रा चेति ज..
२ मनोजवा इति ज..
३ उत्तरास्या दशान्याश्चेति ख.. , ग.. , घ.. , ङ.. , ज.. च
४ सूत्रपादत इति ग.. । सूत्रपातत इति छ..
५ शक्रमेकं तथापत्यमिति झ..
६ रोगाहिमोक्षेति ख.. , छ.. च
७ सोमरूप्यदितौ दितिमिति ख..
८ षडङ्गका इति ग..
९ गोष्ठस्थ इति छ..
- - - - - -- - -- - - -- - -- - - - - -- - -
मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः ॥१०॥
सावित्री तदधो द्व्यंशे विवस्वान् षट्पदे त्वधः ॥१०॥
पितृब्रह्मान्तरे विष्णुमिन्दुमिन्द्रं त्वधो जयं ॥११॥
वरुणब्रह्मणोर्मध्ये मित्राख्यं षट्पदे यजेत् ॥११॥
रोगब्रह्मान्तरे नित्यं द्विपञ्च(१) रुद्रदासकम् ॥१२॥
तदधो द्व्यङ्घ्रिगं यक्ष्म षट्सौम्येषु धराधरं(२) ॥१२॥
चरकीं स्कन्दविकटं विदारीं पूतनां क्रमात् ॥१३
जम्मं पापं(३) पिलिपिच्छं(४) यजेदीशादिवाह्यतः(५) ॥१३॥
एकाशीपदं वेश्म मण्डपश्च शताङ्घ्रिकः(६) ॥१४॥
पूर्ववद्देवताः पूज्या ब्रह्मा तु षोडशांशके(७) ॥१४॥
मरीचिश्च विवस्वांश्च मित्रं पृथ्वीधरस्तथा(८) ॥१५॥
दशकोष्ठस्थिता दिक्षु त्वन्ये बेशादिकोणगाः(९) ॥१५॥
दैत्यमाता तथेशाग्नी(१०) मृगाख्यौ पितरौ तथा ॥१६॥
पापयक्ष्मानिलौ देवाः सर्वे सार्धांशके स्थिताः ॥१६॥
यत्पाद्योकः(११) प्रवक्ष्यामि सङ्क्षेपेण क्रमाद्गुह ॥१७॥
- - - - - -- - -- - - -- - -- - - - - -- - -
टिप्पणी
१ द्विस्थञ्चेति ख.. , ग.. , ज.. च
२ षट्सौम्येषु चराचरमिति झ.. , घ.. च
३ कुम्भपालमिति छ..
४ पिल्लिपिञ्जमिति ख.. । पिञ्जिपिञ्छमिति छ..
५ चरकीमित्यादिः, वाह्यत इत्यन्तः पाठो झ.. पुस्तके नास्ति
६ शतार्धकमिति झ..
७ ब्रह्मान्तैः षोडशांतकैरिति ख.. , छ.. च । ब्रह्मान्ताः षोडशांशके इति ग.. , ज.. च
८ पृथ्वीधरन्तथेति ख..
९ त्वन्येवेशादिके गणा इति ख.. , छ.. च
१० दैत्यमाता भवेशाग्नी इति ख.. । दैत्यमाता हरेशाग्नी इति घ.. , ज.. च
११ यज्ञाद्योक इति ङ..
- - - - - -- - -- - - -- - -- - - - - -- - -
सदिग्विंशत्करैर्दैर्घ्यादष्टाविंशति(१) विस्तरात् ॥१७॥
शिशिराश्रयः शिवाख्यश्च(२) रुद्रहीनः सदोभयोः ॥१८॥
रुद्रद्विगुणिता नाहाः पृथुष्णोभिर्विना त्रिभिः ॥१८॥
स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथिभिश्चैव(३) विस्तरात्(४) ॥१९॥
सावित्रः सालयः कुड्या(५) अन्येषां पृथक्स्त्रिंशांशतः ॥१९॥
कुड्यपृथुपजङ्घोच्चात्कुड्यन्तु त्रिगुणोच्छयं ॥२०॥
कुड्यसूत्रसमा पृथ्वी वीथी भेदादनेकधा ॥२०॥
भद्रे तुल्यञ्च वीथीभिर्द्वारवीथी विनाग्रतः ॥२१॥
श्रीजयं पृष्ठतो हीनं भद्रोयं पार्श्चयोर्विना ॥२१॥
गर्भपृथुसमा(९) वीथी तदर्धार्धेन वा क्वचित् ॥२२॥
वीथ्यर्धेनोपवीथ्याद्यमेकद्वित्रिपुरान्वितम् ॥२२॥
सामान्यानाथ गृहं वक्ष्ये सर्वेषां सर्वकामदं ॥२३॥
एकद्वित्रिचतुःशालमष्टशालं यथाक्रमात् ॥२३॥
एकं याम्ये च सौमास्यं द्वे चेत्पश्चात्पुरोमुखम्(७) ॥२४॥
चतुःशालन्तु साम्मुख्यात्तयोरिन्द्रेन्द्रमुक्तयोः ॥२४॥
शिवास्यमम्बुपास्यैष इन्द्रास्ये यमसूर्यकं(८) ॥२५॥
- - - - - -- - -- - - -- - -- - - - - -- - -
टिप्पणी
१ साष्टाविंशति इति ख.. , ङ.. च
२ शिवाश्रमः शिवाख्यस्येति ख.. , घ.. , झ.. च । शिवाग्रकशिवाख्यस्येति ग.. । शिवाग्रगः शिवाख्यस्येति ङ.. , ज.. च । शिवाश्रयः शिवाख्यस्येति छ..
३ दैर्घ्यादृषिभिभिश्चैवेति घ..
४ दैर्घ्यात्साष्टाविंशतिविस्तरादिति छ..
५ सावित्र्यालयः कुला इति ख.. । सावित्र इत्यादिः, त्रिगुणोच्छ्रयमित्यन्तः पाठो झ.. पुस्तके नास्ति
६ गर्भपीठसमा इति ख.. , घ.. , झ.. च
७ सौम्यास्यं द्वे द्वे पश्चात्पुरोमुखमिति ख.. । सौम्याख्यं द्वे च पश्चादधोमुखमिति झ..
८ सावित्रः सालयः कोटीनां तपसा
- - - - - -- - -- - - -- - -- - - - - -- - -
प्राक्सौम्यस्थे च दण्दाख्यं प्राग्याम्ये वातसञ्ज्ञकं ॥२५॥
आप्येन्दौ गृहवल्याख्यं(१) त्रिशूलं तद्विनर्धिकृत् ॥२६॥
पूर्वशलाविहीनं(२) स्यात्सुक्षेत्रं वृद्धिदायकं ॥२६॥
याम्ये हीने भवेच्छूली त्रिशालं वृद्धिकृत्परं(३) ॥२७॥
यक्षघ्नं जलहीनौकः सुतघ्नं बहुशत्रुकृत् ॥२७॥
- - - - - -- - -- - - -- - -- - - - - -- - -
टिप्पणी
सत्यलोकतः । अपुनर्मारका यत्र ब्रह्मलोको हि स्मृतः । पादाद्यधस्तुर्भूलोको भुवः सूर्याद्ववः स्मृतः । स्वर्लोको भुवान्तश्च नियुतानि चतुर्दश । एकदण्डं कटाहेन वृतो ब्रह्माण्डविस्तरः । वारिवह्न्यानलाशैस्ततो भूतादिनावधि । वृतं दशगुणैरण्डं भूतादिर्महता तथा । दशोत्तराण्यशेषाणि शुक्र कस्मान्मामुने । महान्तञ्च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संस्थानं न च विद्यते । हेतुभूतमशेषस्य प्रकृतिः सा पुरा मुने । असङ्ख्यातानि चाण्डानि तत्र जातानि च दृशाम् । दरुण्यग्निर्यथा तैलं तेन तद्वत्पुमानिति । प्रधानेवस्थितो व्यापी चेतनात्मात्मवेदनः । प्रधानश्च पुमांश्चैव सर्वभूतात्मभूतात्मभूस्तथा । विष्णुशक्त्या महत्प्राज्ञवृत्तौ संश्रयधर्मिणौ । तयोः सैव पृथग्भावे करणं संशयस्य च । महाख्यं स्वतलश्चाख्यं पातालं चापि सत्तम । कृष्णपीतारुणाः शुक्रशर्कराशैलकाञ्चनाः । भूमयस्तेषु चान्येषु सन्ति दैत्यादयः सुखम् । पातालानामधश्चान्ते शेषो विष्णोश्च तामसः । गुणानन्यान् स चानन्तः शिरसा धारयन्महीम् । भुवोधो नरका लोकं नयते क्षत्रवैष्णवः । वारिणा भाविता पृथ्वी यावत्तावन्नभो मतम् । सिद्धान्तमस्तुयाभ्यैव, इन्द्रास्थे यमसूर्यकम् । मल्लब्धेषु क.. , ख.. , ग.. , घ.. , ङ.. , छ.. , झ.. चिह्नितपुस्तकेषु सावित्रः सालयः इत्यतः परं नैष पाठो वर्तते । तेषु तु मुद्रितपाठ एव वर्तते पुनः ज.. चिह्नितपुस्तके सावित्रः सालय
इत्यतः परं इन्द्रास्येयमसूर्यकमित्यन्तः पाठो नास्ति । ज.. चिह्नितपुस्तके य उक्तपाठो दृश्यते तत्र पूर्वापरसङ्गतिर्नास्ति । प्रकरणान्तरीयपाथोयमत्र लेखकभ्रमात्समागत इति भाति
१ गृहशल्याख्यमिति ख..
२ पूर्वशाखाविहीनमिति ङ..
३ याम्ये हीने भवेच्चुल्ली त्रिशास्त्रं दितितत्परमिति झ.. । याम्ये हीने भवेच्छत्री त्रिशालं वित्तहृत्परमिति ग..
- - - - - -- - -- - - -- - -- - - - - -- - -
इन्द्रादिक्रमतो वच्मि(१) ध्वजाद्यष्टौ गृहाण्यहं ॥२८॥
प्रक्षालानुस्रगावासमग्नौ(२) तस्य महानसं ॥२८॥
याम्ये रसक्रिया शय्या धनुःशस्त्राणि रक्षसि ॥२९॥
धनमुक्त्यम्वुपेशाख्ये(३) सम्यगन्धौ च(४) मारुते ॥२९॥
सौम्ये(५) धनपशू कुर्यादीशे दीक्षावरालयं(६) ॥३०॥
स्वामिहस्तमितं वेश्म विस्तारायामपिण्डिकं ॥३०॥
त्रिगुणं हस्तसंयुक्तं कृत्वाष्टांशैहृतं तथा(७) ॥३१॥
तच्छेषोयं स्थितस्तेन वायसान्तं ध्वजादिकं ॥३१॥
त्रयः पक्षाग्निवेदेषु रसर्षिवसुतो भवेत् ॥३२॥
सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितं ॥३२॥
तस्माच्च(८) नवमे भागे शुभकृन्निलयो मतः ॥३३॥
तन्मधे मण्डपः शस्तः समो वा द्विगुणायतः ॥३३॥
प्रत्यगाप्ये चेन्दुयमे(९) हट्ट एव गृहावली ॥३४॥
एकैकभवनाख्यानि दिक्ष्वष्टाष्टकसङ्ख्यया(१०) ॥३४॥
ईशाद्यदितिकान्तानि फलान्येषां यथाक्रमं(११) ॥३५॥
भयं नारी चलत्वं च जयो वृद्धिः प्रतापकः ॥३५॥
- - - - - -- - -- - - -- - -- - - - - -- - -
टिप्पणी
१ इन्द्रादिक्रमतो वह्नीति ख.. , छ.. च
२ प्रक्षालनात्मभागारः समग्नौ इति छ.. । प्रक्षालानुग्रहावासमग्रौ इति ज..
३ धनभ्क्ताम्बुपशाख्ये इति ख.. , छ.. च
४ शस्यमञ्चौ चेति झ..
५ याम्ये इति झ..
६ दीक्षासुरालयमिति ख.. , ज.. , झ.. च
७ कृत्वाष्टांशैर्हतं तथेति ग.. । कृत्वाष्टाङ्गैर्हतं तथेति घ.. , ज.. च । कृत्वाष्टांशहतस्तथेति झ..
८ तस्मात्तु इति झ..
९ प्रागीशे चेन्दुयाम्ये वेति ख.. । प्रागाप्ये चेन्दुयाम्ये इति छ.. , झ.. च
१० सर्वनाशकरमित्यादिः, यथाक्रममित्यन्तः पाठो ज.. पुस्तके नास्ति
- - - - - -- - -- - - -- - -- - - - - -- - -
धर्मः कलिश्च नैस्व्यञ्च प्राग्द्वारेष्वष्टसु ध्रुवं ॥३६॥
दाहोऽसुखं सुहृन्नाशो धननाशो मृतिर्धनं(१) ॥३६॥
शिल्पित्वं तनयः स्याच्च याम्यद्वारफलाष्टकम् ॥३७॥
आयुःप्राव्राज्यशस्यानि(२) धनशान्त्यर्थसङ्क्षयाः ॥३७॥
शोषं भोगं चापत्यञ्च(३) जलद्वारफलानि च ॥३८॥
रोगो मदार्तिमुख्यत्वं चार्थायुः कृशता मतिः ॥३८॥
मानश्च द्वारतः पूर्व(४) उत्तरस्यां दिशि क्रमात् ॥३९॥

इत्याग्नेये महापुराणे गृहादिवास्तुर्नाम पञ्चाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP