संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मेरुदानानि

अध्याय २१२ - मेरुदानानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
काम्यदानानि वक्ष्यामि सर्वकाम प्रदानि ते ॥१॥
नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं ॥१॥
व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं ॥२॥
अश्वं वै मार्गशीर्षे तु कमलं पिष्टसम्भवं ॥२॥
शिवाय पूज्य यो दद्यात्सूर्यलोके चिरं वसेत्(१) ॥३॥
- - -- - - -- - - -- - - -- -
टिप्पणी
१ स्वर्गलोके चिरं वसेदिति ग.. , घ.. , ङ.. , ट.. च । शिवलोके चिरं वसेदिति झ..
- - -- - - -- - - -- - - -- -
गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत् ॥३॥
माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् ॥४॥
फाल्गुने तु वृषं पैष्टं स्वर्गभुक्स्यान्महीपतिः ॥४
चैत्रे चेक्षुमयीं गावन्दासदासीसमन्वितां ॥५॥
दत्त्वा स्वर्गे चिरं स्थित्वा तदन्ते स्यान्महीपतिः ॥५॥
सप्तव्रीहींश्च वैशाखे दत्त्वा शिवमयो भवेत् ॥६॥
बलिमण्डलकञ्चान्नैः कृत्वाषाढे शिवो भवेत् ॥६॥
विमानं श्रावणे पौष्पं दत्त्वा स्वर्गी ततो नृपः ॥७॥
शतद्वयं फलानान्तु दत्त्वोद्धृत्य कुलं नृपः ॥७॥
गुग्गुलादि दहेद्भाद्रे स्वर्गी स स्यात्ततो नृपः ॥८॥
क्षीरसर्पिर्भृतं पात्रमाश्विने स्वर्गदम्भवेत् ॥८॥
कार्त्तिके गुडखण्डाज्यं दत्त्वा स्वर्गी ततो नृपः ॥९॥
मेरुदानं द्वादशकं वक्ष्येऽहं भुक्तिमुक्तिदं ॥९॥
मेरुव्रते तु कार्त्तिक्यां रत्नमेरुन्ददेद्द्विजे ॥१०॥
सर्वेषाञ्चैव मेरूणां प्रमाणं क्रमशः शृणु ॥१०॥
वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञितः ॥११॥
पुष्पं मरकतं मुक्ता प्रस्थमात्रेण चोत्तमः ॥११॥
मध्योऽर्धः स्यात्तदर्धोऽधो वित्तशाठ्यं विवर्जयेत् ॥१२॥
कार्णिकायां न्यसेन्मेरुं ब्रह्मविष्ण्वीशदैवतं ॥१२॥
माल्यवान् पूर्वतः पूज्यस्तत्पूर्वे भद्रसञ्ज्ञितः ॥१३॥
अश्वरक्षस्ततः प्रोक्तो निषधो मेरुदक्षिणे ॥१३॥
हेमकूटोऽथ हिमवान् त्रयं सौम्ये तथा त्रयं ॥१४॥
नीलः श्वेतश्च शृङ्गी च पश्चिमे गन्धमादनः ॥१४॥
वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः ॥१५॥
सोपवासोऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं ॥१५॥
देवाग्रे चार्च्य मेरुञ्च मन्त्रैर्विप्राय वै ददेत् ॥१६॥
विप्रायामुकगोत्राय मेरुन्द्रव्यमयम्परं ॥१६॥
भुक्त्यै मुक्त्यै निर्मलत्वे विष्णुदैवं ददामि ते ॥१७॥
इन्द्रलोके ब्रह्मलोके शिवलोके हरेः पुरे ॥१७॥
कुलमुद्धृत्य क्रीडेत विमाने देवपूजितः ॥१८॥
अन्येष्वपि च कालेषु सङ्क्रान्त्यादौ प्रदापयेत् ॥१८॥
पलानान्तु सहस्रेण हेममेरुम्प्रकल्पयेत् ॥१९॥
शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं ॥१९॥
एकैकं पर्वतन्तस्य शतैकैकेन कारयेत् ॥२०॥
मेरुणा सह शैलास्तु ख्यातास्तत्र त्रयोदश ॥२०॥
अयने ग्रहणादौ च विष्ण्वग्रे हरिमर्च्य च ॥२१॥
स्वर्णमेरुं द्विजायार्प्य विष्णुलोके चिरं वसेत् ॥२१॥
परमाणवो यावन्त इह राजा भवेच्चिरं ॥२२॥
रौप्यमेरुं द्वादशाद्रियुतं सङ्कल्पतो ददेत्(१) ॥२२॥
प्रागुक्तं च फलं तस्य विष्णुं विप्रं प्रपूज्य च ॥२३॥
भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च(२) ॥२३॥
परिकल्प्याष्टमांशेन शेषांशाः(३) पूर्ववत्फलं ॥२४॥
द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं ॥२४॥
- - -- - - -- - - -- - - -- -
टिप्पणी
१ सङ्कल्प्य तद्ददेदिति ग.. , घ.. , ङ.. , ञ.. च
२ मण्डलं ग्राममेवेति ग.. , झ.. , ट.. च
३ शेषाङ्गा इति ख..
- - -- - - -- - - -- - - -- -
ददेत्त्रिपुरुषैर्युक्तं दत्त्वानन्तं फलं लभेत् ॥२५॥
त्रिपञ्चाश्वैरश्वमेरुं हययद्वादशसंयुतं ॥२५॥
विष्ण्वादीन् पूज्य तं दत्त्वा भुक्तभोगो नृपो भवेत् ॥२६॥
अश्वसङ्ख्याप्रमाणेन गोमेरुं पूर्ववद्ददेत् ॥२६॥
पट्टवस्त्रैर्भारमात्रैर्वस्त्रमेरुश्च मध्यतः ॥२७॥
शैलैर्द्वादशवस्त्रैश्च दत्त्वा तञ्चाक्षयं फलं ॥२७॥
घृतपञ्चसहस्रैश्च पलानामाज्यपर्वतः ॥२८॥
शतैः पञ्चभिरेकैकः पर्वतेऽस्मिन् हरिं यजेत् ॥२८॥
विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् ॥२९॥
एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात्फलं ॥२९॥
धान्यमेरुः पञ्चखारोऽपर एकैकखारकाः ॥३०॥
स्वर्णत्रिशृङ्गकाः सर्वे ब्रह्मविष्णुमहेश्वरान् ॥३०॥
सर्वेषु पूज्य विष्णुं वा विशेषादक्षयं फलं ॥३१॥
एवं दशांशमानेन तिलमेरुं प्रकल्पयेत् ॥३१॥
शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च ॥३२॥
तिलमेरुं प्रदायाथ बन्धुभिर्विष्णुलोकभाक्(१) ॥३२॥
नमो विष्णुस्वरूपाय धराधराय वै नमः ॥३३॥
ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च ॥३३॥
नगद्वादशनाथाय सर्वपापापहारिणे ॥३४॥
विष्णुभक्ताय शान्ताय त्राणं मे कुरु सर्वथा ॥३४॥
निष्पापः पितृभिः सार्धं विष्णुं गच्छामि ओं नमः ॥३५॥
- - -- - - -- - - -- - - -- -
टिप्पणी
१ बन्धुभिर्ब्रह्मलोकभागिति झ..
- - -- - - -- - - -- - - -- -
त्वं हरिस्तु हरेरग्रे अहं विष्णुश्च विष्णवे ॥३५॥
निवेदयामि भक्त्या तु भुक्तिमुक्त्यर्थहेतवे ॥३६॥

इत्याग्नेये महापुराणे मेरुदानानि नाम द्वादशाधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP