अध्याय ३४५ - शब्दार्थालङ्काराः
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
अग्निरुवाच
शब्दार्थयोरलङ्कारो द्वावलङ्कुरुते समं ।
एकत्र निहितो हारः स्तनं ग्रीवामिव त्रियाः ॥१॥
प्रशस्तिः कान्तिरौचित्यं संक्षेपो यावदर्थता ।
अबिव्यक्तिरिति व्यक्तं षड्भेदास्तस्य जाग्रति ॥२॥
प्रशस्तिः परवन्मर्म्मद्रवीकरणकर्म्मणः ।
वाचो युक्तिर्द्विधा सा च प्रेमोक्तिस्तुतिभेदतः ॥३॥
प्रेमोक्तिस्तुतिपर्य्यायौ प्रियोक्तिगुणकीर्त्तने ।
कान्तिः सर्व्वमनोरुच्यवाच्यवाचकसङ्गतिः ॥४॥
यथा वस्तु तथा रीतिर्यथा वृत्तिस्तथा रसः ।
उर्ज्जस्विमृदुसन्दर्भादौचित्यमुपजायते ॥५॥
संक्षेणो वाचकैरस्पैर्वहोरर्थस्य संग्रहः ।
अन्यूनाधिकता शब्दवस्तुनोर्यावदर्थता ॥६॥
प्रकटत्वमभिव्यक्तिः श्रुतिराक्षेप इत्यपि ।
तस्या भेदौ श्रुतिस्तत्र शब्दं स्वार्थसमर्पणम् ॥७॥
भवेन्नैमित्तिकी पारिभाषिकी द्विविधैव सा ।
सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी ॥८॥
मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा ।
स्वाभिधेयस्खलद्वृत्तिरमुख्यार्थस्य वाचकः ॥९॥
यया शब्दो निमित्तेन केनचित्सौपचारिकी ।
सा च लाक्षणिकी गौणी लक्षणागुणयोगतः ॥१०॥
अभिधेयाविनाभूता प्रतीतिर्ल्लक्षणोच्यते ।
अभिधेयेन सम्बन्धात्सामीप्यात्समवायतः ॥११॥
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ।
गौणीगुणानामानन्त्यादनन्ता तद्विवक्षया ॥१२॥
अन्यधर्म्मस्ततोऽन्यत्र लोकसीमानुरोधिना ।
सम्यगाधीयते यत्र स समाधिरिह स्मृतः ॥१३॥
श्रुतेरलभ्यमानोऽर्थो यस्माद्भाति सचेतनः ।
स आक्षएपो ध्वनिः स्याच्च ध्वनिना व्यज्यते यतः ॥१४॥
शब्देनार्थेन यत्रार्थः कृत्वा स्वयमुपार्जनम् ।
प्रतिषेध इवेष्टस्य यो विशेषोऽभिधित्सया ॥१५॥
तमाक्षेपं ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः ।
अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ॥१६॥
यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणं ।
सा समासोक्तिरुदिता सङ्क्षेपार्थतया बुधैः ॥१७॥
अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् ।
पर्य्यायोक्तं यदन्येन प्रकारेणाभिधीयते ॥१८॥
एषामेकंतमस्येव समाख्या ध्वनिरित्यतः ॥१९॥
इत्यादिमहापुराणे आग्नेये अलङ्कारे शब्दार्थालङ्कारनिरूपणं नाम पञ्चचत्वारिशदधिकत्रिशततमोऽध्यायः॥
N/A
References : N/A
Last Updated : September 23, 2020
TOP