संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
तद्धितम्

अध्याय ३५६ - तद्धितम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


स्कन्द उवाच
तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी ।
ल व्यंसलो वत्सलः स्यादिलचि स्यात्तू फेनिलं ॥१॥

लोमशः से पामनो ने इलचि स्यात्तु पिच्छिलं ।
अणि प्राज्ञ आर्च्चकः स्यात् दन्तादुरचि दन्तुरः ॥२॥

रे स्याम्मधुरं सुशिरं रे स्यात् केशर ईदृशः ।
हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ॥३॥

इनो धनो करी हस्ती धनिकं टिकनोरितं ।
पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ॥४॥

वाग्मी मिनि आलचि स्याद्वाचालश्चाटचीरितं ।
फलिनो वर्हिणः केकी वृन्दारकस्तया कनि ॥५॥

आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः ।
हिमालुरालुचि स्याच्च हिमं न सहते तथा ॥६॥

रूपं वातादुलचि स्याद् वातुलश्चानपत्यके ।
वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ॥७॥

तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः ।
व्युत्‌क्रमं वेत्ति क्रमकः नरश्चक्राम कौशकः ॥८॥

प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि ।
मौद्‌गीनं सौद्रवीणञ्च वैदेहश्चानपत्यके ॥९॥

इञि दाक्षिर्दाशरथिः कचि नारायणादिकं ।
आश्वायनः स्याच्च फञि यचि गार्ग्यश्च वात्सकः ॥१०॥

ढकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि ।
ढ्रकि गौधेरको रूपं गौवारश्चारकीरितं ॥११॥

क्षत्रियो घे कुलीनः खे ण्ये कौरव्यादयः स्मृताः ।
यति मूर्द्धन्यमुख्यादिः सुगन्धिरिति रूपकं ॥१२॥

तारकादिभ्य इतचि नभस्तारकितादयः ।
अनङि स्याच्च कुण्डाध्नी पुष्पधन्वसुधनवनी ॥१३॥

चञ्चुपि वित्तचञ्चुः स्याद्वित्तमस्य च शब्दके ।
चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् ॥१४॥

ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् ।
पचतितराञ्च तरपि तमप्यटतितमामपि ॥१५॥

मृद्वीतमा कल्पपि स्यादिन्द्रकल्पोऽर्ककल्पकः ।
राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ॥१६॥

पटुजातीयो जातीये जानुमात्रञ्च मात्रचि ।
ऊरुद्वयसो द्वयसचि ऊरुदघ्नञ्च दघ्नचि ॥१७॥

तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं ।
सामान्यवृत्तिरुक्ताऽअव्याख्यश्च तद्धितः ॥१८॥

यस्माद्यतस्तसिलि च यत्र तत्र त्रलीरितं ।
अस्मिन् काले ह्यधुना स्यादिदानीञ्चैव दान्यपि ॥१९॥

सर्वस्मिन् सर्व्वदा दा स्यात्तस्मिन्काले र्हिलीरितं ।
तर्हि होऽस्भिन् काल इह कर्हि सस्मिंश्च कालके ॥२०॥

यथा थालि थमि कथं पूर्व्वस्यान्दिशि सञ्चयेत् ।
अस्ताति चैव पूर्व्वस्याः पूर्व्वादिग्रामणीयकाः ॥२१॥

पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्येऽहनीरितं ।
उतिपूर्व्वाब्दे च परुत् पूर्व्वतरे परार्य्यपि ॥२२॥

ऐषमोऽस्मिन् संवत्सरे रूपं समसि चेरितं ।
एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं ॥२३॥

अद्यास्मिन्नहनि द्ये स्यात् पूर्व्वेद्युश्च तथैद्युसि ।
दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षइणा द्युभौ ॥२४॥

उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ ।
उपरि वसैदुपरिष्टाद् भवेद्रिष्टाति ऊद्‌र्ध्वकात् ॥२५॥

उत्तरेण च पित्रोक्तं आचि च स्याच्च दक्षिणा ।
आहौ दक्षिणाहि वसेद् द्विप्रकारं द्विधा च धा ॥२६॥

ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं ।
द्वौ प्र्कारौ द्विधा धाचि१ यथा२ ॥२७॥

निपातास्तद्धिताः प्रोक्ताः तद्वितो भाववाचकः ।
पटोर्भावः पटुत्वन्त्वे पटुता तलि चेरितं ॥२८॥

प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् ।
स्तेयं यति च स्येनस्य ये सख्युः सख्यमीरितं ॥२९॥

कपेर्भावश्च कापेयं सैन्यं पथ्यं यकीरितं ।
आश्वं कौमारकं चाणि रूपं चाणि च यौवनम्॥

आचार्य्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः ॥३०॥

इत्यादिमहापुराणे आग्नेये व्याकरणे तद्धितसिद्दरूपं नाम षट्‌पञ्चाशदधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP